________________
सोपानम् ]
शुद्ध तरर्जुसूत्रस्वरूपम् ।
,
दभेदः विधिमुखेनैव साध्यत इति चेन्न, अभेदस्य प्रत्यक्षेण बाधनात् पुरस्थं नीलादि स्फुटवपुः प्रतिभाति, हृदि च रूपग्राहकाकारं विभ्राणा संविच्चकास्तीति कुतोऽर्थसंविदोरभेदः साधयितुं शक्यः, पक्षस्य प्रत्यक्षबाधितत्वादश्रावणः शब्द इति पक्षस्येव । न चाभेदेऽपि प्रत्यक्षं भेदाधिगन्तृ उपलब्धमिन्दुद्वयादिवदिति न तेन बाधेति वाच्यम्, द्विचन्द्रादौ बाधादर्शनतस्तत्प्रत्यक्षस्य भ्रान्तत्वेऽपि स्तम्भादावर्थक्रियाकारिरूपोपलब्धेर्बाधाभावेन तत्प्रत्यक्षस्य 5 सत्यत्वात्, ततो नीलबुद्ध्योर्भेद एवेति न कुतश्चिद्विज्ञानमात्रसिद्धिः अत्रोच्यते, प्रत्यक्षेणार्थपरिच्छेदासम्भव इति, तद्धि प्रत्यक्षमर्थं तुल्यकालं न प्रकाशयति, प्रत्यक्षतया यदेव ज्ञानमवभासते तदैव नीलादिस्वरूपमपीति स्वस्वरूपनिष्ठत्वेनोभयोरपि प्रतिभासनाद्राह्यग्राहकभावानुपपत्तेः, नीलाकारविविक्तस्य स्वरूपनिमनस्य ज्ञानस्य हृदि सन्धानादर्थस्य च तद्रूपपरिहारेण बहिः स्फुटतया प्रतिभासनात् । दर्शनश्य बाह्यार्थज्ञानं प्रति ग्रहणक्रियाकर्तृत्वाद्वाहकता, 10 तत्प्रतिबद्धप्रकाशतया चार्थस्य ग्राह्यतेति चेन्न नीलाद्यर्थदर्शनाभ्यां भिन्नस्य ग्रहणक्रियाया अभावात्, तथाऽप्रतिभासनात् न च तामन्तरेण नीलबोधयोः कर्त्तृकर्मते युक्ते, अतिप्रसङ्गात्, क्रियायाः सत्त्वेऽपि परोक्षतयाऽतिप्रसङ्गादर्थस्य कर्मता बोधस्य च कर्त्ततेति न स्यात्, अतः प्रतिभासमाना साऽभ्युपगमनीया, तथाऽभ्युपगमे च सा किं स्वरूपतो भाति, उत तद्ब्राह्यतया, आद्ये नीलबोधग्रहणक्रियाणां स्वतन्त्रतया प्रतिभासनात् कर्तृकर्मक्रियाव्य- 15 वहारो न स्यात्, तस्याः स्वरूपनिमनतया प्रतिभातत्वात् । स्वतंत्रप्रतिभासादेव च तथाव्यवहाराभ्युपगमे स्तम्भादेरपि तथापरस्परव्यवहारप्रसक्तिः । न द्वितीयः, अपरग्रहणक्रियायाः प्रतिभासमानायाः कर्मतया तस्याः प्रतिभासेऽपरापर क्रियाप्रसङ्गतोऽनवस्था स्यात्, अपरक्रियामन्तरेणैव ग्रहणक्रियायाः कर्मत्वे नीलादेरपि ग्रहणक्रियाव्यतिरेकेण प्रकाशमानस्य ग्राह्यता भवेत्, तथा च नीलादीनां स्वरूपमेव प्रकाशात्मकमिति विज्ञप्तिमात्रमेव 20 सर्वं भवेत् । किन ज्ञानकाले संवेदनक्रियायाः सत्त्वे समानकालतया प्रतिभासनेन सव्येतरगोविषाणयोरिव ज्ञानस्य संविक्रियां प्रति कर्तृत्वं न स्यात् । तस्याश्च ज्ञानोत्तरकालत्वेऽपि न कार्यकारणभाव:, ज्ञानकाले संविक्रियायाः तत्काले च ज्ञानस्याभावात् । नच पूर्वं स्वरूपेण बोधस्य प्रतिभासस्ततो नयनादिसामग्रीवशेन संवेदनक्रियायुक्ततया प्रतिभासनाद्बोधस्य कर्तृत्वमिति वाच्यम्, संविक्रियायुक्तबोधप्रतीतिकाले 25
११७ :
१ ययोः सहोपलम्भनियम : तयोरभेदः, यथा तैमिरिकोपलभ्यमानचन्द्रद्वयस्य, सहोपलम्भनियमश्व ज्ञानार्थयोरिति व्यापकविरुद्धोपलब्धिः, भेदे हि नियमेन सहोपलम्भो न दृष्टः यथा घटपटयोः तथा च भेदः सहोपलम्भानियमेन व्याप्तः तद्विरुद्धश्च सहोपलम्भनियम: दृश्यमानः सहोपलम्भानियमं निवर्त्तयति, सोऽपि निवर्तमानः स्वव्याप्यं भेदं निवर्तयतीति भावः ॥
"Aho Shrutgyanam"