________________
સીવાનમ્
प्रमाणविचारः ।
: १८३
णम्,
'
निराकारो बोधः प्रमाणम् । नापि साकारो बोधः प्रमितिक्रियायां साधकतमत्त्वात् प्रमाबोधो हि प्रमाणस्वरूपः, ततो नार्थाकारः, अन्यथा प्रमेयंरूपत्वापत्तेः, न हि प्रमाणं प्रमेयरूपमेव, प्रमाणस्य प्रमेयग्राहकत्वेन प्रतिभासनात्, तथा सत्यपि न प्रमेयरूपं तत् प्रमाणस्यान्तर्व्यवस्थिततया प्रमेयस्य च बहिर्व्यवस्थिततया भेदेन प्रतिभासनात्, नायं प्रतिभासो बाधितः, साक्षात्करणरूपस्य तस्य प्रत्यक्षस्यार्थव्यवस्थापकत्वात्प्रमाणान्तरतो बाधा- 5 नुपपत्तेः, उक्त ' प्रमाणस्य प्रमाणेन न बाधा नाप्यनुग्रहः । बाधायाम प्रमाणत्वमानर्थक्यमनुग्रहे ॥ इति । सर्वदा बहिर्विच्छिन्नार्थावभासिनोऽध्यक्षस्याप्रमाणत्वे प्रमाणान्तरात्रवृत्तिरेव । न च ज्ञानमेव बहिरर्थाकारमध्यक्षेण वेद्यते न बाह्योऽर्थ इति कथं निराकारता तस्येति वाच्यम्, ज्ञानरूपतया बोधस्याध्यक्षे प्रतिभासनादर्थस्य च ज्ञानरूपतयाऽप्रतिपत्तेः, न ह्यनहङ्कारास्पदत्वेनार्थस्य प्रतिभासेऽहङ्कारास्पदबोधरूपस्येव ज्ञानरूपता युक्ता, यदि 10 वहङ्कारास्पदत्वेनार्थस्य प्रतिभास: स्यात्तदा ज्ञानरूपादभिन्नत्वात्तदात्मनोऽहं घट इति प्रतिभासः स्यात्, न चान्यथाभूता प्रतिपत्तिरन्यथाभूतमर्थं व्यवस्थापयति, प्रतिपत्तिव्यतिरेकेणाप्यर्थव्यवस्थाप्रसक्तेः, नीलप्रतिपत्तेरपि पीतादिव्यवस्थापनाप्रसङ्गादतिप्रसक्तेश्च । ननु यदि ज्ञानं साकारं न भवेत्तदा तस्य बोधमात्ररूपतया सर्वार्थान् प्रत्यविशेषान्नीलस्येदं संवेदनं न पीतस्येति प्रतिनियतविषयव्यवस्थापकत्वं न भवेत्, साकारत्वे चाकारनियमादाकार - 15 प्रतिपस्या तज्जनकस्यार्थस्य तदाकारताऽर्थापत्त्या सिद्ध्यतीति विषयव्यवस्था स्यादिति चेन्न, निराकारबोधस्य सर्वार्थान् प्रत्यविशिष्टत्वासिद्धेः, चक्षुरादिवृत्त्या बोधस्य पुरोवर्त्तिनीलादावेव नियमितत्वात्, तथादर्शनात्, न हि दृष्टेऽनुपपन्नं नाम, न वा चक्षुरादिभिः कथं पुरोवर्त्ति नीलादावेव तन्नियम्यते नान्यत्रेति शङ्कयम्, तथाविधवस्तुस्वभावे पर्यनुयोगासम्भवात्, न हि कारणानि कार्यजननप्रतिनियमे पर्यनुयोगमर्हन्ति, अन्यथा साकारत्वेऽपि पर्यनुयोगस्य 20 समानत्वात्, साकारमपि हि ज्ञानं किमिति नीलादिकमेव पुरोवर्त्ति तत्सन्निहितमेव व्यवस्थापयति, तेनैव तथा तस्य जननादिति चेत्समानमेतन्निराकारत्वेऽपि । तथा चक्षुरादिजन्यं तद्विज्ञानं किमिति चक्षुराद्याकारं न भवतीति पर्यनुयोगे भवतापि वस्तुस्वभावैरत्रोत्तरं
१ अर्थबलप्रसूतं ज्ञानं यथा नीलाकार तथा जडतामनुकुर्यादेवं च प्रमेयमेव तत्स्यात्, न तु ज्ञानलक्षणं प्रमाणमिति भावः ॥ २ ज्ञानं हामूर्त सर्ववादिसिद्धम्, विषयस्तु मूर्त्तः, अमूर्ते च कथं मूर्तस्य प्रतिबिम्बसम्भवः येन विषयाकारधारित्वं बुद्धेः स्यात् विषयाकाररहितमेव ज्ञानमध्यक्षेणाहमहमिकया प्रतिपुरुष घटादिग्राहकमनुभूयते न पुनर्दर्पणादिवत् प्रतिविम्वितमिति ।। ३ तदुत्पत्तिस्ताद्रूष्यञ्च नियामकम् उभयम एव घटते, नैन्द्रियादौ ताद्रूप्याभावादिति चेन्न, द्वितीयबोधस्य तत्पूर्ववोधात्तदुत्पत्तिनादृष्ययोः सद्भावेऽपि ज्ञानस्य स्वप्रकाशतया ज्ञानान्तरानियामकत्वाभावाद्व्यभिवारः एवमवदिन्द्रियमपि कुतो नानुकुर्यादसौ येन तत्तादात्म्यं न भवेदित्याशयेनाह तथेति ॥
"Aho Shrutgyanam"