________________
सम्मतितत्त्वसोपाने
[ पञ्चदशम् यैवोपन्यस्यते । सत्त्वमपि अर्थक्रियासामर्थ्यमेव, ताक्षणिकात् क्रमयोगपद्यविरोधाट्यावर्त्तमानं क्षणिक एवावतिष्ठत इति सदात्मकमेव तत् , ततश्च यत् सत् तत् क्षणिकमिति स्वभावहेतुः । सच्छब्दस्य प्रवृत्तिनिमित्तभेदादर्थभेदेन परमार्थतो धर्मिभेदाभावेऽपि न धर्मिण एव
हेतुता, पारमार्थिकं हि रूपमवाच्यम, ध्वनिभिर्विकल्पावभासिनामर्थानामेव प्रतिपादनात् , 5 क्षणिकशब्दस्यापि अक्षणिकसमारोपव्यवच्छेदविषयतया सच्छब्दार्थभिन्नार्थतेति तदारे
णापि न प्रतिज्ञार्थंकदेशता हेतोः, अन्वयादिनिश्चयस्तु प्रतिबन्धनिश्चायकप्रमाणात् । स्वभावहेतोस्तादात्म्यलक्षणप्रतिबन्धश्च प्रत्यक्षादिप्रमाणान्निश्चयः । ननु क्षणिकत्वं न प्रत्यक्षग्राह्यमतो न सत्तादात्म्यं स्वभावहेतोः सिद्धम् , न च भावा विनाशनियताः तद्भावं प्रत्यन
पेक्षत्वादित्यनुमानात्तत्सिद्धिरिति वाच्यम् , विनाशस्य निर्हेतुकत्वेऽपि घटादीनां नाशानुभव10 समय एव तस्य निर्हेतुकत्वसम्भवेन क्षणविशरारुताया असिद्धेः, स्वहेतुभ्य एकक्षण.
स्थायिभावोत्पत्तिवदने कक्षणस्थायिभावोत्पत्तेरविरोधात् । न च कचित्कदाचिद्विनाशोद्भवे तत्कालद्रव्याद्यपेक्षत्वादनपेक्षत्वहानिरिति वाच्यम् , विनाशहेत्वनपेक्षत्वेनानपेक्षत्वात् , अन्यथा द्वितीयेऽपि क्षणे विनाशो न स्यात् तत्कालाद्यनपेक्षत्वात् । न च क्रमाक्रमाभ्यां सा
मर्थ्यलक्षणसत्वस्य व्याप्ततया क्रमाक्रमनिवृत्तौ नित्यात्सत्त्वं निवर्तमान क्षणिकेष्वेवावतिष्ठत 15 इति सत्त्वं क्षणिकत्वस्य गमकमिति वाच्यम् , क्षणिकत्वे सति क्रमाक्रमप्रतिपत्तेरसम्भवात् ,
कालस्यैव बौद्धमतेऽभावादिति मैवम् , क्रमयोगपद्ययोः प्रत्यक्षसिद्धत्वात् , सहभावो हि भावानां योगपर्व पूर्वापरभावश्च क्रमः स च क्रमिणामभिन्नः, एकस्य प्रतिभास एव क्रमप्रतिभासः, परस्यापि तदा प्रतिभासे योगपद्यप्रतिभासप्रसक्तेः । ऋमिणोः पूर्वापरज्ञानाभ्यां ग्रहणे
तदात्मकः क्रमोऽपि गृहीत एव, क्रमो गृहीत इति व्यवस्था च पूर्वानुभूतपदार्थाहितसंस्का20 रप्रबोधादिदमस्मादनन्तरमुत्पन्नमित्येवंविधविकल्पज्ञानोदयात् । तस्मादर्थक्रियाकारी घटादिः
पदार्थः क्रमाक्रमाभ्यां प्रत्यक्षसिद्धः। तस्यैककार्यकरणं प्रति यत्सामर्थ्य तत्तदैव न पूर्व नापि पश्चात् , तत्कार्याभावात् , सामर्थ्यमपि ततोऽव्यतिरिक्तमेव, एवमुत्तरकार्योत्पत्तावपीति साम
र्थ्यभेदेन पदार्थभेदात् कथं न क्षणिके क्रमाक्रमयोनियमः, अतो यत्र सत्त्वं तत्र क्रमाक्रमप्रतीतावपि क्षणिकत्वप्रतीतिरेव । यदि अयमेव क्रमाक्रमनियमो नित्येऽपि, तदा घटादौ प्रतीति25 विषयत्वेनाध्यवसितं नित्यत्वं सत्त्वविरुद्धमिति क्रमयोगपद्याभ्यामर्थक्रियाविरोधो नित्यस्य सिद्धः । यथा च दृष्टेषु घटादिषु क्षणिकत्वव्याप्तं सत्त्वं सथाऽदृष्टेष्वप्यविशेषादिति सर्वोपसंहारेण व्याप्तिमवगत्य यथा यथा यत्र सत्त्वं निश्चीयते तथा तथा क्षणिकत्वानुमानम् । तस्मात् क्षणिकत्वेन सह सस्वस्य तादात्म्यं प्रमाणनिश्चितमिति अन्वयव्यतिरेकनिश्चयो भवत्येव ।
"Aho Shrutgyanam"