________________
सोपानम् ]
शुद्धर्जुसूत्रस्वरूपम् ।
: ११५ :
तिशब्देनोक्तं स्यात् तेनाङ्गारे सति अङ्गार इत्युक्तं भवेत्, न तु नियामकं तावताप्युक्तम् । तथा बुद्धिप्रदीपादीनामनुपजातविकाराणां कथं ध्वंसः, आत्माव्यक्तरूपविकारान्तरमेव ध्वंस इति चेन्न, बुद्ध्यादीनामात्मरूपविकारापत्तौ प्रमाणाभावात्, आत्मनश्चासत्त्वात् । प्रदीपादेरपि अव्यक्तरूपता हि कार्यदर्शनानुमेया, तस्या अतीन्द्रियत्वात् न च ध्वस्तस्य प्रदीपादेः किञ्चिकार्यमुपलभ्यते येन तस्या अनुमितिः स्यात्, तस्मान्न भावान्तरं प्रध्वंसाभावः, भावान्तरस्य 5 प्रध्वंसरूपत्वे च तद्विनाशाद्वटाद्युन्मज्जनप्रसक्तिः । न च कपालादेर्भावरूपतैव ध्वस्ता नाभावात्मकतेति नायं दोष इति वाच्यम, भावान्तररूपस्याभावस्य तदभावे प्रच्युतत्वात्, अन्यथाऽभावस्य कृतकस्याविन | शित्वेऽनित्यत्वेन कृतकत्वस्य व्याप्तिर्न सिद्ध्येत्, अकृतकत्वे त्वभ्युपगम्यमाने भावान्तरकार्यात्मको ध्वंसो न भवेत् । प्रध्वंसाभावाविनाशेऽकृतकत्वे च सर्वदा तत्सद्भावाद्घटादीनां सत्ता न भवेत्, ततो यथा कारणस्वरूपः प्रागभावः कार्योदये कारण- 10 निवृत्तौ निवर्त्तते, अन्यथा तदात्मकत्वायोगात् तथा कार्यात्मा ध्वंसोऽपीति नष्टैर्घटादिभिः पुनर्मङ्कव्यमेव, तस्मान्न कपालादिरूपं भावान्तरं घटादेर्ध्वसः, तत्र कारकव्यापारासम्भवेन क्रियाप्रतिषेधमात्रप्राप्तेः, अभावस्य च हेतुमध्ये कार्यत्वादभावरूपताप्रच्युतिप्रसङ्गः भावस्य कार्यलक्षणत्वात्, स्वकारणसद्भावे हि यद्भवति तदभावे च न भवति तत्कार्यमुच्यते, भवनधर्मा च कथं न भावः, भवतीति हि भाव उच्यते, अङ्कुरादेरपि नातोऽपरं भावशब्दप्रवृत्ति- 13 निमित्तमुपलभ्यते, तदभावेऽप्यस्ति कथमसौ न भावः । न चार्थक्रिया सामर्थ्यमेव भावशब्दप्रवृत्तिनिमित्तं तच्चाभावे नास्तीति नासौ भाव इति वाच्यम्, सर्वसामर्थ्याविकलत्वे तस्य प्रतीतिविषयत्वासम्भवात् प्रतीतिजनकत्वे च कथं न सामर्थ्यम् । न च यथा घटपट्योः कार्यत्वाविशेषेऽपि प्रतिनियतप्रतीतिविषयतया भेदः तथा भावाभावयोः कार्यत्वेऽपि सत्प्रत्ययविषयस्य भावत्वमसत्प्रत्ययविषयस्याभावत्वमिति वाच्यम्, तस्यासत्प्रत्ययविषयत्वे कार्य - 20 त्वस्यासम्भवात्, स्वहेतुसत्त्वेऽस्य भावात्कार्यत्वे सत्प्रत्ययविषयताया दुर्वारत्वात् भवतीति प्रतीतिविषयस्यैवास्तीति प्रत्ययविषयत्वात्, अस्ति भवतीत्यादिशब्दानां पर्यायत्वात् । किञ्चाग्न्यादिभ्यो यद्यभावो भवेत् तदा तद्भावे काष्ठादयः किमिति नोपलभ्यन्ते, न हि तेभ्यो ध्वंससद्भावेऽपि काष्टादयो निवृत्ताः, ध्वंसोत्पादन एव तेषां चरितार्थत्वात् । अथ काम्रोपमर्देन ध्वंसस्योत्पत्तेर्न तेषामुपलब्धिरिति चेत्कुतस्तदुपमर्दः, न प्रध्वंसाभावात् काष्ठादिसत्ताकाले 25 तस्याभावात् नाग्न्यादिभ्यः, तेषां ध्वंसोत्पादन एवं व्यापारात् । न चोत्पन्नः प्रध्वंसाभावो काष्ठादीनुपमर्दयति, तद्यौगपद्यप्रसङ्गात्, तथा च सत्यविरोधप्राप्तिः । न वा ध्वंसेनावृतत्वात्
1
१ न भवतीलभावो ध्वंस उच्यतेऽतः कथं स भवनधर्मा भवेत्, विरोधात् यदि स्त्रविषयविज्ञाने प्रतिनियतरूपेणानवभासनादभाव उच्यते तर्हि अत्यन्तपरोक्षचक्षुरादीनामप्यभावरूपताप्रसङ्ग इति ॥
"Aho Shrutgyanam"