SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ 10 :१२०: सम्मतितस्वसोपाने [ सप्तदशम मतमियमेव मेयादीनां व्यवस्था सर्वत्र नीलादौ योजनीया विज्ञानवादेऽपि । न च तत्रान्य. प्राहकाभावादसौ मिथ्योल्लेख इति वाच्यम् , नीलादावपि व्यतिरिक्तप्रकाशाभावान्मिध्यात्वात् , अपरोक्षस्य नीलादेरेव कर्तृकर्मादितया मिथ्याप्रकाशनात् । न च निर्बीजस्यायोगादस्याः कर्मकर्तृक्रियाध्यवसिते/जं वक्तव्यमिति वाच्यम , कचिदपि वास्तवस्य कादिभेदस्यानु5 पलब्धेरनादिवासनाप्रभवप्रधानादिविकल्पवदस्याः परम्परामात्रत्वात् । तस्मान्नीलादयोऽपरो क्षस्वभावाः प्रकाशन्त इति विज्ञप्तिमात्रमेव बहिरर्थसंस्पर्शरहितम् , तदपि बिज्ञप्तिमात्र पूर्वापरस्वभावविविक्तं क्षणरूपम्, स्वसंवेदनाध्यक्ष तस्तथैव प्रतिपत्तेः पौर्वापर्य प्रमाणाप्रवृत्तेः अतः क्षणिकविज्ञप्तिमात्रावलम्बी शुद्धपर्यायास्तिकभेदः ऋजुसूत्रः ।। इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरण तत्पदृधरेण विजयलब्धिसूरिणा सङ्कलितस्य सम्मतितरवसोपानस्य शुद्धतरर्जुसूत्रनिरूपणं नाम षोडश सोपानम् ॥ -~~ -~ शुद्धतमर्जुसूत्रनिरूपणम्। 15 यद्वा एकत्वानेकत्वसमस्तधर्मकलापविकलतया तदपि विज्ञानं शून्यरूपं ऋजु सूत्र यतीति ऋजुसूत्रः, स हि माध्यमिकदर्शनावलम्बी सर्वभावनैरात्म्यप्रतिपादनाय प्रमाणयति. यद्विशददर्शनावमासि तन्न परमार्थसद्व्यवहारपथमवतरति, यथा तिमिरपरिकरितहगवभासीन्दुद्वयम् , विशददर्शनावभासिनश्च स्तम्भकुम्भादयः प्रतिभासाविशेषात् । अथेन्दु द्वयादयो न परमार्थसन्तः, तत्र कारणदोषात् , बाधोदयाद्वा, परिशुद्धहगवसेयास्त्वेकेन्दु20 मण्डलादयो न वितथाः, तत्र कारणदोषविरहाद्वाधाभावाद्वेति प्रतिभासाविशेषत्वमसिद्ध मिति चेन्न, बाध्यत्वायोगात् न हि तत्कालभाविविज्ञानस्वरूपं बाध्यते, तस्य तदानीं स्वरूपेण प्रतिभासनात् । नाप्युत्तरकालम् , तदा तस्य क्षणिकत्वेन स्वयमेवाभावात् । न वा प्रतिभासमानरूपेण प्रमेयं बाध्यते, तस्य विशदप्रतिभासादेवाभावासिद्धेः । न चा प्रतिभासमानरूपेण, प्रतिभासरूपात्तस्यान्यत्वात् । नाप्युत्पन्ना प्रवृत्तिर्बाध्यते, उत्पन्नत्वा25 देवासस्वायोगात् । न वाऽनुत्पन्ना, स्वत एवासत्त्वात् । अर्थक्रियाऽपि न बाध्यते, उत्पत्त्यनु स्पत्त्योर्बाध्यत्वायोगात् । न वाऽर्थक्रियाऽभावेऽर्थस्यासत्त्वम् , तस्यास्ततोऽन्यत्वात् । न ह्यर्थक्रियासद्भावार्थस्य सत्वम् , अर्थक्रियाया अपि सत्त्वासिद्धेः, अपरार्थक्रियातः तस्याः सत्त्वाङ्गीकारेऽनवस्थाप्रसङ्गात् । नाप्यर्थजन्यत्वादर्थक्रियायास्सवम् , अन्योऽन्यानयात् । "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy