SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ सम्मतितस्वसोपाने [ सत्सवयम् स्वरूपभेदादपि न भावभेदः, न हि समानकालमुद्भासमानयोर्घटपटयोभिन्नं संवेदनं भेदमवस्थापयति, प्रकाशमाननीलसुखादिव्यतिरेकेण तस्यानुपलम्मतोऽसत्त्वात् , सत्त्वेऽपि समानकालस्य भिन्नकालस्य वाऽध्यक्षस्य परोक्षस्य वा ग्रहण क्रियासहितस्य तद्विकलस्य वा तस्यार्थग्राहकत्वानुपपत्तेर्विज्ञानवादोक्तरीत्या सिद्धत्वेन न भेदग्राहकत्वम् । न च तस्य स्वयम5 र्थाद्भेदेनाप्रतीतस्य भेदग्राहकत्वम् , खरविषाणादेरपि तत्प्रसक्तेः । न च तस्य भेदोऽन्यज्ञाना दवसीयते, तस्याप्यप्रतिपन्नभेदस्य तद्भेदाव्यवस्थापकत्वात् , तत्रापि भेदस्यान्यज्ञानानिये थानवस्था । न वा स्वसंवेदनत एव तद्भेदः सिद्ध्यति, तथा सति स्वस्वरूपमात्रपर्यवसितत्वात्तस्य नीलादिभेदव्यवस्थापकत्वानुपपत्तेः । स्वत एव स्तम्भादयो भिन्नरूपाः प्रथन्त इति घेत्तर्हि तेषां स्वसंवेदनरूपतया स्वरूपनिमग्नत्वादन्यत्राप्रवृत्त्या परस्परासंवेदनान स्वरूपतोऽपि 10 भेदसंवित्तिर्भवेत् , द्वयरूपासंवेदने तनिष्टभेदस्याप्यप्रतिपत्तेः । न ह्यपरोक्षे नीलस्वरूपाद परं पीतमाभाति, न चापराप्रतिभासनमेव भेदवेदनम् , नीलस्वरूपसंवेदनेऽप्रतिभासमानस्य पीतस्यास्तित्वेन नास्तित्वेन वाऽधिगन्तुमशक्यत्वात् , नास्तित्वावेदने च कुतः स्वरूपमात्रप्रतिभासनाद्भेदसिद्धिरिति । नन्वनेन न्यायेन यद्यध्यक्षावभासिनो नीलादेने भेदस्तीभेदो न्याय.. प्राप्त इत्यद्वैतापत्तेन शून्यता, अन्तर्बहिश्च प्रतिभासमानयोः सुखनीलाद्योरपह्रोतुमशक्यत्वा15 दिति, मैवम् , अस्माभिरवभासमानस्य नीलादेरवभासशून्यत्वानभिधानात् , प्रतिभासविरति लक्षणशून्यत्वस्य कथञ्चिदप्रतीतेः, किन्तु प्रतिभासोपमत्वं सर्वधर्माणां शून्यत्वम्, प्रतिभासश्च सर्वो भेदाभेदशून्यः, न हि नीलस्वरूपं सुखाद्यात्मकतयाऽभेदरूपमुपलभते, तद्रूपतानुपलम्भे च कथमेकं भवेत् । न च तावदयमस्तीति प्रतिभासादद्वैतमस्तु इति वक्तव्यम् , विचित्रस्य नीलादेः प्रतिभासाजगतो विचित्रताप्राप्तेः । न च बहिर्नीलादेरेकानेकरूपतया युक्त्याऽनुप20 पत्तेः प्रकृतिपरिशुद्धं ज्योतिर्मा परमार्थसदस्त्विति वाच्यम् , तथाभूतज्योतिर्मात्रस्य कदा. चनाप्यप्रतिपत्तरसत्वात्सर्वधर्मशून्यताया एवं सिद्धेः, ततः केवलमनादिवासनासमुत्थव्यवहारमात्रमेवेदं मिथ्यार्थ ज्ञानम् । न च व्यवहारमात्रादेव बहिरेक वस्तु सिद्ध्यति, नीलादीनां स्वभाव इति व्यवहारादपि स्वभावस्यैकताप्राप्तेः । न चार्थाभावे नियतदेशका लाकारः प्रतिभासः कथमित्याशयम् , वासनाबलेन तथाभूतप्रतिभासस्य स्वप्नदशायामुप. 25 लब्धे ग्रहशायामपि तद्बलेनैव तदुदयसम्भवात्, अर्थस्य कस्यचित्स्वरूपत्तोऽसिद्धेः प्रति. भासनियामकत्वासम्भवाचेति नार्थवादो युक्तिसङ्गतः । नापि वासनाबलानियताकारं ज्ञानं सद्वस्तु, नीलादिरूपज्ञानस्यापि एकानेकरूपत्वायोगात् , दिग्भेदादिलक्षणविरुद्धधर्मसंसर्गतो १ किं स स्वरूपभेदः भिन्न प्रतिभासाधिगम्यः किंवा स्वत एव, तत्र प्रथमपक्षे दोपमाह न हीति, द्वितीयपक्षे दोषमाह-स्वत एव स्तम्भादय इति ॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy