SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ सम्मतितत्वसोपाने । त्रयोविंशम् अथ प्रमाणविचारः। एवं सामान्यविशेषरूपतया ज्ञेयस्य द्वयात्मकत्वं प्रतिपाद्य उपयोगोऽपि परस्परापेक्षसामान्यविशेषग्रहणप्रवृत्तदर्शनज्ञानरूपद्व्यात्मकः प्रमाणं दर्शनज्ञानैकान्तरूपस्त्वमाणमिति दर्शयितुं द्रव्यार्थिकपर्यायार्थिकाभिमतप्रत्येकदर्शनज्ञानस्वरूपप्रतिपादिकां गाथामाह जं सामण्णग्गहणं दसणमेयं विसेसियं णाणं । दोण्ह वि णयाण एसो पाडेकं अत्थपजाओ ॥५५॥ यत् सामान्यग्रहणं दर्शनसेतद्विशेषितं ज्ञानम् । द्वयोरपि नययोरेषः प्रत्येकमर्थपर्यायः ॥ छाया ॥ यदिति, द्रव्यार्थिकस्य सामान्यमेव वस्तु, तदेव गृह्यतेऽनेनेति ग्रहणं दर्शनमेतदुच्यते, 10 पर्यायास्तिकस्य तु विशेष एवं वस्तु, स एव गृह्यते येन तज्ज्ञानमभिधीयते, ग्रहणं विशे पितमित्यस्य विशेषग्रहणमित्यभिप्रायः । द्वयोरप्यनयोर्नययोः प्रत्येकमर्थपर्याय:- ईदृग्भूतार्थग्राहकत्वमित्यर्थः ।। तत्र तत्र छुपयोगस्यानाकारसाकारते सामान्यविशेषग्राहकते एवाभिधीयेते, अविद्यमानः आकारो ग्राह्यस्य भेदोऽस्येत्यनाकारो दर्शनमुच्यते, सह आकारै ह्यभेदैवतते यद्वा. 15 हकं तत्साकारं ज्ञानमुच्यते, निराकारसाकारोपयोगौ तूपसर्जनीकृततदितराकारौ स्ववि पयावभासकत्वेन प्रवर्तमानौ प्रमाणम्, न तु निरस्तेतराकारी, तथाभूतवस्तुस्वरूपविषयाभावेन निर्विषयतया प्रमाणत्वानुपपत्तेः,-इतरांश विकलेकांशरूपोपयोगसत्तानुपपत्तेश्च । तत्र वैभाषिका बोधः प्रमाणमिति वदन्ति ते किं बोधमात्रस्य प्रामाण्यं किं वा बोधविशेषस्येति पर्यनुयोज्याः, तत्र न प्रथमः, व्यवच्छेद्याभावेन तल्लक्षणप्रणयनयात् , अबोधस्य व्यव20 च्छेद्यत्वेऽपि संशयादीनां प्रमाणतापत्तेश्च, न चेष्टापत्तिः, लोकशास्त्रविरोधात , लोके चेन्द्रि यादेः प्रमाणतया व्यपदेशेन तत्राव्याप्तिरपि, व्यपदिशति च लोकोऽबोधरूपस्येन्द्रियादेः प्रमाणताम् , प्रदीपेनोपलब्धं चक्षुपा दृष्टं धूमेनावगतमिति व्यवहारात् , न च तेषां प्रामाण्यमुपचरितम् , प्रमितिक्रियायां साधकतमत्त्वेन मुख्यप्रामाण्योपपत्तेः । किश्च प्रमीयतेऽनेनेति प्रमाणशब्दः करणविशेष प्रतिपादयति, करणविशेषत्वञ्च विशिष्टोपलब्धिलक्षणकार्यकारि25 त्वम् , कार्यश्चाव्यभिचारादिस्वरूपा प्रमितिः, एकस्य च करणक्रियाविरोधात्तजनकोऽन्यः साधकतमः आवश्यक इति बोधाबोधरूपम्य प्रमितिजनकस्य प्रमाणत्वादबोधस्वरूपेऽव्याप्तिः। न द्वितीयः, बोधस्य हि विशेषः अव्यभिचारादिविशिष्टता, तथाविधस्य प्रमितिस्वभावतया तस्य प्रमाणताग्रसंगः, करण विशेषस्यैव प्रमाणतया नत्रेधापत्तिर्न च कत्तुं शक्या । तस्मान्न "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy