SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ स्रोपानम् । पर्यायार्थिकस्वरूपम् । यद्यपि प्रमाणप्रमेय निबन्धनं सामान्येन शब्दार्थों भवतस्तथापि प्रमाणस्य कारणमेव स्वाकारापकविषयः, 'नाननुकृतान्वयव्यतिरेक कारणं नाकारणं विषयः' । अर्थेन घटयत्येनां न हि मुक्त्वार्थरूपताम् । तस्मात्प्रमेयाधिगतेः प्रमाण मेयरूपते 'त्यादिवचनात् । तदाकारानुविधायिनी तदध्यवसायेन च तत्राविसंवादात् संवित् प्रमाणत्वेन गीयते । अध्यक्षधीश्वाशब्दमर्थमात्मन्याधत्ते, अन्यथाऽर्थदर्शनप्रच्युतिप्रसङ्गात् , न ह्यक्षगोचरेऽर्थे शब्दास्सन्ति तदा- 5 स्मानो वा, येन तस्मिन् प्रतिभासमानेऽपि नियमेन ते प्रतिभासेरनिति कथं तत्संसृष्टाऽध्यक्ष. धीभवेत् । किश्च वस्तुसन्निधानेऽपि तन्नामानुस्मृति विना तदर्थस्यानुपलब्धाविष्यमाणायाम. र्थसन्निधिरशदृग्जननं प्रत्यसमर्थ इति अभिधानस्मृत्युपक्षीणशक्तित्वान्न कदाचनापीन्द्रियबुद्धिं जनयेत् , सन्निधानाविशेषात् । यदि चायं भवतां निर्बन्धः स्वाभिधानविशेषापेक्षमेव चक्षु. रादिप्रतिपत्तिः स्वार्थमवगमयति तदाऽस्तङ्गतेयमिन्द्रियप्रभवार्थाधिगतिः, तन्नामस्मृत्यादेरस. 10 म्भवात् , तथाहि यत्रार्थ प्राक् शब्दप्रतिपत्तिरभूत् पुनस्तदर्थवीक्षणे तत्सकेतितशब्दस्मृतिर्भवेदिति युक्तियुक्तमन्यथातिप्रसङ्गात् , न चेदनभिलापमर्थं प्रतिपत्ता पश्यति तदा तत्र दृष्टममिलापमपि न स्मरेत् , अस्मरंश्च शब्दविशेषं न तत्र योजयेत् , अयोजयश्च न तेन विशिष्टमर्थ प्रत्येतीत्यायातमान्ध्यमशेषस्य जगतः । ततः स्वाभिधानरहितस्य विषयस्य विषयिणं चक्षुरादिप्रत्ययं प्रति स्वत एवोपयोगित्वं सिद्धं न तु तदभिधानानाम् , तदर्थसम्बन्धरहि. 15 तानां पारम्पर्येणापि सामर्थ्यासम्भवात् , इत्यर्थनया व्यवस्थिताः । शब्दनयास्तु मन्यन्ते कारणस्यापि विषयस्य प्रतिपत्ति प्रति नैव प्रमेयत्वं युक्तं यावदध्यवसायो न भवेत् , सोऽप्यध्यवसायविकल्पस्तदभिधानस्मृति विना नोत्पत्तुं युक्त इति सर्वव्यवहारेषु शब्दसम्बन्धः प्रधानं निबन्धनम् , प्रत्यक्षस्यापि तत्कृताध्यवसायलक्षणविकलस्य बहिरन्तर्वा प्रतिक्षणपरिणामप्रतिपत्ताविव प्रमाणतानुपपत्तेः, अविसंवादलक्षणत्वात् प्रमाणानाम् , प्रतिक्षणपरिणा- 20 मग्रहणेऽपि तस्य प्रामाण्याभ्युपगमे प्रमाणान्तरप्रवृत्तौ यत्नान्तरं क्रियमाणमपार्थकं स्यात् । ततः प्रमाणव्यवस्थानिबन्धनं तन्नामस्मृतिव्यवसाययोजनमर्थप्राधान्यमपहस्तयतीति शब्द एव सर्वत्र प्रमाणादिव्यवहारे प्रधानं कारणमिति स्थितम् ॥ शब्दनयश्च ऋजुसूत्राभिमतपर्यायाच्छुद्धतरं पर्यायं स्वविषयत्वेन व्यवस्थापयति, तथाहि तटस्तटी तटमिति विरुद्धलिङ्गलक्षणधर्माकान्तं भिन्नमेव वस्तु, न हि तत्कृतं धर्मभेदमननुभवतस्तत्सम्बन्धो युक्तः, तद्धर्मभेदे 25 षा स्वयं धर्मी कथं न भिद्यते, यथा हि मणिकं वस्तु अतीतानागताभ्यां क्षणाभ्यां न सम्ब न्धमनुमवत्येवं परस्परविरुद्धस्त्रीत्वाद्यन्यतमधर्मसम्बन्धं नान्यधर्मसम्बद्धो धर्म्यनुभवति, विरु. १४ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy