SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ सोयामम् ] सप्तभनिरूपणम् । अभावस्य कारणत्वाभावाच्च । यद्यपि कपालानि घटहेतुकानि तथापि घटसद्भावमेव गमयेयुर्न तदभावम् , न हि धूमः पावकहेतुस्तदभावगमक उपलब्धः। न चामिन्ननिमित्तजन्यतया तयोः प्रतिबन्धः, अभावस्याकार्यत्वाभ्युपगमात् । नापि तादात्म्यलक्षणः, तयोस्तदभावात् । न च घटस्वरूपव्यावृत्तत्वात्तेषां तदभावप्रतिपत्तिजनकत्वम् , सकलत्रैलो. क्याभावप्रतिपत्तिजनकत्वप्रसक्तः, तेषां ततोऽपि व्यावृत्तस्वरूपत्वात् । न च घटविनाशरूप. 5 त्वात्तेषां नायं दोषः, तेषां वस्तुरूपत्वात् , विनाशस्य च निःस्वभावत्वात् , तथा च तादारम्यविरोधः, अन्यथा घटानुपलम्भवत्तेषामपि तदानुपलब्धिर्भवेतू , तस्मात् प्रागभावात्मकः सन् घटो साभावात्मकता प्रतिपद्यत इत्यभ्युपगन्तव्यम् , अन्यथा पूर्वोक्तदोषानतिवृत्तेः । सत्त्वलक्षणस्यापि हेतोर्गमकत्वमनेनैव प्रकारेण सम्भवति, अन्यथा उत्पत्त्यभावात् स्थित्यभावः, तदभावे विनाशस्याप्यभावः, असतो विनाशायोगादिति यात्मकमेकं वस्त्वभ्यु. 10 . एगन्तव्यम् , अन्यथा तदनुपपत्तेरिति । यथा चाऽऽत्मनः परलोकगामित्वं शरीरमात्रव्यापकस्वञ्च तथा प्रतिपादितमेव । ननु शरीरमात्रव्यापित्वे तस्य गमनाभावाद्देशान्तरे तद्गुणोपल. ब्धिर्न भवेत् , न, तदधिष्ठितशरीरस्य गमनाविरोधात् , पुरुषाधिष्ठितदारुयंत्रवत्। न च मूर्तीमूर्तयोघंटाकाशयोरिव प्रतिबन्धाभावान्मूर्तशरीरगमनेऽपि नामूर्तस्यात्मनो गमनमिति वक्तव्यम् , संसारिणस्तस्यैकान्तेनामूर्त्तवासिद्धेस्तत्प्रतिबद्धत्वाभावासिद्धेः ॥ ४६॥ 13 एतेदवाह अण्णोण्णाणुगयाणं इमं व तं वत्ति विभयणमयुतं । जह दुद्धपाणियाणं जावंत विसेसपजाया ॥ ४७ ॥ अन्योन्यानुगतयोरिदं वा तद्वेति विभजनमयुक्तम् । यथा दुग्धपानीययोः यावन्तो विशेषपर्यायाः ॥ छाया । अन्योऽन्येति, परस्परानुप्रविष्टयोरात्मकर्मणोरिदं कर्मायमात्मेति पृथकरणमघटमानकम् , प्रमाणाभावेन कर्तुमशक्यत्वात् , यथा परस्परानुप्रविष्ट योर्दुग्धपानीययोः । किं परिमाणोऽयं जीर्वकर्मप्रदेशयोरविभाग इत्यत्राह-यावन्त इति, यावन्तो विशेषपर्यायास्तावान् , अतः परमवस्तुत्वप्रसक्तेः, सर्वविशेषाणामन्यविशेषपर्यन्तत्वात् , अन्त्य इति विशेषणान्यथानुपपत्तेरिति ॥ ४७ ॥ जीवकर्मणोरन्योन्यानुप्रवेशे तदाश्रितानामन्योन्यानुप्रवेश इत्याह-- 20 25 "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy