________________
सम्मतितत्त्वसोपाने
[ पथदशम् प्रतिक्षणविशरारुषु सदृशापरापरोत्पत्त्यादि विप्रलम्भहेतोरुपजायमानाया अस्या दुष्टकारणारब्धत्वेनाप्रामाण्याच | अर्थक्रियार्थी हि सर्वः प्रमाणमन्वेषते न व्यस नितयेत्यर्थ क्रियासाधनविषयं प्रमाणमित्यभ्युपगन्तव्यम् , न च प्रत्यभिज्ञानविषयेण स्थैर्य भजताऽर्थक्रिया
काचित्साध्यत इति तैमिरिकज्ञानवदपूर्वमर्थक्रियायामक्षम सामान्याद्यधिगच्छदपि प्रत्य5 भिज्ञानं न प्रमाणम् , न वा तत् प्रत्यक्षम् , तज्जनकाभिमतेनार्थेनेन्द्रियाणां सम्प्रयोगासिद्धेः,
अर्थस्य नित्यत्वात् , सिद्धौ वा तत एव तत्सिद्धेचा प्रत्यभिज्ञा भवेत् । न चानेकदेश. कालावस्थासमन्वितं सामान्य द्रव्यादिकञ्चास्याः प्रमेयमित्यनधिगतार्थगन्तृत्वात्प्रमाणमिति वाच्यम्, सामान्यादेरभिन्नस्य तद्विषयस्याभावात् , भावेऽप्यनेकप्रमाणगोचरत्वेन तत्र
प्रवर्त्तमानस्य प्रत्यभिज्ञानस्थानधिगतार्थगन्तृत्वायोगात्, भिन्नभिन्नालम्बनत्वेऽपि च प्रत्यभि. 10 ज्ञानस्य न प्रामाण्यमपूर्वप्रमेयाभावात्, न हि देशादयस्तत्र प्रत्यभिज्ञायन्ते, प्रागदर्शनात् ।
न च पूर्वप्रसिद्धमेव वतिसामान्यं देशादिविशिष्टतयाऽधिगच्छदनुमान प्रमेयातिरेकाद्यथा प्रमाणव्यपदेशभाक तथा सामान्यादिकं प्रागुपलब्धमेव देशादिविशिष्टतया प्रतिपद्यमानस्याप्यपूर्व प्रमेयसङ्गतेन प्रामाण्यश्नतिरिति वाच्यम, द्वितीय प्रत्यक्षादेव तत्सिद्ध्या तस्यापूर्व
प्रमेयायोगात् । न च पश्चादुपलब्धस्य पूर्वदृष्टार्थता प्रत्यक्षानवगताऽधिका प्रत्यभिज्ञानेन 15 प्रतीयत इति वाच्यम् , पूर्वदृष्टार्थतायाः प्रत्यक्षद्वयगोचरादनतिरिक्तत्वात् , अतिरिक्तत्वे वा स
एवायमित्यभेदोल्लेखवतस्तस्य मिथ्याप्रत्ययत्वापत्तेः, तस्मात्प्रत्यभिज्ञानस्य प्रामाण्यासिद्ध्या न क्षणभङ्गवादिनः प्रत्यक्षविरोधमनुभवन्ति ! यदप्युक्तं विनाशस्य कारणाधीनत्वात्तत्सन्निधेः प्राग्घटादिषु तदनुदय इति तदपि प्रतिविहितमेव, प्रतिक्षणध्वंसित्वाभावे सर्वसामर्थ्या
भावलक्षणस्या सत्त्वस्य भावात् । तथापि किञ्चिदुच्यते, इन्धनादीनामग्निसंयोगावस्थायां 20 त्रयमुपलभ्यते, तदेवेन्धनादि, कश्चिद्विकारः, कल्पना ज्ञानप्रतिभासी तुच्छस्वभावः, तत्रा
म्यादीनां क व्यापारः, न तावदिन्धनाद्युत्सादे, तस्य स्वहेतुत एव भावात् , नाप्यङ्गारादिदिविकारे, अग्न्यादिभ्यस्तद्विकारोत्पत्तावपीन्धनादेरनिवृत्ततया तथैवोपलब्ध्यादिप्रसङ्गात् । न च तेभ्यः काष्ठादेवंसान्नायं दोष इति वाच्यम् , ततो वस्त्वन्तरस्वरूपध्वंसोपगमे काष्ठादे.
स्तादवस्थ्यापातात् । न च भावान्तरमेव काष्टादेः प्रध्वंसाभावोऽतः कथं काष्ठादेरुपलब्ध्यादि. 25 प्रसङ्ग इति वाच्यम् , काष्ठादेरङ्गारादिरेव ध्वंस इत्यत्र नियामकस्य वाच्यत्वात् , अङ्गारे सति
काष्ठनिवृत्तिर्नियामक इति चेन्न, तुच्छस्वभावनिवृत्त्यनङ्गीकरणेऽङ्गारादिकमेवार्थान्तरं निवृ
१ यदि भावः स्वतो नश्वर श्चेत्तदा न किञ्चिद्विनाश हेतुभिः कार्यमस्ति, न हि स्वयमेव पतत: पातप्रयास: सफलः । स्वतोऽनश्वर श्चेत्तर्हि नाश हेतुर्व्यर्थ एव, तत्स्वभावस्य केनाप्यन्यथाकर्तुमशक्यत्वात् , तथा च नित्यस्य सतः सर्वसामध्यविधुरता दुरा, तस्मात्स्वभावत एव विनश्वरो भावोऽभ्युपेय इति तात्पर्यम् ।।
"Aho Shrutgyanam"