________________
सोपानम् । शुद्धाशुद्धनयस्वरूपम् ।
:१०७. समयात् प्राक् पश्चाद्वा घटस्तव्यपदेशमासादयतीत्येवम्भूतनयमतम् । तत् स्थितमेतदृजुसूत्रादयः पर्यायास्तिकस्य विकल्पा इति ॥ ३ ॥
इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्यरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पधरेण विजयलब्धिसूरिणा सङ्कलितस्य सम्मतितत्वसोपानस्य नयद्वयघटकपर्यायार्थिकस्वरूपनिरूपणं नाम त्रयोदशं सोपानम् ॥
शुद्धाशुद्धनयद्वयवर्णनम् ‘दव्वढिओ य पज्जवणओ य ' इति पूर्वगाथापश्चाधैकदेशस्य विवरणार्थमाहदव्वट्टियनयपयडी सुद्धा संगहपरूवणाविसओ ।
10 पडिरूवं पुण वयणस्थनिच्छओ तस्स ववहारो ॥ ४ ॥ द्रव्यास्तिकनयप्रकृतिः शुद्धा सङ्ग्रहप्ररूपणाविषयः ।
प्रतिरूपं पुनर्वचनार्थनिश्चयस्तस्य व्यवहारः ॥ छाया ॥ द्रव्यास्तिकेति, व्यावर्णितस्वरूपस्य द्रव्यास्तिकनयस्य प्रकृतिः स्वभावः शुद्धा-असकीर्णा-विशेषासंस्पर्शवती सङ्ग्रहस्याभेदग्राहिनयस्य प्ररूप्यतेऽनयेति प्ररूपणा-पदसंहतिस्त- 15 स्था विषयोऽभिधेयः । ननु ज्ञानस्वरूपे शुद्धद्रव्यास्तिकेऽभिधातुं प्रक्रान्ते सङ्ग्रहप्ररूपणाविषयाभिधानस्य कः प्रस्तावः, मैवम् , उपचारतो विषयेण विषयिणोऽभिधानात् , विषयाकारण हि वृत्तस्य विषयिणो विषयव्यवस्थापकत्वमिति । सङ्ग्रहनय प्रत्ययः शुद्धो द्रव्यास्तिक इति भावः । सङ्ग्रहाभिप्रायेण हि प्ररूपणास्वभावस्य पदस्य वाक्यस्य वा भाव एव विषयः, स्वार्थद्रव्य लिङ्गकर्मादिप्रकारेण सुबन्तार्थस्य भावाद्भिन्नत्वेऽभाववन्निरुपाख्यतया न द्रव्यादिरूप-20 तेति सुबन्तपदवाच्यत्वासम्भवः स्यात् , अभिन्नत्वे वा सुबन्तार्थो भावमात्रमेव, एवं तिङ. न्तार्थोऽपि क्रियाकालकारकादिरूपेणाभिधीयमानः सत्तारूप एव, असद्रपाणां तेषां खपुपादिवत् कारकासाध्यत्वात् , इति सर्वत्र सङ्ग्रहाभिप्रायेण प्ररूपणाविषयो भाव एव, तमेव सङ्ग्रहन सङ्ग्रहः शुद्धा द्रव्यास्तिकप्रकृतिरिति तात्पर्यार्थः । प्रतिरूपं प्रतिबिम्ब, विशेषेण घटादिना द्रव्येण सङ्कीर्णा सत्तेति यावत् , पुनरिति प्रकृति स्मारयति, सा प्रकृतिः 25 स्वभावः। वचनार्थनिश्चय इति, हेयोपादेयोपेक्षणीयवस्तुविषये निवृत्तिप्रवृत्त्युपेक्षालक्षण.. व्यवहारसम्पादनार्थ उच्यत इति वचनं तस्य घट इति विभक्तरूपतया अस्तीत्यविभक्तात्मतया च प्रतीयमानो व्यवहारक्षमोऽर्थः, तस्य निश्चयः परिच्छेदः, तस्य द्रव्यास्तिकस्य व्य
"Aho Shrutgyanam"