SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] निक्षेपचतुष्टयवर्णनम् । : १२५ . तन्मात्रभावित्वात तन्मयत्वस्य तन्मयत्वमपि सिद्धमेव । अत एवायं घट इत्यभेदेन शब्दार्थसम्बन्धो वैयाकरणे: । सोऽयमित्यभिसम्बन्धाद्रूपमेकीकृत 'मित्यादिनाऽभिजल्पस्वरूपं दर्शयद्भिः प्रतिपादितः। अत्र च पर्यायास्तिकमतेन प्रतिज्ञादिदोष उद्भाव्यते, किमत्र जगतः साध्यत्वेनाभिलषितम् , शब्दपरिणामरूपत्वाच्छब्दमयत्वं शब्दादुत्पत्तेः शब्दमयत्वं वा, न प्रथमः, परिणामानुपपत्तेः, नीलादिरूपत्वं हि प्रतिपद्यमानं शब्दात्मकं ब्रह्म यदि स्वरूपपरि- 5 त्यागेन प्रतिपद्यते तर्हि न तदनादिनिधनं भवेत् , पूर्वस्वभावविनाशात् , यदि त्वपरित्यागेन तदा नीलादिसंवेदनकालेऽपि बधिरस्य शब्दसंवेदनं प्राप्नोति, शब्दस्य नीलाद्यव्यतिरेकात् , यदभिन्नं हि यत्तत् तत्संवेदने संवेद्यते यथा नीलादिसंवेदनकाले तस्यैव नीलादेरात्मा, नीलाद्यभिन्नश्च शब्द इति स्वभावहेतुः, अन्यथा भिन्नयोगक्षेमत्वात्तत्स्वभावत्वमेव न प्रसिद्ध्येदिति विपर्यये बाधकं प्रमाशम् । यदि तु तदा नास्य वेदनमिष्यते तदा नीलादेरपि शब्दस्वरूप- 10 वदसंवेदनं स्यात् , तेन सह नीलादीनामैकात्म्यात् , भिन्नस्वभावत्वे च शब्दनीलादेरत्यन्तभेदो भवेत्, न ह्येकमेकदैकप्रतिपत्रपेक्षया गृहीतमगृहीतश्च, एकताभङ्गप्रसङ्गात् , विरुद्धधर्माध्यासेड प्येकत्वे घटपटादीनां कल्लितो व्यक्तिभेदो न भवेत् , परेणाभ्युपगतश्च घटादिव्यक्तीनां भेदः, यतः स्वात्मनि व्यवस्थितस्य ब्रह्मणो नास्ति भेदोऽविकारविषयत्वादस्येति परसिद्धान्तः, तथा हि घटाद्यात्मना न तस्यानादिनिधनत्वमिष्यते किन्तु परमात्मापेक्षया, घटादयो हि दृश्य- 15 मानोदयव्ययाः परिच्छिन्नदेशाश्चोपलभ्यन्ते, एवञ्च बधिरस्य यः शब्दसंवेदनप्रसङ्ग उक्तः स यदि ब्रह्मणो रूपमुपलब्धिलक्षणप्राप्तमिष्यते तदा । यदि चातिसूक्ष्मतयातीन्द्रियत्वं तस्य तर्हि ताद्रूप्यानीलादीनामपि ग्रहणं न स्यात् । ननु भवतां यथा क्षणिकत्वं नीलाद्यव्यतिरिक्तं नीलादिसंवेदनेऽपि न संवेद्यते तद्वच्छब्दरूपमपीति चेन्न, नीलादिसंवेदने क्षणिकत्वं न संवेद्यत इत्यनभ्युपगमात् , किन्तु निर्विकल्पेन गृहीतमपि न निश्चीयते भ्रान्तिकारणव-20 शात् , तस्मादनुभवापेक्ष या गृहीतमपि निश्चयज्ञानापेक्षयाऽगृहीतमिति ज्ञानभेदेनैकस्य गृहीतत्वमगृहीतत्वश्चाविरुद्धमेव, न तु भवन्मते शब्दस्य ग्रहणाग्रहणे युक्ते, सर्वज्ञानानां सविकल्पकत्वाभ्युपगमात्, एकेनैव ज्ञानेन सर्वात्मना तस्य निश्चितत्वेनागृहीतस्वभावान्तरानुपपत्तेः । अथ किञ्चिदविकल्पकमपि ज्ञानमभ्युपगम्यते तर्हि । न सोऽस्ति प्रत्ययो लोके' इति न वक्तव्यम् । शब्दाकारानुस्यूतत्वादिति हेतोरसिद्धिप्रसक्तिश्च । यथा च प्रमाणान्त रतः क्षणिकत्वप्रसिद्धेरनुभूतमपि निश्चयापेक्षयाऽगृहीतमिति व्यपदिश्यते तथा न शब्दात्मता तथाव्यपदेशमासादयति शब्दात्मताप्रसाधकप्रमाणान्तराभावात् । अपि च शब्दात्मा परिगाम गच्छन् प्रतिपदार्थ भिद्यते न वा, आये शब्दब्रह्मणोऽनेकत्वप्रसङ्गः, विभिन्नानेकपदार्थस्वभावत्वात् , तत्स्वरूपवत् , एकञ्च ब्रह्मेष्यते परैरित्यभ्युपगमबाधा प्रतिज्ञायाः । द्वितीये तु "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy