SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ सम्मतितत्त्वसोपाने [ पञ्चविंशम् वहारोच्छेदादतुमानप्रमाणाभावः । अथाविकल्पं विकल्पकतया तदा सविकल्पकमेव सर्व प्रमाणमित्यविकल्पकप्रत्यक्षवादो विशीर्येत । ननु यथा य एव मणिर्मया दृष्टः स एव प्राप्त इत्यभिमानिनो दृश्यप्राप्ययोरेकत्वाध्यवसायाद् दृश्यं प्राप्यारोपात् प्राप्यं तथाऽविकल्पो विकल्पारोपात् विकल्पो भवति, यथा च मणिप्राप्तौ मणिप्रतिभासस्य नाभावः, अन्यथा 5 मणिः प्रतिभातो न प्राप्तः स्यात् , तथा सविकल्पाविकल्पयोरेकत्वाध्यवसायेऽपि निर्विकल्पस्य नाभाव इति चेन्न, सांशस्थूलैकस्पष्टप्रतिभासव्यतिरिक्तस्य निरंशक्षणिकपरमाणुप्रतिभासलक्षण निर्विकल्पकानुभवस्य तदैव निर्णयप्रसङ्गात् । अथ विकल्पेनाविकल्पस्य सहस्रांशुना तारानिकरस्येव तिरस्कारान्न तथा निर्णयस्तर्हि विकल्पस्याप्यविकल्पेन तिरस्कारात् प्रतिभा सनिर्णयो न स्यात् । अथ विकल्पस्य बलीयस्त्वादविकल्पस्य च दुर्बलत्वात्तेन तस्य तिर10 स्कारः, न, विकल्पस्य हि किं प्रचुरविषयत्वादलीयस्त्वम् किं वा निर्णयात्मकत्वात् , नाद्यः, अविकल्पविषय एव प्रवृत्त्यभ्युपगमात् , अन्यथाऽस्य गृहीतग्राहित्वासम्भवात् , न द्वितीयः, विकल्पस्य स्वरूपे निर्णयात्मकत्वे सर्वचित्तचैत्तानामात्मसंवेदनं प्रत्यक्षमित्यस्य विरोधात्, एवमपि तस्य स्वरूपे निर्णयात्मकत्वे चक्षुरादिज्ञानं स्वपरयोस्तदात्मकं किं न भवेत् , तथा च स्वार्थाकाराध्यवसायाधिगमश्चक्षुरादिचेतसां सिद्ध इति केन कस्य तिरस्कारः। यदि 15 विकल्पोऽर्थे निर्णयात्मकस्तदैकस्य विकल्पस्य निर्णय निर्णयस्वभावरूपद्वयमायातं तच्च परस्परं तद्वतश्च यद्येकान्ततो भिन्नमभ्युपगम्यते तदा समवायादेरनभ्युपगमात् सम्बन्धासिद्धर्बलवान् विकल्पो निर्णयात्मकत्वादित्यस्यासिद्धेः । न च रूपादीनामिव परस्परमेकसामग्र्यधीनतालक्षणस्तयोः सम्बन्धः तद्वता चाग्निधूमयोरिव तदुत्पत्तिलक्षण इति वक्तव्यम् , स्वाभ्युपगमविरोधात् । यदि निर्णयानिर्णयस्वभावयोरन्योन्यं तद्वतश्च कथंचित्तादात्म्यं तर्हि यत्स्वात्मनि 20 अनिर्णयात्मकं बहिरर्थे च निर्णयस्वभावं रूपं तत्साधारणमात्मनं प्रतिपद्यते चेद्विकल्पः स्व रूपेऽपि सविकल्पकः प्रसक्तः, अन्यथा निर्णयस्वभावतादात्म्यायोगात् । न च स्वरूपमनिश्चिन्वन् विकल्पोऽथ निश्चिनोतीति वाच्यम् , यतोऽगृहीतस्वरूपमपि ज्ञानमर्थनाकं भवेदिति न नैयायिकमतप्रतिक्षेपः । न च नैयायिकाभ्युपगमेन परगृहीतस्य स्वगृहीततादोषः, भव. न्मतेऽपि पर निश्चितस्य स्वनिश्चितत्वप्रसक्तेः । यथा च परज्ञातमननुभूतत्वान्नात्मनो विषयः 25 तथा विकल्पस्य स्वरूपमनिश्चितत्वान्नात्मनो विषय इति समानं पश्यामः, न च तस्यापि विकल्पान्तरेण निश्चयः, तस्यापि विकल्पान्तरेण निश्चयापत्तेरनवस्थाप्रसक्तेः । न च चिकल्पस्वरूपमनुभूतमपि क्षणिकत्वादिवदनिश्चितमर्थनिश्चायकं युक्तम् , अनिश्चितस्यानुभवेऽपि क्षणिकत्ववत् स्वयमव्यवस्थितत्वादव्यवस्थितस्य च शशशृङ्गादेरिवान्यव्यवस्थापकत्वा१ स्वस्वरूपापेक्षयाऽनिर्णयात्मकत्वादर्थरूपापेक्षया निर्णयात्मकत्वादिति भावः ॥ "Aho Shrutgyanam" |
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy