________________
सोपामम् ]
शुद्धतरर्जुसूत्रस्वरूपम् । जलसत्यताप्रसक्तेः । न चात्र बाधसद्भावादसत्यता, प्रकृतेऽपि नीलसंविदोः स्वतंत्रतया निर्भासरूपबाधकस्य सत्त्वात् , तस्मान्न ग्राह्यग्राहकभावः सत्यः । अयञ्च ग्राह्यग्राहकभावस्य प्रतिक्षे. पस्तुल्यकालं प्रकाशमानवपुर्नीलमुद्भासयन्ती प्रतीतिमभ्युपेत्य, सैव प्रतीतिर्विचार्यमाणा न सङ्गच्छते, कुतः साऽर्थप्राहिणी भवेत् , अनुभूयमानं ह्याकारं विहाय नान्या काचिदाभाति, बहिः प्रकाशमानं नीलादिकं अन्तः स्वसंविदितं सुखा दिकश्च मुक्त्वा नान्या संवित्सती 5 कदाचित् प्रतिभातीत्यसती सा कथमर्थग्राहिणी भवेत् । अहङ्कारास्पदं सुखादिकमेव हृदि परिवर्तमानं नीलादेाहकमिति चेन्न, सुखादेः प्रतिभासमानवपुषो ग्राहकत्वानुपपत्तेः, सुखादयो हि स्वसंविदिता हृदि प्रकाशन्ते नीलादयस्तु बहिस्तथाभूता एवाभान्ति, न च परस्परासंसृष्टयोः समानकालयोर्वेद्यवेदकता, तुल्यकालतया प्रकाशमाननीलपीतयोरपि परस्परं तद्भावापत्तेः । सुखादिराकारः स्वपरप्रकाशतया प्रतिभासमानो नीलादेर्वेदकः, सवि- 10 तृप्रकाश इव घटादीनामिति चेषिक दर्शनात्मनः प्रकाश एव बहिरर्थावभासः, उत दर्शनकाले तेषां प्रत्यक्षात्मता, आये ज्ञानात्मनो हि प्रकाशः स्वसंविद्रूपोऽनुभवः, तज्ज्ञानस्य रूपं न बाह्यार्थात्मनाम् , अन्यथा प्रत्यक्षात्मतया तयोरभेदप्रसङ्गः, द्वितीये च दर्शनोदयसमये यदि पदार्थप्रत्यक्षता तथा सति सामग्रीवशात् प्रत्यक्षाकारं नीलमुत्पादितमिति दर्शनवत्तत् स्वसंविदितं प्रसक्तम् , अत एव दृष्टान्तोऽप्यसङ्गतः, सवितृप्रकाशो हि 15 स्वरूपनिमग्न एवाभाति घटादिरपि स्वात्मनिष्ठ एव भासत इति नानयोरपि परस्पर प्रकाश्यप्रकाशकभावः । अपि चालोका झुटादिः प्रकाशरूपः प्रादुर्भवतीत्यालोकः प्रकाशकः स्यात् , उपकाराभावे व्यतिरिक्तोपकारप्रादुर्भावे वा घटादीनां प्रकाशायोगात् । न चात्राहङ्कारास्पदमन्तदर्शनं बहिः परोक्षाकारमयं जनयति, तुल्यकालतया हेतुफलभावायोगात्, उपकार्योपकारकभावमन्तरेण बाह्यार्थानामन्तर्दृशाश्च वेद्यवेदकभावानुपपत्तेः सर्व वस्तु सं- 20 विन्मात्रकमेवेति स्थितम् । ननु यदि सर्व विज्ञप्तिमात्रमेव तर्हि मेयमातृमानादिव्यवहारविलोप: स्यात् , तस्य भेदनिबन्धत्वात् , प्रमितिक्रिय या व्याप्यमानत्वाद्धि प्रमेयमर्थः, तत्र नीलादयो यदि बोधः स्यात्तदाऽसौ स्वतंत्रो नील दृशं प्रति प्रमाता भवेत् , चक्षुरादयश्च करणतया मानं भवेयुः, अर्थप्रतिभासः फलम् , उपलम्भसाध्यत्वात् , मेयादेर भावे तु न नीलादयोऽपि संविद्रूपाः सिद्ध्यन्ति, सिद्धेः प्रमाणनिबन्धनत्वात् , न च स्वसंवेदनमेव व्य- 26 वस्थाकारि प्रमाणम् , तत्र दृष्टान्तासिद्धेः । प्रदीपादयोऽपि हि परप्रकाश्या एव, न च स्वेनैवा. स्मना त एवाधिगन्तुं शक्याः , न ह्यङ्गुल्यग्रेण तेनैव तदेवाङ्गुल्यग्रं स्पृशति इति, मैवम् , यथा हि बाह्यार्थवादे सुखादीनामात्मस्वरूपं स्वविषये प्रमाणं तेषामेव वेदनं फलं सुखादयश्च मेयम् , यथा वा परेषामात्माऽपरोक्षो मेयः, तस्य च प्रकाशरूपता मानम् तत्प्रतिभासः फलं
"Aho Shrutgyanam"