________________
सम्मतितत्त्वसोपाने
[ प्रयोविशम् वाच्यमिति निराकारवादेऽपि समानमेव, तस्मादस्माभिरभिधीयमानं किमित्यसङ्गतं भवतः प्रतिभाति । अपि च विज्ञानस्य साकारता किं साकारेण प्रतीयते निराकारेण वा, आयेऽ. नवस्था, तत्रापि तत्प्रतिपत्तावाकारान्तरस्वीकारप्रसङ्गात् , द्वितीये तु बाह्यार्थस्यापि सथा
भूतेनैव प्रतिपत्त्यापत्तिः । बाह्ये प्रत्यासत्तिनियमाभावान्न तथाभूतेन प्रतिपत्तिरिति चेदितरत्रापि 5 तुल्य एव प्रत्यासत्तिनियमाभावः । शुक्ले पीताकारदर्शनादभ्रान्ते न प्रतिनियमाभाव इति चेत्तर्हि निराकारेऽप्यभ्रान्तत्वादेव प्रतिनियमो भविष्यतीति किमाकारपरिकल्पनया । कथमाकारमन्तरेण प्रतिनियम इति चेन्न, आकारेऽप्यस्य समानत्वात् , साकारवादिनोऽपि हि कथं प्रतिनियम इति प्रेरणायां प्रतिनियताकारपरिग्रह एव प्रतिनियम इत्युत्तरं न युक्तम् , प्रतिनियताकारपरि
ग्रहस्यैव प्रतिनियमरूपतयोपन्यस्तस्याद्यापि विचार्यमाणत्वात् । नाप्यनुमानाद्वाह्योऽर्थः प्रती10 यत इति वक्तव्यम् , व्याप्त्यसिद्धेः, न ह्यध्यक्षतो बाह्योऽर्थः कदाचनापि सिद्धो नापि तत्प
तिबद्धो ज्ञानाकार इति । नाप्यर्थापत्त्या तत्सिद्धिः, ततोऽर्थस्वरूपप्रतिपत्तौ प्रत्यक्षरूपताप्रस. नात् । अथ दूरस्थितवृक्षादौ तत्पिण्डाद्याकारस्य यथा बाह्यवृक्षाद्यर्थाभावे न प्रतिभासस्तथास्त. म्भादौ तदाकारः सत्येव बाह्ये स्तम्भाद्यर्थे इति सिद्धो बाह्योऽर्थः । न च वृक्षादावपि पिण्डाद्या
कार एव वृक्षादिरिति वाच्यम् , स्वपराभ्यां सन्निहितस्य तस्यान्यथाप्रतीतेः, मैवम् , स्वपराभ्यां 15 हि सन्निहितस्यास्य साकारज्ञानेन प्रतीयमानत्वेऽस्यापि ज्ञानाकारताप्राप्त्या बाह्यार्थासिद्धितो
दृष्टान्तासम्भवः, निराकारज्ञानेन स्वपराभ्यामर्थः प्रतीयत इति बाह्यार्थेन सह पिण्डाद्याकारस्य यदि प्रतिबन्धसिद्धिरित्युच्यते तर्हि निराकारज्ञानस्य बाह्यार्थग्राहकतासिद्धेः ज्ञानाकारकल्पनं व्यर्थम् , तस्मानिराकारादेव बाह्यार्थसिद्धिरभ्युपगन्तव्या । ननु निराकारं ज्ञानं
नीलादावर्थेऽभिन्नव्यापार न प्रवर्तते, व्यापारव्यापारिणोर्धमधर्मिभावेन प्रतीतेः, भिन्नस्तु 20 व्यापारः सम्बन्धासिद्ध्या न सम्भवति, व्यापारस्यापि चार्थग्रहणव्यापृतावपरो व्यापारः
कल्पनीय इत्यनवस्था स्यात् । निर्व्यापारस्यापि व्यापारस्यार्थव्यापृतावर्थस्यापि ज्ञानग्रहणे व्यापृतिप्रसक्त्या ज्ञानं प्रत्यर्थोऽपि ग्राहकः स्यात् । निराकारो बोधो नियापारोऽपि ज्ञानरूपस्वादर्थग्राहक इति न वाच्यम् , अर्थस्याप्यर्थरूपतया बोधं प्रति ग्राहकतापत्तेः, ततो ग्राह्य
रूपासंस्पर्शनान्न बोधो ग्राहकः । न वार्थस्य ग्राह्यत्वान्यथानुपपत्त्या ज्ञानं ग्राहकम् , अन्यो25 न्याश्रयात् , ग्राह्यताव्यवस्थाया ग्राहकरूपसंस्पर्शात् , ग्राहकताव्यवस्थायाश्च ग्राह्यरूपसंस्पर्शादिति विज्ञप्तिमात्रं तत्त्वमतो न निराकारो बोधोऽर्थव्यवस्थाकारीति चेत्र बाह्यार्थस्य स प्रतिघ
. २ निराकारवादिनोऽर्थेन ज्ञानस्य संघटनाय कापि प्रत्यासत्तिरभ्युपेया, सा व पुरोवर्त्यखिलपदार्थसाधारणा ततः कथं प्रतिनियतार्थप्राहकतानियमः, अस्माकं तु तदाकारधारणादिति नियमः सम्भवतीत्याशङ्कायास्तात्पर्यम् , उत्तरन्तु साकारज्ञानमध्यखिलार्थसाधारणमतो न नियतार्थन घटते, तस्मादशेषसमानार्थानामेकं ज्ञानं स्यात्, केनचित् प्रत्यासत्तिविप्रकर्षासिद्धः, तदुत्पत्त्यादीनामनियामकत्वादिति ॥
"Aho Shrutgyanam"