________________
सम्मतितत्त्वसोपाने
[ चतुर्दशम् वहारः लोकप्रसिद्धव्यवहारप्रवर्तनपरो नयः । हेयोपादेयोपेक्षणीयस्वरूपाः परस्परं पृथक्स्वभावा भावाः शाब्दे संवेदने सद्रूपतया प्रतिभान्ति ततश्च निवृत्तिप्रवृत्त्युपेक्षालक्षणो व्यवहार. स्तद्विषयः प्रवृत्तिमासादयति नान्यथा, सङ्ग्रहाभिमतेष्वेकान्ततः सट्टपाविशिष्टेषु भावेषु
पृथक् स्वरूपतया व्यवहारनिमित्तोऽबाधितरूपः परिच्छेदो न सम्भवतीति व्यवहारनय5 स्याभिप्राय इति ॥ ४ ॥
विशेषप्रस्तारस्य मूलव्याख्याता पर्यायनयः, शब्दादयश्च नयाः तस्यैव भेदा इति समर्थनायाह
मूलणिमेणं पजवणयस्स उज्जुसुयवयणविच्छेदो। तस्स उ सद्दाइआ साहपसाहा सुहुमभेया ॥५॥
मूलनिमेनं पर्यवनयस्य ऋजुसूत्रवचनविच्छेदः ।
तस्य तु शब्दादयः शाखाप्रशाखाः सूक्ष्मभेदाः ॥ छाया । मृलेति, पर्यवनयस्थ-विशेषविषयपरिच्छेदस्य मूलनिमेनं प्रथमाधारः ऋजुसूत्रवचनविच्छेदः, ऋजु वर्तमानसमयं वस्तु स्वरूपावस्थितत्वात्तदेव सूत्रयति परिच्छिनत्ति नातीतम
नागतं वा तस्यासत्त्वेन कुटिलत्वात् तस्य वचनं पदं वाक्यं वा तस्य विच्छेदः अन्त:-सीमे15 ति यावत् । ऋजुसूत्रवचनस्येति कर्मणि षष्ठी, तेन ऋजुसूत्रस्यैवमयमर्थो नान्यथेति प्ररूपयतो
वचनं विच्छिद्यमानं यत्तन्मूलनिमेनमत्र गृह्यते । अत्रापि वचनविच्छेदस्य शब्दरूपत्वेऽपि विषयेण विषयिणोऽभिधानात् ज्ञानस्त्र भावस्य नयस्याधारता बोध्या । वचनार्थयोश्चाभेदाच्छब्दस्यापि विषयत्वम् । विषयशब्दानभिधानन्तु शब्दनयानां शब्दाभिहितस्यैव प्रमाणत्वमि
ति सूचयितुम् । पूर्वापरपर्यायविविक्तैकपर्याय एव प्ररूपयतस्तस्य च वचनं विच्छिद्यते, एक20 पर्यायस्य परपर्यायासंस्पर्शात् । तस्यर्जुसूत्रनयस्य तुरवधारणे, ऋजुसूत्रनयस्यैव शब्दादयः
शब्दादर्थं बोधयन्तः शब्दनयत्वेन प्रतीताः शब्दसमभिरूद्वैवम्भूतास्त्रयो नयाः शाखा. प्रशाखाः सूक्ष्मभेदाः न तु द्रव्यास्तिकस्य । यथाहि तरोः स्थूलाः शाखाः सूक्ष्मास्तत्प्रशाखाः प्रतिशाखाश्चातिसूक्ष्मतराः तथैव ऋजुसूत्रतरोः शब्दादयः स्थूलसूक्ष्मसूक्ष्मतरा दृष्टव्या इति ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वर
चरणनलिनविन्यस्तभक्तिभरण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलितस्य 25
सम्मतितत्त्वसोपानस्य शुद्धाशुद्धनयद्वयवर्णनं नाम
चतुर्दशं सोपानम् ॥
"Aho Shrutgyanam'