________________
। १७८ :
5
15
सम्मतितरवसोपाने
रूआइपजवा जे देहे जीवदवियम्मि सुद्धम्मि | ते अण्णोष्णानुगया पण्णवणिज्जा भवत्थम्मि ॥ ४८ ॥
रूपादिति, रूपरसगन्धस्पर्शादयो ये देहाश्रिताः पर्याया ये च विशुद्धस्वरूपे जीवद्रव्याश्रिते ज्ञानादयस्तेऽन्योऽन्यानुगताः, जीवे रूपादयो देहे ज्ञानादय इति प्ररूपणीया भवस्थे संसारिणि, अकारप्रश्लेषाद्वाऽसंसारिणि । न च संसारावस्थायां देहात्मनोरन्योऽन्यानुबन्धाद्रूपादिभिस्तद्व्यपदेशो युक्तः, मुक्त्यवस्थायान्तु तदभावान्नासौ युक्त इति वाक्यम्, तदवस्थायामपि देहाद्याश्रितरूपादिग्रहणपरिणतज्ञानदर्शनपर्यायद्वारेणात्मनस्तथाविधत्वात्तथा10 व्यपदेशसम्भवात्, आत्मपुद्गलयोश्च रूपादिज्ञानादीनामन्योन्यानुप्रवेशात् कथचिदेकत्वमकत्वञ्च मूर्त्तत्वममूर्त्तत्वन, अव्यतिरेकात्सिद्धमिति ॥ ४८ ॥
रूपादिपर्यवा ये देहे जीवद्रव्ये शुद्धे । तेऽन्योन्यानुगताः प्रज्ञापनीया भवस्थे ॥ छाया ॥
25
[ द्वाविंशम्
एतदेवाह
एवं एगे आया एगे दंडे य होइ किरिया य । करणविसेसेण य तिविजोग सिद्धी वि अविरुद्वा ॥ ४९ ॥
एवमेक आत्मा एको दण्डश्च भवति क्रिया च । करणविशेषेण च त्रिविधयोगसिद्धिरण्यविरुद्धा || छाया ॥
एवमिति, उक्तप्रकारेण मनोवाक्यद्रव्याणामात्मन्यनुप्रवेशादात्मैव न तद्व्यतिरि कारत इति तृतीयाङ्गकस्थाने ' एगे आया' इति प्रथमसूत्रप्रतिपादितः सिद्ध एक आत्मा एको दण्ड एका क्रियेति भवति, मनोवाक्कायेषु दण्डक्रियाशब्दौ प्रत्येकमभिसम्बन्धनीयौ, क 20 रणविशेषेण च मनोवाक्कायस्वरूपेणात्मन्यनुप्रवेशावाप्तत्रिविधयोगस्वरूपत्वात् त्रिविधयोगसिद्धिरपि आत्मनोऽविरुद्वैवेत्येकस्य सतस्तस्य त्रिविधयोगात्मकत्वादने कान्तरूपता व्यवस्थितैव । न चान्योन्यानुप्रवेशादेकात्मकत्वे बाह्याभ्यन्तरविभागाभाव इति अन्तर्हर्षविषादायने. कविवर्त्तात्मकमेकं चैतन्यं बहिर्बालकुमारयौवनाद्यने कावस्यैकात्मक मे कशरीर मध्यक्षतः संवेद्यत इत्यस्य विरोधः, बाह्याभ्यन्तरविभागाभावेऽपि निमित्तान्तरतस्तद्व्यपदेश सम्भवात् ॥ ४९ ॥
एतदेवाह —
णय बाहिरओ भावो अभंतरओ य अत्थि समयम्मि । पोइंदियं पुण पडुच होइ अभंतरविसेसो ॥ ५० ॥
"Aho Shrutgyanam"