SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ सोपानम् निक्षेपचतुष्टयवर्णनम् । :१२३: भेदात् । नापि नीलादिज्ञानं परमाणुरूपम् , दिपट्योगात्सांशतापत्तेः, अनेकप्रतिपत्तेरयोगाच्च । न वा बाह्यनीलादेवितथत्वं परिशुद्धस्य बोधस्य चावितथत्वमिति वक्तव्यम् , तस्यानुपलब्धेरेवाभावनिश्चयात् । न च वासनाप्रतिबद्धत्वमनुभवस्य निश्चेतुं शक्यम् , पौर्वा. पर्ये हि प्रत्यक्षस्याप्रवृत्तेर्नान्वयव्यतिरेकनिश्चायकत्वं तदनिश्चये च न हेतुफलभावावगतिरध्यक्षात् , प्रत्यक्षाभावे च नानुमानमपि तदवगमकम् । किञ्च वासनाप्रबोधप्रभवं नीलसुखा- 5 दिव्यतिरिक्तं प्रतिपुरुषनियतं संवेदनं यद्यनुभूयेत तदा विज्ञानवादो युक्तिसङ्गतः स्यात् । न च तत् कदाचनाप्युपलब्धिगोचरः, नीलसुखादेस्त्वेकानेकस्वभावायोगात, वासनाजन्यत्व. स्यापि परमार्थतोऽसम्भवात् सर्वधर्मशून्यतैव वस्तुबलायाता | नीलाद्यवभासस्य वासनाप्रतिबद्धत्वं संवृत्त्या शून्यत्वमुच्यते, न सर्वसंवेदनाभावः, तस्य कदाचिदप्य ननुभवात् । न च प्रतिभासे सति कथं शून्यत्वमिति वक्तव्यम् , तस्यैकानेकस्वभावायोगतः शून्यतेति प्रतिपाद- 10 नात् । तदवस्थितमेतद्यत् प्रतिभाति तद् द्विचन्द्रादिवत् सकलमध्यसत्यमिति शुद्धतमपर्यायास्तिकमतावलम्बी ऋजुसूत्र एवं व्यवस्थितः ।। अथवा सौत्रान्तिकवैभाषिको बाह्यार्थमाश्रितौ ऋजुसूत्रशब्दौ यथाक्रमं वैभाषिकेण नित्यानित्यशब्दवाच्यस्य पुद्गलस्याभ्युपगमात् शब्दनयेऽनुप्रवेशस्तस्य बाह्यार्थप्रतिक्षेपेण विज्ञानमानं समभिरूढो योगाचारः । एकानेकधर्मविकलतया विज्ञानमात्रस्याप्यभाव इत्येवंभूतो 15 व्यवस्थित एवम्भूतो माध्यमिक इति व्यवस्थितमेतत् तस्य तु शब्दादयः शाखाप्रशाखाः सूक्ष्मभेदा इति ॥ ५ ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजय. कमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पदृधरेण विजयलब्धिसूरिणा सङ्कलितस्य सम्मतितस्वसोपानस्य शुद्धतमर्जु 20 सूत्रनिरूपणं नाम सप्तदशं सोपानम् ॥ निक्षेपचतुष्टयवर्णनम् नयानुयोगद्वारवत् शेपद्वारेष्वपि द्रव्यार्थिकपर्यायार्थिको मूलव्याकरणिनाविति दर्शयननयोयापकतामाह, अथवा वस्तुनिबन्धनाध्यवसायनिमित्तव्यवहारमूलकारणतामनयोः प्रतिपाद्याधुनाऽध्यारोपितानध्यारोपितनामस्थापनाद्रव्यभावनिबन्धनव्यवहारनिवन्धनतामनयो- 25 रेव प्रतिपादयन्नाह नाम ठवणा दविएत्ति एस दवट्टियस्स निक्खेवो । भावो उ पज्जवद्विअस्स परूवणा एस परमत्थो ॥१॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy