SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ सम्मतितत्त्वसोपाने [ पञ्चदशम् सहकार्यन्तरापेक्षायाः ततो लभ्यमानस्यात्मातिशयस्याभावेनायोगात्, उपकारलक्षणत्वादपेक्षायाः, अन्यथाऽतिप्रसक्तेः, तत्सन्निधानस्यासन्निधानतुल्यत्वाच्च केवल एव कार्य कुर्यात् अकुर्वश्च सन्निधानावस्थायां च कुर्वन् कथं न भिन्नस्वभावो भवेत् । सहकार्यपेक्ष कार्यजननस्वभावतारूपत्वे तस्य सर्वदा सद्भावात् सर्वदा कार्योत्पत्तिप्रसङ्गः । सहकारि 5 सनिधान एव तत्स्वभावत्वे तु स्वभावभेदापच्या वस्तुभेदो भवेत् , स्वभावस्यैव वस्तुत्वात् । तस्मानाक्षणिकस्य क्रमेण कार्यकरणसम्भव इति न क्रमयोगः । योगपद्यमपि तस्यासङ्गतं द्वितीयादिक्षणेषु तावत एव कार्यकलापस्योदयप्रसङ्गात् , हेतोस्तजननस्वभावस्याप्रच्युतेः द्वितीयादिक्षणेषु वा सकलकारण सन्निधानेऽपि कार्यस्य प्रथमक्षण इवोदयो न स्यात्, उदये वा प्रथमक्षणेऽपि सद्भावापत्तेः, अतः क्रमयोगपद्यायोगादक्षणिकानामर्थक्रियासामर्थ्य 10 विरहलक्षणमसत्त्वमायातमिति सरवलक्षणः स्वभावहेतुः क्षणिकतायां बाधकप्रमाणबलान्नि श्चिततादात्म्यः कथं न विशेषलक्षणभाक् प्रतीतः । नन्वक्षणिकानामिव क्षणक्षयिणामपि अर्थक्रियासामर्थ्यलक्षणं सत्त्वमनुएपन्नमेव, क्रमायोगस्य तत्रापि तादवस्थ्यात् । अर्थं परैर. नाधीयमानस्वरूपभेदा क्षणिका अपि नोत्पादयितुं शक्ताः, न हि ते प्रतिक्षणमुत्पद्यमानाः परस्परतो विशेषभाजः, भावभेदप्रसङ्गात् , विशेषो हि न तेषामुत्पत्तेः प्राग्भवति, तेषामेव 15 तदाऽसत्वात् , न वा पश्चात् , तदा तत्स्वरूपस्यासत्त्वेनाकार्यकारित्वात्तदुपहितानुपहितक्षणा नामविवेकादिति न सहकारिभिरुपकारः, तस्मानिर्विशेषाणां न क्रमयोर्गपद्याभ्यामर्थक्रियाकारित्वलक्षणं सत्त्वमिति चेन्न, क्षणिकानामेवंविधोपकारानभ्युगमात्, उपकारो हि सकलकारणाधीनविशेषान्तरविशिष्टक्षणान्तरजननम् , तच कथमभिन्नकालेषु परस्परं क्षणि केषु भावेषु भवेत् , कार्यकारणयोः परस्परकालपरिहारेणावस्थानात् । तस्मात्सामग्र्या 20 एव जनकत्वादेकस्य जनकत्वाविरोधादव्यवधानदेशाः सकला एव प्रत्येकमितरेतरसहकारिणः स्वं स्वं विशिष्टं क्षणान्तरमारभन्ते तदपि चोत्तरोत्तरं विशिष्ट क्षणान्तरं कारणभेदात्तद्भेदसिद्धेः। न च परस्परसहकारित्वेऽपि अव्यवधानतः क्षणिकानां विशिष्टक्षणान्तरारम्भ. कत्वमयुक्तम् , प्रथमक्षणोपनिपातिनां क्षित्यादीनां परस्परतः तथाभूतक्षणान्तरजननस्व. भावातिशयलाभाभावात् , निर्विशेषाणां विशिष्टक्षणान्तरजननायोगादिति वाच्यम् , यतः 25 किं कार्योत्पादानुगुणविशेषविरहानिर्विशेषास्ते, आहोस्वित् तदुत्पत्तिनिबन्धन विशेष जननसा मयंवैकल्यात् , उत विशेषमात्राभावात् , न प्रथमः न ह्यस्मन्मते कारणस्थमेव कार्यमभि १ एक एव पदार्थः कचिद्देशे काले वा किञ्चित्कार्य कृत्या पुनरपेक्षितगहका रिमन्निधिः कथञ्चिदुपात्तस्वभावान्तरो देशान्तरे कालान्तरे च कार्य कुर्वाण: क्रमेण करोतीत्युच्यते क्षणमात्रस्थायित्वे त्वस्वं विधक्रमकरित्वं कथं सम्भवेदिति भावः।। २ नापि योगपयेनाप्यर्थक्रियाऽस्यास्ति, निरंशत्वेन युगपदनेकशत्यात्मकत्वाभावादिति बोध्यम् । "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy