________________
सोपानम् ]
सप्तभङ्गनिरूपणम् । न च बाह्यो भावः आभ्यन्तरश्चास्ति समये ।
नोइन्द्रियं पुनः प्रतीत्य भवति आभ्यन्तरविशेषः ॥ छाया । न चेति, आत्मपुद्गलयोरन्योन्यानुप्रवेशादुक्तप्रकारेणार्हत्प्रणीतशासने न बायोऽभ्यन्तरो वा भावः सम्भवति, मूर्त्तामूर्तीदिरूपतया सकलवस्तुनः संसारोदरवर्तिनोऽनेकान्ता. स्मकत्वात् । नोइन्द्रियं मनःप्रतीत्याभ्यन्तर इति व्यपदेशः, तस्यात्मपरिणतिरूपस्य परा- 5 प्रत्यक्षत्वात् शरीरवाचोरिव । न च शरीरात्मावयवयोः परस्परानुप्रवेशाच्छरीरादभेदे आत्मनोऽपि तद्वत् परप्रत्यक्षताप्रसक्तिः, इन्द्रियज्ञानस्याशेषपदार्थस्वरूपग्राहकत्वायोगादित्यस्य प्रतिपादयिष्यमाणत्वात्। अतः शरीरप्रतिबद्धत्वमात्मनो न भवति, अमूर्तत्वादिति प्रयोगे हेतुरसिद्धः । किश्चात्मपरिणतिरूपमनसः शरीरादात्यन्तभेदे तद्विकाराविकाराभ्यां शरीरस्य तत्त्वं न स्यात् , तदुपकारापकाराभ्यां वाऽऽत्मनः सुखदुःखाद्यनुभवश्च न भवेत् , शरीरविघात- 10 कृतश्च हिंसकत्वमनुपपन्नं भवेत् , शरीरपुष्ट्यादेः रागाद्युपचयहेतुत्वं शरीरस्य कृशोऽहं स्थूलोऽ हमिति प्रत्यय विषयत्वश्च दूरोत्सारितं भवेत् पुरुषान्तरशरीरस्येव घटाकाशयोरपि प्रदेशा. न्योन्यप्रवेशलक्षणो बन्धोऽस्त्येवेत्ययुक्तो दृष्टान्तः, अन्यथा घटस्यावस्थितिरेव न भवेत् । न चान्योन्यानुप्रवेशसद्भावेऽप्याकाशवच्छरीरपरतंत्रताऽऽत्मनोऽनुपपन्ना, मिथ्यात्वादेः पारतंज्यनिमित्तस्यात्मनि भावादाकाशे च तदभावात् । न च शरीरायत्तत्वे सति तस्य मिथ्या- 15 स्वादिबन्धहेतुभिर्योगस्त स्माञ्च तत्प्रतिबद्धत्वमितीतरेतराश्रयः, अनादित्वाभ्युपगमेन निरा. सात् । न च शरीरसम्बन्धात् प्रागात्मनोऽमूर्तत्वम् , सदा तैजसकामणशरीरसम्बन्धित्वासंसारावस्थायां तस्य, अन्यथा भवान्तरस्थूलशरीरसम्बन्धित्वायोगात् , पुद्गलोपष्टम्भव्यतिरेकेणो गतिस्वभावस्यापरदिग्गमनासम्भवात् , स्थूलशरीरेणातिसूक्ष्मस्यात्मनो रज्वादि. नेवाकाशस्य सम्बन्धायोगाश्च संसारिशून्यं जगत् स्यादिति संसार्यात्मनः सूक्ष्मशरीरसम्ब- 20 न्धित्वं सर्वदाभ्युपगन्तव्यम् । अथ शरीरात्मनोस्तादात्म्ये शरीरावयवच्छेदे आत्मावयवस्यापि छेदप्रसक्तिः, अच्छेदे तयोर्भेदप्रसङ्गः, न, कथञ्चित्तच्छेदस्याभ्युपगमात् , अन्यथा शरीरात् पृथग्भूतावयवस्य कम्पोपलब्धिर्न भवेत् , तत्रैव पश्चादनुप्रवेशाञ्च न पृथगात्मताप्रसक्तिः, छिन्ने हस्तादौ कम्पादितल्लिङ्गादर्शनादियं कल्पना । न वा च्छिन्नहस्तादावेव विनष्टः, शेषस्याप्येकत्वेन विनाशप्रसङ्गात् , एवश्च ततोऽन्यत्रात्मावयवस्य शेषस्यापि गमनप्रसङ्गतोऽ 25 गमनात्तत्राप्यसत्त्वादविनष्टत्वाच्च तदनुप्रवेशोऽवसीयते गत्यन्तराभावात् । न चात्मन एकत्वे विभागाभावाच्छेदाभाव इति वाच्यम्, शरीरद्वारेण तस्यापि सविभागत्वात् , अन्यथा सावयवशरीरव्यापिता तस्य कथं भवेत् । न वा शरीरासर्वगतोऽसौ, तत्र सर्वत्रैव स्पोपलम्भात्। नापि तदव्यापकस्य तच्छेदे छेदः, अतिप्रसङ्गात् । नाप्यवयवच्छेदे न च्छिन्नः,
"Aho Shrutgyanam"