________________
:१२४: सम्मतितत्त्वसोपाने
[ अष्टादशम् नाम स्थापना द्रव्यमित्येष द्रव्यार्थिकस्य निक्षेपः ।
भावस्तु पर्यायार्थिकस्य प्ररूपणा एष परमार्थः ॥ छाया ॥ नामेति, चतुर्विधेषु निक्षेपेषु नामस्थापनाद्रव्याणि द्रव्यार्थिकनिरूपणाया निक्षेपाः, भावस्तु पर्यायार्थिकनिरूपणाया इत्ययं परमार्थ इति समुदायार्थः । 5 तत्र नामनिक्षेपस्तावत् यत्किञ्चिद्वस्तुनो व्यवहाराय निमित्तापेक्षयाऽनपेक्षया वाऽभि. धानं यत्सङ्केत्यते तन्नाम । सङ्केत विधानं च कचिदभेदेन, यथाऽयं घट इति, कचिद्भेदेन अस्यायं घटशब्दो वाचक इति । एतच्च समानासमानाकारपरिणामात्मकेऽपि वस्तुनि समा. नाकारप्रतिपादनायैव नियोज्यते, तस्यानुगतत्वेन तत्र सङ्केतकरणसौकर्यात् । असमानपरिण
तेष्वननुगमादानन्याच न तत्र सङ्केतः कत्तुं शक्यः, शब्दव्यापाराच वस्तुगत सदृश परिणते10 रेव प्रतिभासनात् । स एव शब्दार्थः यः शान्यां प्रतीतो प्रतिभातीति नासहपरिणामोsत्यन्तविलक्षणस्तस्यार्थ इति वस्तुस्थितिः ॥
अत्र च द्रव्यार्थिकमतावलम्बी शब्दब्रह्मवादी भर्तहरिः प्राह- अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः॥ [वाक्य ० श्लो. ॥ १ प्रथमका० ]
इति, अत्रोत्पत्तिविनाशाभावादनादिनिधनम् , अकाराद्यक्षरस्य निमित्तत्वादक्षरम् , अनेन च 15 विवर्तोऽभिधानरूपतया निदर्शितः, अर्थभावेनेत्यादिना त्वभिधेयो विवर्तः, प्रक्रियेति भेदाना
मेव सङ्कीर्तनम् , ब्रह्मेति पूर्वापरदिग्विभागरहितम् , अनुत्पन्नमविनाशि यच्छब्दमयं ब्रह्म तस्यायं रूपादिभावग्रामपरिणाम इति श्लोकार्थः । एतच्च शब्दस्वभावात्मकं ब्रह्म प्रणवस्वरूपं तच्छ सर्वेषां शब्दानां समस्तार्थानाञ्च प्रकृतिः । वर्णक्रमरूपो वेदस्त दधिगमोपायः
प्रतिच्छन्दकन्यायेन तस्यावस्थितत्वात् । तच्च परमं ब्रह्म अभ्युदयनिःश्रेयसफलधर्मानुगृ. 20 हीतान्तःकरणैरवगम्यते । अत्र च प्रयोगः ये यदाकारानुस्यूतास्ते तन्मयाः, यथा घट
शरावोदश्चनादयो मृद्विकारानुगता मृण्मयत्वेन प्रसिद्धाः, शब्दाकारानुस्यूताश्च सर्वे भावा इति स्वभावहेतुः । प्रत्यक्षत एव सर्वभावानां शब्दाकारानुगमोऽनुभूयते, तथाहि अर्थेष्वनुभूयमानेषु शब्दोल्लेखानुगता एव सर्वे प्रत्यया विभाव्यन्ते । उक्तञ्च न सोऽस्ति
प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्व शब्देन भासते ।।' { वाक्य० 25 श्लो० १२४ प्रथमका० ] इति । न च वापताननुवेधे बोधस्य प्रकाशरूपतापि भवेत् ,
तस्यापरामर्शरूपत्वात् , तदभावे तु तस्याभावाद्वोधस्याप्यभावः, परामर्शाभावे च प्रवृत्त्यादिव्यवहारोऽपि विशीर्येतेति । आह च 'वाग्रूपता चेद्वद्युत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥'[वाक्य० श्लो० १२५ प्रथमका० ] इति । ज्ञानाकारनिबन्धना च वस्तूनां प्रज्ञप्तिरिति नैषां शब्दाकारानुस्यूतत्वमसिद्धम् , तत्सिद्धेश्व
"Aho Shrutgyanam"