SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ सोपानम् । सप्तभङ्गनिरूपणम् । जे वयणिजवियप्पा संजुजतेसु होंति एएसु । सा ससमयपण्णवणा तित्थयराऽऽसायणा अण्णा ॥ ५३॥ ये वचनीय विकल्पाः संयुज्यमानयोर्भवन्त्यनयोः । सा स्वसमयप्रज्ञापना तीर्थकरासादनाऽन्या ॥ छाया ॥ य इति, येऽभिधेयस्य प्रतिपादका अभिधानभेदास्ते संयुज्यमानयोरन्योऽन्यसम्बद्धयो. 5 द्रव्यार्थिकपर्यायार्थिकवाक्यनययोर्भवन्ति, ते च कथञ्चिन्नित्य आत्मा कथञ्चिदमूर्त इत्येवमादयः । सैषा स्वसमयार्थप्रज्ञापना, अन्या तु निरपेक्षयोरनयोर्नययोर्या प्ररूपणा सा तीर्थकरस्यासादनाधिक्षेपः । ' एगमेगेणं जीवस्स पएसे अणंतेहिं णाणावरणिजपोग्गलेहि आवेढियपवेढिए' इति तीर्थक द्वचने प्रमाणोपपन्ने सत्यपि ' नामूर्त मूर्त्ततामेति मूर्तं नायात्यमूर्तताम् । द्रव्यं कालत्रयेऽपीत्थं च्यवते नात्मरूपतः' इति तीर्थकुन्मतमेवैतन्नयवाद निरपे. 10 क्षमिति कैश्चित्प्रतिपादयद्भिस्तस्याधिक्षेपप्रदानात् ॥ ५३ ॥ परस्परनिरपेक्षयोरनयोः प्रज्ञापना तीर्थकरासादना इत्यस्यापवादमाह.---- पुरिसजायं तु पडुच्च जागओ पण्णवेज अण्णयरं । परिकम्मणाणिमित्तं दाएही सो विसेसं पि ॥ ५४॥ पुरुषजानं प्रतीत्य ज्ञकः प्रज्ञापयेदन्यतरत् । परिकर्मणानिमित्तं दर्शयिष्यत्यसौ विशेषमपि ॥ छाया ॥ पुरुषेति, विज्ञातद्रव्यपर्यायान्यतरस्वरूपं श्रोतारं वाऽऽश्रित्य ज्ञक:- स्याद्वादवित् अन्य. तरत् पर्याय द्रव्यं वा प्रज्ञापयेत, अभ्युपेतपर्यायाय द्रव्यमेव, अभ्युपेतद्रव्याय च पर्यायमेव कथयेत् बुद्धिसंस्कारार्थम् । असौ स्याद्वादाभिज्ञः परिकर्मितमतये विशेषमपि द्रव्यपर्याययोः परस्पराविनिर्भागरूपमेकांश विषयविज्ञानस्य दर्शयिष्यति, अन्यथा विपर्ययरूपता- 20 प्रसक्तिः तदितराभावे तद्विषयस्याप्यभावादिति ॥ ५४ ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानन्दमूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरण तत्पधरेण विजय लब्धिमृरिणा सङ्कलितस्य सम्मति तत्वसोपानस्य सप्तभङ्ग निरूपणं नाम द्वाविंशं सोपानम् ॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy