________________
सम्मतितत्त्वसोपाने
[ द्वाविंशम् निवृत्त्या तेषु तद्विविक्तताया अभावप्रसक्तेः । न चैकस्य घटादेर्भावाभावयोहेतुत्वं विरुद्धम् , तथैव दर्शनात् । न वा घटनिवृत्तिकपालयोरेकान्तेन भेदः कथञ्चिदेकत्वप्रतीतेः। न च मुद्गरादेनाशं प्रत्यहेतुत्वे कचिदप्यनुपयोगान कपालेषु तदुपयोग इति वाच्यम् , अन्त्यावस्था
यामपि घटस्य घटोत्पादनसामर्थ्याविनाशेन घटक्षणान्तरोत्पत्तिप्रसक्तः। न च तस्य स्वरसतो 5 विनाशात्तदव्यतिरिक्तं सामर्थ्यमपि विनष्टमिति वाच्यम् , पूर्व घटविनाशेऽपि तदविनाशात् ,
अन्यथा द्वितीयादिघटक्षणानुत्पत्तिप्रसङ्गः । विरोधिमुद्गरसन्निधानात्समानजातीयक्षणान्तरं न जनयतीति चेन्न, मुद्रो घटविरोधी, न च तं विनाशयतीति व्याहतत्वात् । न वा तद्धत्वभावात् सामाभावो वक्तुं शक्यः, सामर्थ्य हेतोर्भावात् , अन्यथा प्रागपि तथाविधफलो
पतिनं भवेत् । न च स्वर्हेतुनिवर्तित एव मुद्रादिसन्निधौ सामर्थ्याभावः, मुद्रादिसान्नि10 ध्यापेक्षायां तस्य तद्धेतुत्वोपपत्तेः, अन्यत्रापि हेतुत्वस्य तन्मात्रनिबन्धनत्वात् । न च तद्व्यापारानन्तरं तदुपलम्भानस्य तत्कार्यत्वे मृद्रव्यस्यापि तत्कार्यताप्रसक्तिरिति वाच्यम् , तस्य सर्वदोपलम्भात , सर्वदा तस्यानभ्युपगमे उत्पादविनाशयोरप्यभावस्य पूर्वमुक्तत्वात् , तस्यैव तद्रूपतया परिणतौ कथञ्चिदुत्पादस्येष्ठत्वाच । यदा च पूर्वोत्तराकारपरित्यागोपादानतयैकं मृदा.
दिवस्तु अध्यक्षतोऽनुभूयते तदा तत्तदपेक्षया कारणं कार्य विनष्टमविनष्टमुत्पन्नमनुत्पन्नमे15 ककालमनेककालं भिन्नमभिन्नश्चेति कथं नाभ्युपगमविषयः । न चात्र विरोधः, मृदव्यतिरि
क्ततया घटकपालयोरुत्पन्न विनष्टस्थिति स्वभावतया प्रतीतेः, न च प्रतीयमाने वस्तुनि विरोधोऽ. न्यथा ग्राह्यग्राहकाकाराभ्यामेकत्वेन स्वसंवेदनाध्यक्षतः प्रतीयमानस्य संवेदनस्य विरोधप्रसक्तेः । न च संशयदोषप्रसक्तिः, उत्पत्तिस्थितिनिरोधानां निश्चितरूपतया वस्तुन्यवगाहनात्, न च
स्थाणुर्वा पुरुषो वेति प्रतिपत्ताविव प्रकृतनिश्चये निमित्तमस्ति । न च व्यधिकारणतादोषः 20 मृद्रव्याधिकरणतया घटकपालविनाशोत्पादयोः प्रतिपत्तेः । न चैकान्तोभयपक्षदोषप्रसङ्गः,
ध्यात्मकस्य वस्तुनो जात्यन्तरत्वात् । नापि सङ्करदोषप्रसङ्गः, अनुगतव्यावृत्त्योस्तदात्मके वस्तुनि स्वस्वरूपेणैव प्रतिभासनात् । अनवस्थादोषोऽपि नास्ति, भिन्नोत्पादव्ययध्रौव्यव्य तिरेकेण तदात्मकस्य वस्तुनोऽध्यक्षे प्रतिभासनात् , स्वयमतदात्मकस्यापरयोगेऽपि तदात्मकताऽनुपपत्तेः अन्यथाऽतिप्रसङ्गात् । तथाप्रतिभासादेवाभावदोषोऽपि न सम्भवी, अबा. धितप्रतिभासस्य तदभावेऽभावात् । भावे वा न ततो वस्तुव्यवस्थितिरिति सर्वव्यवहारोच्छेदप्रसक्तिः । न च च्यात्मकत्वमन्तरेण घटस्य कपालदर्शनाद्विनाशानुमानं सम्भवति, तत्र तेषां प्रतिबन्धानवधारणात् , न हि तद्विनाशनिमित्तानि तानि, मुद्गरादिहेतुत्वात् ,
१ साधकबाधकमानाभावादिसामध्यभावे प्रत्येककोटिनिर्णये कथं संशयः, अथानुपजायमानोऽपि संशयोऽत्र यदि बलादापाद्यते तर्हि कस्यचिदपि प्रतिनियतरूपव्यवस्था न स्यात सर्वत्र तदापादयित सशकत्वादिति भावः ।।
"Aho Shrutgyanam"