SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] शुद्धर्जुसूत्रस्वरूपम् । शुद्धर्जुसूत्रस्वरूपम् । ननु क्षणक्षयपरिणामसिद्धावेवं वक्तुं युक्तम् , तत्रैव न प्रमाणव्यापारः परैर्हि प्रत्यक्षेण क्षणिकतानिश्चयोऽन्त्यक्षणदर्शिनामेव प्रकल्प्यते, न प्राक् श्रान्तिकारणसद्भावात् , भ्रान्तिश्च सदृशापरापरवस्तूत्पादविप्रलम्भः । तत्रानुमानमपि न प्रवर्तते, सामान्यलक्षणस्य विशेषलक्ष. णस्य च हेतोरनिश्चयात् । त्रैरूप्यं हि सामान्यलक्षणम् , तत्र सर्वार्थानां सिषाधयिषितत्वेन 5 सपक्षस्याभावात्सत्वादिहेतोर्न सपक्षसत्त्वनिश्चयसम्भवः, साध्यस्य तन्मात्रानुबन्धः स्वभावहे तोर्विशेषलक्षणम् , क्षणक्षयस्यानध्यक्षत्वान्न सोऽपि तत्र निश्चेतुं शक्यः, अनुमानात्तग्निश्वये वनवस्था । तत्कार्यत्वावगमः कार्यहेतोरपि विशेषलक्षणम् , न च किञ्चिद्वस्तु क्षणिककार्यतया प्रसिद्धम् , प्रत्यक्षानुपलम्भसाध्यत्वात् कार्यकारणभावस्य । न च क्षणिकस्य किश्चित् कार्य सम्भवति, असतोऽजनकत्वेन विनष्टकारणात् कार्योत्पादानुपपत्तेः, अविनष्टादपि 10 नियापारात् तदसम्भवात् । प्रत्यभिज्ञाप्रत्यक्षेण तु भावानां स्थैर्यतावगमान्न क्षणिकत्वाभ्युपगमो युक्तः, प्रत्यक्षं च प्रत्यभिज्ञा, अक्षान्वयव्यतिरेकानुविधानादितरप्रत्यक्षवत् , न च स्मृतिपूर्वकत्वान्न प्रत्यक्षता, तथात्वेऽप्यक्षसहकृतायास्तस्याः प्रत्यक्षत्वाविरोधात् । विनाशस्य हेतुसापेक्षतया तत्सन्निधेः प्राक् तदभावात् क्षयिणामपि भावाना कियत्कालं स्थैर्यमनुमानादप्यवसीयते। न च नाशहेतयोऽसिद्धाः, दण्डेन घटो भग्नः, अग्निना काष्ठं दग्धमिति नाश- 15 हेतूनां दण्डादीनामन्वयव्यतिरेकाभ्यां प्रसिद्धेः । न च विनाशोऽवस्तु कथं कार्यमिति वाच्यम् , घटेन्धनपयसां समासादितविकाराणामवस्थान्तरस्यैव ध्वंसत्वात् , भावान्तरव्यतिरेकेणाभावस्यासंवेद्यत्वात्, वैशेषिकादिभिरप्यनपेक्षितभावाऽन्तरसंसर्गत्वेऽपि प्रच्युतिमात्रस्वरूपस्य प्रध्वंसाभावस्य हेतुमत्त्वेनानुभवनात् , तस्मान्न भावानां क्षणिकतासिद्धिरिति चेन्न, अध्यक्षतः क्षणिकत्वावगमस्य सङ्ग्रहनयनिराकरणप्रस्तावे प्रतिपादितत्वात् । न वा लिङ्गस्य सामान्य- 20 विशेषलक्षणायोगादनुमानमसम्भवि क्षणिकतायाम् , सपक्षसत्त्वादिनिश्चयायोगादिति वक्तव्यम् । हेतोनिश्चितस्य स्वसाध्यप्रतिबन्धस्य स्वपक्षसत्त्वादिनाऽभिधानात्, न तु दर्शन. मात्रस्य, सर्वत्र सपनविपक्षयोहेतुभावाभावयोनिश्चयायोगात् । किन्तु यत्र साधनधर्मस्तत्र सर्वत्र साध्यधर्मः यत्र च साध्याभावस्तत्र सर्वत्र साधनधर्मस्याप्यभाव इत्यशेषपदार्थाक्षेपेण सपक्षविपक्षयोः सदसत्वे ख्यापनीये स्तः । तथा तादात्म्यतदुत्पत्तिलक्षणस्य 25 प्रतिबन्धस्यैकस्मिन्नपि प्रमाणतोऽधिगमेऽन्वयव्यतिरेकतो व्याप्त्या निश्चयः सम्पद्यते नान्यथा, तदात्मनस्तादात्म्यामाचे नैरात्म्यप्रसङ्गात् , कार्यस्य च स्वकारणत्वेनाभिमतस्य भावस्याभावे भवतो निर्हेतुकत्वप्रसक्तेश्च । दृष्टान्तश्च प्रमाणेनावगतप्रतिबन्धस्य सम्प्रति विस्मृतस्य स्मरणा "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy