________________
सम्मतितस्वसोपाने
[प्रयोदशम् द्धधर्माध्यासस्य भेदलक्षणत्वात् , तथाप्यभेदे न किञ्चिद्भिन्नं जगदस्तीति भेदव्यवहार एवोत्सीदेत् । तथैकस्मिन्नुदकपरमाणावाप इति बहुत्वसंख्याया निर्देशोऽनुपपन्नः, न ह्येकत्वसंख्यासमाध्यासितं तदेव तद्विरुद्धबहुत्वसंख्योपेतं भवतीत्येकसंख्ययैव तन्निर्देष्टव्यम् । काल.
भेदाद्वस्तुभेद ऋजुसूत्रेणाभ्युपगत एवेति अग्निष्टोमयाजी पुत्रोऽस्य जनितेत्ययुक्तमेव, वच5 सोऽतीतानागतयोः सम्बन्धाभावात् । तथाऽन्यकारकयुक्तं यत्तदेवापरकारकसम्बन्धं नानुभ
वतीत्यधिकरणश्चेद्रामोऽधिकरणकारकवाचिविभक्तिवाच्य एव न कर्माभिधानविभक्त्यभिधेयो युक्त इति ग्राममधिशेते इति प्रयोगोऽनुपपन्नः । तथा पुरुषभेदेऽपि नैकं तद्वस्त्विति एहि मन्ये रथेन यास्यसि यातस्ते पितेति च प्रयोगो न युक्तः, अपि तु एहि मन्यसे यथाहं रथे
न यास्यामि इत्यनेनैव परभावेनैतन्निर्देष्टव्यम् । एवमुपसर्गभेदेऽपि विरमतीति प्रयोगो न 10 युक्तः, आत्मार्थतायां हि विरमते इत्यस्यैव प्रयोगस्य सङ्गतेः । न चैवं लोकशास्त्रव्यवहारविलोप
इति वक्तव्यम् , सर्वत्रैव नयमते तद्विलोपस्य समानत्वादिति यथार्थशब्दनाच्छब्दनयो व्यवस्थितः ॥ एकसंज्ञासमभिरोहणात्समभिरूढस्त्वाह यथाहि विरुद्धलिङ्गादियोगाद्भिद्यते वस्तु तथा संज्ञाभेदादपि, तथाहि संज्ञाभेदः प्रयोजनवशात्सङ्केतकर्तृभिर्विधीयते न व्यसनितया,
अन्यथानवस्थाप्रसक्तेः, ततो यावन्तो वस्तुनः स्वाभिधायकाः शब्दास्तावन्तोऽर्थभेदाः, प्रत्यर्थ 15 भिन्नशब्दनिवेशान्नैकस्यार्थस्याने के नाभिधानं युक्तमिति घटः कुटः कुम्भ इति वचनभेदाद्भिन्न
एवार्थः, क्रियाशब्दस्वाद्वा सर्वशब्दानां सर्वेऽप्यन्वर्थी एव वाचकाः, ततो घटते कुटति कौ भा. तीति च क्रियालक्षणनिमित्तभेदान्नैमित्तिकेनाप्यर्थेन भिन्नेन भाव्यमिति घट इत्युक्ते कुतः कुट इति प्रतिपत्तिः, तेन तदर्थस्यानभिहितत्वात् । यथा वा पावकशब्दोक्तेरन्यैव घटादिभ्यः
पावकशक्तिरन्वयव्यतिरेकाभ्यां लोकतः प्रसिद्धा तथा घटनकुटनादिशक्तीनामपि भेदः 20 प्रतीयत एवेति नानार्थवाचिन एव पर्यायध्वनयः नैकमर्थमभिनिविशन्त इति समभिरूढः ।।
शब्दाभिधेयक्रियापरिणति वेलायामेव तद्वस्तु इति भूत एवम्भूतः प्राह यथा संज्ञाभेदाढ़ेदवद्वस्तु तथा क्रियाभेदादपि, सा च क्रिया त त्री यदैव तामाविशति तदैव तन्निमित्तं तद्व्यपदेशमासादयति, नान्यदाऽतिप्रसङ्गात् , तथाहि यदा घटते तदेवासो घटः न पुनर्घटितवान् घ
टिष्यते वा घट इति व्यपदेष्टुं युक्तः सर्ववस्तूनां घटतापत्तिप्रसङ्गात् । अपि च चेष्टासमय एव 25 चक्षुरादिव्यापारसमुद्भूतशब्दानुविद्धप्रत्ययमास्कन्दन्ति चेष्टावन्तः पदार्थाः, यथावस्थितार्थ
प्रतिभास एव च वस्तूनां व्यवस्थापको नान्यथाभूतः, अचेष्टावन्तोऽपि चेष्टावत्तया शब्दा. नुविद्धेऽध्यक्षप्रत्यये प्रतिभास्यन्त इत्यभ्युपगमे तत्प्रत्ययस्य निर्विघयतया भ्रान्तस्यापि वस्तुव्यवस्थापकत्वे सर्वः प्रत्ययः सर्वस्यास्य व्यवस्थापकः स्यादित्यतिप्रसङ्गः, तन्न घटन
"Aho Shrutgyanam"