SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] मात् तद्विपरीतत्वेन । न चाध्यक्षसिद्धभेदयोर्नीलतत्संवेदनयोः कुतश्चित् प्रमाणादेकताऽवसातुं शक्येति न भेदप्रतिभासस्य बाधा न हि नीलादिरेव ज्ञानरूपः, अहं नीलादिरित्यनवगतस्मान्नीलाद्याकारैव प्रकाशता सा च बुद्धिरिति निरस्तम् । न च यदि प्रकाशता निराकारा न तर्हि प्रतिकर्म व्यवस्थेति शंक्यम्, प्रकाशता हि किं नीलाद्याकारा, उत ग्राह्याकारावा, प्रथमे यद्येकदेशेन सा नीलाद्याकारा तर्हि सांशका प्रकाशता प्रसक्तेत्यनेकान्त - 5 सिद्धिः । सर्वात्मना नीलाद्याकारत्वे तस्या जडरूपनीलादिस्वभावत्वाद्विज्ञप्तिरूपत्वाभावप्रसक्तिः, जडस्य प्रकाशरूपत्वायोगात् । द्वितीयेऽन्योन्याश्रयः, ग्राह्यस्य प्रतिनियतरूपसिद्धौ तदाकारा प्रकाशता सिद्धयति, तत्सिद्धौ च ग्राह्यस्य प्रतिनियतरूपसिद्धिरिति । न हि देवदत्तस्य तदाकारतासिद्धौ यज्ञदत्तस्य तदाकारतासिद्धिर्दृष्टा, न च प्रकाशता साकारतासिद्धिमन्तरेणापि ग्राह्यस्य प्रतिनियतरूपसिद्धिः, निराकारज्ञानस्य प्रतिकर्म व्यवस्थाहेतुत्वप्रसक्तेः । 10 न च यद्यदाकारं तत् तस्य ग्राहकमिति व्याप्तिसिद्धि:, अन्यथा उत्तरनीलक्षण: पूर्वनीलक्षrt ग्राहकः स्यात् । न च तस्याज्ञानरूपत्वान्नायं दोषः, देवदत्तनीलज्ञानस्य यज्ञदत्तनीलज्ञानग्राहकतापत्तेः । न च तयोः कार्यकारणभावस्याभावान्न दोषः सदृशसमनन्तरज्ञानक्षणं प्रत्युत्तरज्ञानक्षणस्य ग्राहकताप्रसक्तेः । न च तथाविधसारूप्याभावान्नायं दोष इति वक्तव्यम्, कथञ्चित्सारूप्येऽनेकान्तवादप्रसङ्गात्, सर्वात्मना सारूध्ये चोत्तरक्षणस्य पूर्वक्षणत्वप्रसङ्गेनैक- 15 क्षणमात्रं सर्वसन्तानं स्यात् न च पूर्वोत्तरक्षणयोः परपक्षे भिन्नमभिन्नं वैकान्ततः सारूप्यं सम्भवति, भेदपक्षे सामान्यवादप्रसक्तेः, अभेदपक्षे तु तदभावप्रसक्तेः । किञ्च यदि नीलाकारं ज्ञानमनुभूयत इति बाह्योऽप्यर्थो नीलतया व्यवस्थाप्यते तर्हि त्रैलोक्यगतनीलार्थव्यवस्थितिस्ततो भवेत्, सर्वनीलार्थ साधारणत्वात्तस्य । अथ नीलाकारताऽविशेषेऽपि कश्चित्प्रतिनियम हेतुस्तत्र विद्यते यतः पुरोवर्तिन एव नीलादेस्ततो व्यवस्था, तर्हि ज्ञानस्यानाकारत्वेऽपि 20 तत एव नियमहेतोः प्रतिनियतार्थव्यवस्थापकत्वं भविष्यतीति तत्समानाकारतापरिकल्पनं व्यर्थम् | तस्मान्न साकारज्ञानप्रमाणवादोऽभ्युपगमार्होऽनेकदोषदुष्टत्वादिति स्थितम् || प्रमाणविचारः । : १८७ : जैमिनीयाभिमतस्य ज्ञातृव्यापारस्य प्रमाणत्वं पूर्वमेव निराकृतम्, यत्तु तस्य विशेषणं अनधिगतार्थगन्तृत्वं प्रतिपादितं तदप्यसङ्गतम्, प्रमाणं ह्यधिगतेऽनधिगते वा वस्तुन्यव्यभिचारादिविशिष्टां प्रमां जनयनोपालम्भविषयः । न चाधिगते वस्तुनि किं कुर्वतत्प्रमाणता- 25 मानोतीति वक्तव्यम्, विशिष्टेप्रमां विधतस्तस्य प्रमाणताप्रतिपादनात् । न च पूर्वोत्पन्नैव १ अज्ञाननिवर्तनस्यापि प्रयोजनत्वं विज्ञेयम् न च कृतस्य करणायोगः, अज्ञाननिवर्त्तनान्तरकरणात् पुनरज्ञाननिवृत्तेः किं फलमिति न वाच्यम् फलरूपस्य स्वस्य फलान्तरान्वेषणायोगात् अन्यथा तदविरामप्रसङ्गः ॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy