SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] शुद्धर्जुसूत्रवरूपम् । न चाक्षणिकेषु कथं क्रमयोगपद्यायोग इति वाच्यम् , यतो न ते क्रमेणार्थक्रियाकारिणो भवन्ति, कारकावस्थाया अविशेषाद्वितीयादिक्षणभाविकार्याणां प्रागेव करणप्रसङ्गात् , तत्कारकस्वभावस्य. प्रागेव सन्निधानात् । सहकारिक्रमात् कार्यक्रम इति चेन्न, तेषां कि विशेषाधायकत्वेन सहकारित्वं किं वा चक्षुरादीनामिव स्वविज्ञाने एककार्यप्रतिनियमात् । तत्र न प्रथमः, तन्निष्पन्नस्य विशेषस्य ततोऽर्थान्तरत्वप्रसङ्गात् , अक्षणिकस्योत्पत्तिसमयेऽ 5 नुत्पन्नस्य पश्चादुत्पन्नस्य तत्स्वभावताऽसम्भवात् भिन्नहेतुकत्वात् , विरुद्धधर्माध्यासस्य कारणभेदस्य च वस्तुभेदकत्वात्। एवञ्च विशेषस्य भेदे भावः पूर्ववत्तदवस्थ एवेति पश्चादप्यका. रकः स्यात् । न द्वितीयः सहैव कुर्वन्तीति सहकारिणां नियमो न स्यात् , अपरिणामितया सहकारिणां प्राक् पश्चात् पृथग्भावावस्थायामपि कार्यकारित्वप्रसङ्गात् , सहकारिसन्निधानेऽपि नाक्षणिकस्य कार्यकारित्वं पररूपेणैव, स्वयमकारकस्यापरयोगेऽपि तत्कारित्वासम्भ- 10 वात् , सम्भवे तु पर एक वस्तुतः कार्यकारकः स्यात् , एवञ्च स्वात्मनि कारकत्वव्यपदेशो विकल्पनिर्मित एव भवेत् , तथा चानुपकारिणोऽस्य सद्भाव कार्य नापेक्षेतेति तद्विकलेभ्य एव सहकारिभ्यस्तदुत्पद्येत । अथवा तेभ्योऽपि न भवेत् , स्वयं तेषामप्यकारकत्वात् पररूपेणैव कर्तत्वाभ्युपगमात् । अतः सर्वेषां स्वतः परतो वाऽकर्तृत्वान्न कुतश्चित् किश्चिदुत्पद्येत, तस्मात्स्वरूपेणैव कार इति न कदाचित् क्रियाविरतिर्भवेत् । क्रमभाविकार्याणाञ्चो. 15 त्पादने एकस्यैव सामर्थ्यान्न तेषां क्रमभाविसामग्रीजन्यस्वभावता । सामर्थ्य विभ्रणोऽपि यदि तानि न जनयति तदा केवलस्य तस्य न तज्जननस्वभावता सिद्ध्येत् , तस्याः कार्यप्रादुर्भावेणानुमीयमानत्वात् , ततः कारणान्तरापेक्षाण्यपि कार्याणि कारणान्तरानादरेण हठादेव जनयेत्। यो हि यन्न जनयति नासौ तज्जननस्वभावः, न चायं केवलः कदाचिदपि उत्तरोत्तरकालभावीनि कारणान्तरापेक्षाणि कार्याणि जनयतीति न तत्स्वभावो भवेत् , 20 अतत्स्वभावश्च कारणान्तरसन्निधानेऽप्यपरित्यक्तस्वरूपो नैव जनयेत् , तत्कथमेकत्र जनकाजनकस्वभावते विरुद्ध स्याताम् । न च स्वहेतुभिर्हेत्वन्तरापेक्षकार्यजननस्वभावोऽ यमुत्पन्न इति न केवलस्य जनकता, न वा सहकारिसन्निधानासन्निधानावस्थयोरस्य स्वभावभेदः, कारणान्तरापेक्षस्वकार्यजननस्वभावतायाः सर्वदा भावादिति वाच्यम् , सहकारिसन्निधानावस्थायामपि स्वरूपेणैवास्य कार्यकारित्वात् , तस्य च प्रागपि सद्भावात् , 25 १न हि कार्यस्य स्वेच्छया भवनमभवनं वा, किन्तु कारणलदसत्तानुविधायिनी तस्य सदसत्त्वे, नत्र यद्यसौ स्थिरैकरूपो भाव: सर्वदा सर्वकार्याणां हेतुभावेनावस्थितस्तदा किमिति तत्सत्तामात्राकांक्षीणि कार्याणि सर्वाणि सकृदेव नोत्पश्चन्ते, येन क्रमेण भवेयुः, विलम्बासम्भवात् , तेन पाश्चात्यमपि तदीयं कार्य प्रागेव भवेत् , अप्रतिरुद्धसामर्थ्यकारणत्वात् , अभिमतकार्यवदिति भावः ।। "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy