SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ सोपानम् । प्रमाणविचारः। रूपतयाऽध्यक्षेण सिद्धेस्तस्यापलापासम्भवात् , तथाप्रतीयमानस्यार्थस्यैव विज्ञप्तिरिति नामकरणमात्रात्तदभावासिद्धेः, एवञ्च बाह्याभ्यन्तररूपतयाऽर्थविज्ञानयोः प्रतिपत्त्या सिद्धेनिराकार एवं बोधस्तद्राहक इति, असदेतत् , निराकारं ज्ञानमर्थव्यवस्थापकमिति हि किं प्रत्यक्षतोऽ नुमानतोऽर्थापत्तितो वाऽभ्युपगम्यते, नायः स्तम्भादिव्य तिरेकेणान्यस्य ज्ञानस्य प्रत्यक्षतोऽ नुपलम्भेनासत्वात , न च सुखाद्यान्तररूपेणाहङ्कारास्पदतया स्वसंवेदनाध्यक्षतो ज्ञानं प्रतीयत 5 एवेति वाच्यम् , अन्तः स्पष्टव्य शरीरव्यतिरिक्तनया सुखादीनामप्रतिभासनात् , अहमिति प्रत्ययस्यापि तथाभूतशरीरालम्बनतया संवेदनात , तद्व्यतिरिक्तस्य बोधस्य चाननुभवात् , अत एव नानुमानतः, प्रत्यक्षपूर्वकत्वात्तस्य, न यार्थापत्तितः, तस्याः प्रामाण्यानुपपत्तेः, अनुस्मरणरूपत्वाच तस्याः, न हि इदं तदित्युल्लेखबदनुस्मरणमदृष्टेऽर्थे प्रवर्तते ज्ञानस्यादृष्टत्वात् । न चार्थस्य ज्ञानमिति निराकारस्य ज्ञानस्याविसंवादिनः प्रतीतेनं तस्यासद्भाव इति वाच्यम , आकार- 10 मन्तरेणार्थस्य बुद्धिरिति संयुज्य बुद्धेः प्रतीत्य सम्भवात् , न हि इदं तदित्यनिरूपिताकारमन्तरेण नियोजनामह ति, न च तथाऽप्रतीयमाना बुद्धिरिति व्यपदेश मासादयति, शशगादेरपि बुद्धित्वप्रसक्तेः तस्मात्साकारा बुद्धिरभ्युपगन्तव्या । अथ सुखस्तंभाद्याकारतया यद्यन्तःस्प्रष्टव्यशरीरादिकमेव ज्ञान प्रतिभाति न पुनस्ततो व्यतिरिक्तमपरं ज्ञानं तदा संवे. दनमात्रमेव प्रसक्तम् , एवञ्च चक्षुरादिना मया रूपं प्रतीयत इति कथं प्रतीतिः, सम्बन्धाभा- 15 वात्, अस्ति चेयं प्रतीतिः, तस्मादुपलभ्ये रूपादिके ऽभिमुखीभूतं चक्षुस्तत्प्रकाशत्वं विदधाति सा च बुद्धिरुच्यते । न च तत्राविद्यमानमेव नीलाद्याकारं प्रकाशत्वमुत्पन्न मिति वाच्यम् , विद्यमाननीलादिविषयचक्षुरादिव्यापारात् केवलमविद्यमानप्रकाशत्वस्यैवोत्पत्तेः, नीलादेस्तु पूर्वमेव भावात् , तथा च सत्यर्थस्य बुद्धिरिति व्यपदेशः सिद्ध एवेति चेन्न, प्रकाशव्यतिरे. केण नीलादेरनुपलम्भाचक्षुरादिना पूर्वव्यवस्थित एवं नीलादौ प्रकाशता समुदितेति वक्तुम- 20 शक्यत्वात् , न हि प्रकाशतारहितं नीलादिकं कदाचिदुपलब्धम् , उपलम्भे वा सर्वस्य सर्वदर्शित्वप्रसक्तिः, न च नीलस्य प्रकाश इति व्यतिरेक उपलभ्यत इति वाच्यम् , शिलापुत्रकस्य शरीरम् , स्तम्भस्य स्वरूपमित्यत्रापि व्यतिरेकोपलब्धेय॑तिरेकः स्यात् , तथा प्रकाशस्य प्रकाशतेति दृष्टेः प्रकाशताया अपि भेदः स्यात् । न चात्रैकैव प्रकाशता नापरा भेदोपलम्भस्तु प्रत्यक्ष बाधित इति वाच्यम् , तथा सति नीलप्रकाशयोरपि न प्रत्यक्षप्रतीतो भेद इति 20 व्यतिरेकस्यासिद्धीलाद्याकारैव प्रकाशता सा च बुद्धिरिति सिद्धा साकारता ज्ञानस्येति तत्रोच्यते, निराकारं विज्ञान मर्थग्राहकं न प्रत्यक्षतः प्रतीयते स्तम्भशरीरादिभेदेनानुपलम्भतस्तस्यासत्त्वादिति न युक्तम् , अहङ्कारास्पदस्य सुखादे नविशेषस्यान्तः स्वसंवेदनप्रत्यक्षेणानुभूयमानस्य सत्त्वात्, न च स्वसंवेदनप्रत्यक्षसिद्धस्याप्यसत्त्वम् , स्तम्भाद्याकारस्यापि ज्ञान २४ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy