SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ सोपानम् शुद्धतम सूत्रस्वरूपम् । न च सत्तासम्बन्धाद्भावानां सत्त्वम् , सत्तातत्सम्बन्धयोरेवासम्भवात् । नापि दुष्टकारणप्रभवत्वेनेन्दुद्वयावभासज्ञानस्यासत्यार्थत्वम् , तत्प्रभवत्वस्य ज्ञातुमशक्तः, इन्द्रियादेरतीन्द्रियत्वेन तद्गतदोषस्याप्यध्यक्षेणाप्रतिपत्तेः । न वाऽनुमानात्तद्दोषावगतिः, अध्यक्षाभावेऽ. नुमानस्याप्रवृत्तेः । पुरुषान्तरस्य चन्द्रद्वयादेरप्रतिभासनात्तस्य दुटकारणजन्यविज्ञानविषयत्वमिति चेन्न, स्वग्राहिज्ञाने परिस्फुटतया प्रतिभासनात् , यावत्तिमिरादिसमानसामग्री 5 पुरुषान्तरस्य वर्तते तावत्तस्यापि तत्प्रतिभासनात् । तथा स्तम्भादेरवैतथ्यं न निश्चेतुं शक्यम् , तदवभासिज्ञानबाधाभावादवैतध्यनिश्वयो भवतीति चेन्न, बाधाभावस्य तदवैतथ्याप्रसाधकत्वात् , न हि तत्कालबाधाभावस्तत्साधकः, चन्द्रद्वय विज्ञानेऽपि तत्कालबाधाभावसत्त्वात्तद्विषयस्यावैतध्यप्रसङ्गात् । न वोत्तरकालभावी तदभावः पूर्वज्ञानविषयस्य सत्यतासाधकः, तत्कालपरिहारेण तत्प्रवृत्तेः, बाधाभावस्य प्रसज्यरूपस्य तुच्छतयाऽर्थसत्य- 10 ताव्यवस्थापकत्वासम्भवाञ्च, अन्यथा तुच्छत्वायोगात्, पर्युदासरूपोऽपि बाधकाभावो न तद्व्यवस्थापकः, तस्य विषयोपलम्भस्वभावत्वात् , यथा स प्राकालभावी नार्थतथाभावव्यवस्थापकस्तथोत्तरकालभाव्यपि, प्रतिभासाविशेषात् । न वा संवा दित्वादपि स्तम्भादेः सत्यत्वम् , समानजातीयोत्तरकालभाविज्ञानलक्षणस्य संवादस्य यावत्तिमिरं तावदिन्दुदया. दावपि भावात् , मिन्नजातीयज्ञानसंवादस्य च तथात्वे भ्रान्तज्ञानावभासिनो रजतादेः शुक्ति- 15 काज्ञानसंवादात्सत्यताप्रसक्तिः । न चैकार्थाद्भिन्नजातीयज्ञानसंवादात् , एकार्थत्वे पूर्वापर. ज्ञानयोरविशेषात् पूर्वज्ञानवदुत्तरज्ञानस्यापि व्यवस्थापकत्वं न स्यात् , विजातीयत्वे एकार्थ विषयत्वासम्भवाच । एवं स्तंभादिनैकानेकरूपतया व्यवस्थापयितुं शक्यते, कालभेदाद्धि भेदो नाध्यक्षेण विज्ञेयः, तस्य सन्निहित एवं प्रवृत्तः, न हि मृत्पिण्डस्वरूपग्राह्यध्यक्षं तदा घटमसन्निहितमुपलभते, अतो न तदपेक्षया तस्य भेदोऽधिगन्तुं शक्यः, नापि घटस्वरूपग्राहिणा 20 मृत्पिण्डाद्भेदोऽधिगम्यते, तत्स्वरूपाग्रणे तद्भेदग्रहणाप्रवृत्तेः । नापि स्मरणं तबाहकम् , अनुभूतस्यैव स्मरणात् , तस्य स्वरूपमात्रपर्यवसितत्वेनार्थग्रहणेऽसामर्थ्याच्च । अत एव स्मरणसहकृतमध्यक्षमपि न भेदग्राहि । न च पूर्वरूपाग्रहणमेव भेदवेदनम् , तद्ब्रहणस्य भेदं व्यवस्थापयितुमशक्तः । स्वरूपमेव भेदः, सद्हणे सोऽपि गृहीत इति चेन्न, अपेक्षया भेदव्यवस्थानात् , अन्यथा स्वरूपापेक्षयापि भेदप्रसक्तेः । देशभेदादपि न भावभेदः देशस्याप्यपरदेश- 25 • भेदाढ़ेदप्रसङ्गेनानवस्थाप्रसक्तः । न चान्यभेदोऽन्यमनुविशतीति न देशभेदादपि तद्भेदः । एवं • १ उत्तरदर्शने स्मृती वा यदि पूर्वरूपं न प्रतिभासते गर्हि तदप्रतिभासनमायातं तदेव च भेदवेदनम् , न, पूर्वरूपविविक्ततायाः प्रत्यक्षेण स्मृल्या बाऽनवमतत्वात् , तयोः स्वस्वरूप निममत्वात् , तथा च पूर्वरूपानधिगमे न तद्विविक्तताया अत्यधिगतिः, तस्मान्न तदप्रतिमासनमपि सिद्धमिति भावः ॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy