________________
सम्मतितस्वसोपाने
[प्रयोदशम् सेश्वरपक्षेऽपि कर्मसापेक्षत्वानपेक्षत्वाभ्यां भेदाभ्युपगमः, कश्चित्स्वभावकालयदृच्छादिवादाः समाश्रिताः, तेष्वपि सापेक्षत्वानपेक्षत्वाभ्युपगमान्दव्यवस्था, तथा कारणं नित्यं कार्यमनित्यमिति भेदः, तत्रापि कार्य नियमेन स्वरूपं त्यजति न वेति भेदाभ्युपगमः, एवं
मूतैरेव मूर्तमारभ्यते, मूतैमूतम् , मूतरमूर्त मित्याद्यनेकधा प्रतिपत्रभिप्रायतोऽनेकधा नि5 गमनागमोऽने कभेद इति । व्यवहारनयस्तु, अपास्तसमस्तभेदमेकमभ्युपगच्छतोऽध्यक्षी. कृतभेदनिबंधनव्यवहारविरोधप्रसक्तेः कारकज्ञापकभेदपरिकल्पनानुरोधेन व्यवहारमारचयन् कारणस्यापि न सर्वदा नित्यत्वं कार्यस्यापि न सर्वदा नित्यत्वं कार्यस्यापि नैकान्ततः प्रक्षय इति ततश्च न कदाचिदनीदृशं जगदिति प्रवृत्तोऽयं व्यवहारो न केनापि प्रवर्त्यते, अन्यथा
प्रवर्तकानवस्थाप्रसक्तिरतो न व्यवहारशून्यं जगत् । न च प्रमाणाविषयीकृतः पक्षोऽभ्युप. 10 गन्तुं युक्तः, अदृष्टपरिकल्पनाप्रसक्तः, दृष्टानुरोधेन ह्यदृष्टं वस्तु कल्पयितुं युक्तमन्यथा कल्प.
नाऽसम्भवात् । सवाहनैगमाभ्युपगतवस्तुविवेकाल्लोकप्रतीतपथानुसारेण प्रतिपत्तिगौरवपरि. हारेण प्रमाणप्रमेयप्रमितिप्रतिपादनं व्यवहारप्रसिद्ध्यर्थं परीक्षकैः समाश्रितमिति व्यवहार. नयाभिप्रायः, ततरिस्थतं नैगमसहव्यवहाराणां द्रव्यास्तिकनयप्रभेदत्वम् । पर्यायनयभेदा
ऋजुसूत्रादयः, देशकालान्तरसम्बद्धस्वभावरहितं वस्तुतत्त्वं साम्प्रतिकमे कस्वभावमकुटिलं 15 ऋजु सूत्रयतीति ऋजुसूत्रः, न ह्येकस्वभावस्य नानादिकालसम्बन्धित्वस्वभावमनेकत्वं
युक्तमेकस्यानेकत्वविरोधात् , न हि स्वभावभेदादन्यो वस्तुभेदः स्वरूपस्यैव वस्तुत्वोपपत्तेः तथाहि विद्यमानेऽपि स्वरूपे किमपरमभिन्नं वस्तु यद्रूपनानात्वेऽप्येकं स्यात् । यद्वस्तुरूपं येन स्वभावेनोपलभ्यते तत्तेन सर्वात्मना विनश्यति न पुनः क्षणान्तरसंस्पर्शीति क्षणि
कम् , क्षणान्तरसम्बन्धे तत्क्षणाकारस्थ क्षणान्तराकाराविशेषप्रसङ्गात् , अतो जातस्य 20 यदि द्वितीयक्षणसम्बन्धः प्रथमक्षणस्वभावं नापनयति तदा कल्पान्तरावस्थानसम्बन्धोऽपि
तन्नापनयेत् स्वभावभेदे वा कथं न वस्तुभेदः, अन्यथा सर्वत्र सर्वदा भेदाभावप्रस. क्तिः, अक्षणिकस्य क्रमयोगपद्याभ्यामर्थक्रियानुत्पत्तेरसत्त्वम् , सहकारिकृतातिशयमनङ्गीकुर्वतस्तदपेक्षायोगादक्षेपेण कार्यकारिणः सर्वकार्यमेकदैव विदध्यादिति न कमकर्त्तत्वम् , न
वा कदापि स्वकार्यमुत्पादयेन्निरपेक्षस्य निरतिशयत्वात् , न हि निरपेक्षस्य कदाचित्करणम25 करणं वा विरोधात, तत्कृतमुपकारं स्वभावभूतमङ्गीकुर्वतः क्षणिकत्वमेव, व्यतिरिक्त
वे वा सम्बन्धासिद्धिः, अपरापरोपकारकल्पनेऽनवस्थाप्रसक्तिः । युगपदपि न नित्यस्य कार्यकारित्वम् , द्वितीयेऽपि क्षणे तत्स्वभावात्ततस्तदुत्पत्तितस्तकमप्रसक्तेः । क्रमाक्रमव्यतिरिक्तप्रकारान्तराभावाच न नित्यस्य सत्त्वमर्थक्रियाकारित्वलक्षणत्वात्तस्य, प्रध्वंसस्य च निर्हेतुकत्वेन स्वभावतो भावात्स्वरसभङ्गुरा एव सर्वे भावा इति पर्यायाश्रित सूत्राभिप्रायः ।
"Aho Shrutgyanam"