________________
सम्मतितत्त्वसोपाने
[ अयोविंशम् स्यासत्वप्रसक्तेः न हि तथाप्रतिभासादपरमत्रापि सत्त्वनिबन्धनम् | न चाहम्प्रत्ययोऽन्तःस्प्रष्टव्यशरीरालम्बनः, शरीरस्य सप्रतिघत्वेनापरप्रत्यक्षविषयत्वेन चाज्ञानरूपतया मुख्याहम्प्रत्ययविषयत्वानुपपत्तेः, ज्ञानस्यैवाप्रतिधत्वेन परप्रत्यक्षाविषयत्वेन मुख्याहम्प्रत्ययविषयत्वात् । न च निराकारं ज्ञानं नानुभूयतेऽतो न प्रत्यक्षतो ग्राह्यव्यतिरिक्तं ग्राहकस्वरूपं प्रतिभातीति वाच्यम् , 5 नीलमहं वेद्मीति बाह्यनीलार्थग्राहकस्यान्ताह्याव्यतिरिक्तस्य स्वसंवेदनाध्यक्षतो ज्ञानस्याहमहमिकया प्रतीतेः । न चान्तः सुखादयो बहिश्च नीलादयः परिस्फुटवपुषः स्वसंविदिताः प्रतिभान्ति न पुनस्तद्व्यतिरिक्तनिराकारं ज्ञानस्वरूपमर्थग्राहकमाभाति सुखादेरर्थग्राहकत्वायोगादिति वक्तव्यम् , बाह्यं प्रति सुखादीनां प्राहकत्वस्यास्माभिरप्यनङ्गीकारात्, न हि सुखादयो भाव
नोपनेयजन्मानो बहिरर्थसन्निधिमन्तरेणापि प्रादुर्भवन्तः पदार्थव्यक्तीनां नियमेनोद्योतकाः, 10 तेषां स्ववपुःपर्यवसितस्वरूपत्वात् । चक्षुरादिप्रभवास्तु संविदो बहिरर्थमुद्भासयन्त्यः स्पष्टाव
भासा अन्वयव्यतिरेकाभ्यां पृथगवसीयन्त इति पदार्थग्राहिण्यस्ता एवाभ्युपगमनीयाः सु. खादिवेदनं तु हृदि परिवर्तमानं बाह्यार्थसंविदः पृथगेव, न तद्वाह्यार्थग्राहकतयाऽभ्युपगमविषयः, तदेवं ग्राह्याद्व्यतिरेकेण निराकारज्ञानस्य स्वसंवेदनाध्यक्षसिद्धत्वादनुमानमपि तत्सा
धकत्वेन प्रवर्तन एव विप्रतिपत्तिसद्भावे । न च निराकारबुद्धिग्राहिकाऽपराबुद्धिरावश्यकी, 15 बुद्धेः स्वपरार्थग्राहकस्वरूपत्वात् , तथैव स्वसंवेदने तस्याः प्रतिभासमानत्वात् । न च प्रकाश
तारहितं नीलादिकं नोपलभ्यते तथोपलम्भे सर्वः सर्वदर्शी भवेत् , अतो नार्थीकारव्यतिरिक्ता सेति वाच्यम , यतो ज्ञानं विना नीलादिकं नोपलभ्यत इत्युच्यते तदा सिद्धसाध्यता, तदन्तरेण तदुपलम्भस्यानिष्टत्वात् । अथ नीलमेव प्रकाशरूपमिति प्रतिपाद्यते तन्न, नीलस्य
जडतया प्रकाशरूपत्वानुपपत्तेः, जडाजडयोः परस्परपरिहारस्थितिलक्षणतयैकत्वायोगात् । य20 दपि नीलस्य प्रकाश इति व्यतिरेकः शिलापुत्रकस्य शरीरमित्यादाविवाभेदेऽपि सम्भवतीति
तदपि न समीचीनम् , दृष्टान्ते हि प्रत्यक्षावगतोऽभेदो भेदप्रतिभासस्य बाधकः, न तु दार्टान्तिके प्रत्यक्षारूढोऽभेदप्रतिभासः समस्ति, तथाहि स्तम्भादि ग्राह्यरूपमनन्यव्यापृतत्वेन ग्राह्यत. याऽध्यक्ष प्रतिभाति प्रकाशता तु स्तम्भादिकर्मणि व्यापृतत्वेन ग्राहकतया प्रतिभातीति न स्त.
म्भतत्संवेदनयोरभेदावभासोऽध्यक्षारूढोऽवभाति, न केवलं ग्राहकाकारोऽन्यव्यापृतत्वेन प्रति25 भाति किन्त्वाहादादिस्वभावतया अहङ्कारास्पदश्च प्रतिभासनिश्चयाभ्यामवसीयते, तबाह्यस्तु
१ज्ञानाथयोयग्यतास्वभाव एव सम्बन्धो ग्राह्य ग्राहकभावाङ्गम्, न तु ज्ञानस्यार्थाकारधारित्वादाहकत्वं स्वाकारापकत्वाचार्थस्य ग्राह्यत्वम् , ज्ञानं हि स्वसामग्रीप्रतिनियमात् प्रतिनियतार्थसंवेदनयोग्यमेवोपजायते, अर्थाऽपि सामग्रोविशेषादेव प्रतिनियतसंवेदनवेद्यतायोग्य एव समुत्पद्यते, ज्ञानच स्वपरप्रकाशमिति न ज्ञानं स्वरूपनिमग्नं कथमर्थ प्रकाशयतीति शङ्काया अवकाशः ॥
"Aho Shrutgyanam" |