________________
सम्मतितत्व सोपाने
[ षोडशम्
तत्पूर्वदशानवगमात् तदवगमकाले च संवित्क्रियायुक्तावस्थावगमाभावात्, तयोस्तदनवगमे तु न बोधस्य ग्रहणं प्रति कर्तृताप्रतीतिः । न च नीलानुभवसमये पूर्वदशां स्मरन् बोधस्यानुभवं प्रति कर्तृतां प्रतिपद्यत इति देश्यम्, बोधग्रहणयोर्नील परिच्छेदवेलायां परस्परासंसक्तयोः समानकालयोः प्रतिभासेन कर्तृतावगमासम्भवात्, न हि स्मरणं बोधस्य 5 पूर्वावस्थामध्यवस्यत् ग्रहणावस्थां प्रतिपद्यत इति कथं तत्कर्त्तृतामवगमयेत् । न च बोधात्मैवात्मानमुपलभत इति कर्तृत्वावगतिरिति गीरसाधीयसी, यदा बोधः स्वं नीलग्राहकतया प्रतिपद्यते तदा नानुभवकर्त्री पूर्वसत्तां प्रतिपद्यत इति न ग्रहणं प्रति जनकतामात्मनोऽसावधिगच्छति । न च प्राक्तनीम ग्रहणावस्थां नीलावभासकालेऽसावध्यवस्यति युगपद्विरुद्धयोः प्रतिभासयोरापत्तेः, तस्मान्न तुल्यकालो बोधो ग्रहणक्रियां जनयितुं समर्थ इत्यग्राहक एव । 10 किच बोधो यदि व्यतिरिक्त क्रियाजनकस्तदा नीलविज्ञानयोः कथं ग्राह्यग्राहकत्वम्, न च बोधोदयेऽपरोक्षतया नीलादेर्भानाद्राह्यत्वमिति युकं वक्तुम्, अप्रकाशात्मकस्य तस्य तदुत्पादेsपि प्रतिभासायोगात् नीलादिरर्थो हि जडस्वरूपो न स्वयं प्रतीतिगोचरतामवतरतीति | दर्शनमस्य प्रकाशकमभ्युपगतम्, यदि तु नीलं स्वप्रकाशात्मकं स्यात्तदा विज्ञप्तिरूपतया परवादाभ्युपगमप्रसङ्गो भवेत्, यच्चाप्रकाशात्मकं वस्तु तत्प्रकाशसद्भावेऽपि नैत्र प्रकाशते, 15 प्रकाशस्वरूपश्च नीलं न सङ्क्रामति, भेदप्रतिहतिप्रसङ्गात् । न चार्थस्य प्रत्यक्षता अर्थाकारकार्यत्वात्प्रकाशस्येति वक्तव्यम्, अपरोक्षाकाररूपत्व एव तस्य प्रत्यक्षत्वसम्भवात्, न तु प्रकाशात्मनः कार्यस्योद्भवात्, प्रकाशस्य हि अर्थकार्यतया तत्सम्बन्धित्वं युक्तं न तु तत्स्वरूपं प्रकाशः, अतो न वेद्यवेदकभावस्तयोः । न च नीलसंवेदनयोः स्वरूपनिमग्नयोः स्वतंत्रतयावभासने तदुत्तरकालभावी कर्मकर्त्रभिनिवेशी नीलमहं वेद्मीत्यवसायो न स्यात्, न हि 20 पीतदर्शने नीलोल्लेख उपजायमानः स संलक्ष्यते, भवति च तथाध्यवसायी विकल्प इति तयोर्ग्राह्यग्राहकतेति वाच्यम्, मिथ्यारूपकल्पनया ग्राह्यग्राहकरूपतायाः परिच्छेदासम्भवात्, नीलमिति हि प्रतीतिः पुरोवर्त्तिनीलमुल्लिखन्ती वर्त्तमानदर्शनानुसारिणी भिन्ना संलक्ष्यते, अहमित्यात्मानं व्यवस्यन्ती स्वानुभवायत्ता परा प्रतीयते, वेद्मीति प्रतीतिरप्यपरैव क्रियाव्यवसितिरूपा, अतः परस्पराव्यतिमिश्रसंवित्तित्रितयमेतत् । भवतु वेयमेका तथावसा25 यिनी कल्पनाप्रतीतिः तथापि नातो ग्राह्यग्राहकता सत्या, मृगतृष्णिकासु जलाध्यवसाया
: ११८ :
1
१ यथा हि नयनकार्य प्रकाशः, अतः स नयनसम्बन्धी भवेत् न तु स्वरूपं प्रकाशः, तथा नीलादिकार्यं प्रकाशः स्यान्न तावता नीलादि: प्रकाशरूपों भवितुमर्हति तथा च यदि नीलादिरप्रकाशात्मा तदा स प्रकाशसाऽपि नैव प्रकाशत, तस्माच्च न वेद्यवेदकभावः, यदि च प्रकाशात्मा तदा विज्ञानरूपो नीलादिः स्यादिति भावः ॥
"Aho Shrutgyanam"