SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ 10 सम्मतितत्त्वसोपाने [ षोडशम् काष्ठादेरनुपलम्भः, तदवस्थे काष्ठादावावरणायोगात् । अपि च विनाशस्य हेतुमत्त्वे तद्भेदा. स भेदमनुभवेत् , कार्यात्मानो हि घटादयः कारणभेदाढ़ेदमनुभवन्तोऽध्यक्षत एवावसीयन्ते नैवमनासादितभावान्तरसम्बन्धः प्रच्युतिमात्रस्वभावो ध्वंसः, अग्न्यादिहेतुभेदेऽपि तुच्छस्वरूपतयैव सर्वत्र विकल्पज्ञानेऽवभासनात् । तस्माद्विनाशोऽयमहेतुर्निःस्वभावोऽभ्युपगन्त5 व्य इति निर्हेतुको विनाश उच्यते, एवश्च भावानां निरुक्तानुमानतोऽपि क्षणक्षयि त्वं सिद्धमिति प्रत्यक्षतोऽनुमानतश्च क्षणिकत्वव्यवस्थितेः सिद्धः पर्यायनयस्य मूलाधारः ऋजुसूत्रवचनविच्छेद इति ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलितस्य सम्मतितत्त्वसोपानस्य शुद्धर्जुसूत्र स्वरूपनिरूपणं नाम पञ्चदशं सोपानम् ।। -~~ -- शुद्धतरर्जुसूत्रनिरूपणम् । अथवा ऋजु बाह्यापेक्षया ग्राहकसंवित्तिभेदशून्यमविभागं बुद्धिस्वरूपमकुटिलं सूत्रय15 तीति ऋजुसूत्रः शुद्धतरः पर्यायास्तिकः । ननु कथं विज्ञप्तिमात्रमभ्युपगम्यते, किमविभागबुद्धि स्वरूपग्राहकप्रमाणसद्भावात् , किं वाऽर्थस्य सद्भावे बाधकप्रमाणात् । तत्र न प्रत्यक्षेण विज्ञप्तिमात्रनिश्चयः, अर्थाभावनिश्चयं विनाऽर्थस्पर्शशून्यं विज्ञप्तिमात्रमेव तत्त्वमित्यवधारणरूपतो निश्चयासम्भवात् , अर्थाभावस्तु नाध्यक्षगम्योऽर्थप्रतिभासकतयैव प्रत्यक्षस्योत्पत्तेः । न चेदमिन्दुद्वयदर्शनमिव भ्रान्तम् , तद्विषयत्वाच्च घटादेरसत्यत्वमिति वाच्यम् , शुद्ध20 गवसेयस्य बाध्यत्वायोगात् , यद्वा तैमिरिकावभासिनोऽपीन्दुद्वयादेरवैतथ्यमस्तु, न च तस्य बाध्यत्वं वाच्यम् , तस्यैवाऽयोगात्, न हि दर्शनं बाध्यते, तस्योत्पन्नत्वात् , नाप्यर्थः, प्रतिभासमानरूपेण सत्त्वात् , अन्यथा प्रतीयमानत्वायोगात् , न च प्रतिभासेऽपि तन्नि सिरूपमसत्यमिति निर्वाच्यम् , प्रतिभासमानरूपवतोऽप्यसत्यत्वे संविदोऽपि तथा. त्वप्रसक्तेः, न चैवं वक्तव्यं भ्रान्तज्ञानावभासिनोऽर्थक्रियाविरहाद्वैतथ्यमिति, तदनुदयेऽपि 25 पूर्वज्ञानावभासिनो वैतथ्यासम्भवात् , न ह्यन्यस्याभावेऽपरस्याभावोऽतिप्रसङ्गात् , तस्मान्न प्रत्यक्षं बहिरावभासि तदभावं गमयति । प्रत्यक्षाभावे नानुमानमपि तद्भावावेदकम्, प्रत्यक्षविरोधेऽनुमानस्याप्रामाण्याच्च । अत एव न द्वितीयः, भावबाधकप्रमाणविरहात् । ननु नार्थाभावद्वारेण विज्ञानमात्रं साध्यते किन्वर्थसंविदोः सहोपलम्भनियमा "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy