________________
सोपानम् ]
पर्यायार्थिकस्वरूपम् ।
स्वनवस्था स्यात्, अभिन्नत्वे च साधनोपन्यासो व्यर्थः, निश्चयादेवोपकाराभिन्नस्यातिशयस्योत्पत्तेः, न चातिशयस्य कश्चिदाधारो युक्तः, अमूर्त्तत्वेनाधःप्रसर्पणाभावात्, अधोगतिप्रतिबन्धकत्वेनाधारस्य व्यवस्थानात् । जन्यजनकभावलक्षणोऽपि सम्बन्धो न युक्तः, सर्वदैव निश्चयाख्यस्य कारणस्य सन्निहितत्वेन नित्यमतिशयोत्पत्तिप्रसक्तेः । न च साधनप्रयोगापेक्षया निश्चयस्यातिशयोत्पादकत्वं युक्तम्, अनुपकारिण्यपेक्षायोगात् । नापि तद्विषय- 5 ज्ञानोत्पत्तिरभिव्यक्तिः, तद्विषयज्ञानस्य त्वन्मतेन नित्यत्वात्, आसर्गप्रलयादेका बुद्धिरिति भवन्मतेन संविद एकत्वाच्च । न वा तदुपलम्भावारकापगमोऽभिव्यक्तिः, द्वितीयस्योपलम्भस्यासंभवेनोपलम्भावरणस्याप्यभावात् न ह्यसत आवरणं युक्तम्, तस्य वस्तुसद्विषयत्वात्, न चासतस्तदावरणस्य कुतश्चित् क्षयो युक्तः, सत्वेऽपि तदावरणस्य नित्यत्वान्न क्षयः, नापितिरोभावः, अपरित्यक्तपूर्वरूपस्य तिरोभावानुपपत्तेः । तद्विषयोपलम्भस्य सत्त्वेऽपि नित्य- 10 त्वान्नावरणसम्भव इति कुतस्तत्क्षयोऽभिव्यक्तिः । न चापि तत्क्षयः केनचिद्विधातुं शक्यः, तस्य निःस्वभावत्वात्, तस्मादभिव्यक्तेर घटमानत्वात् सत्कार्यवादपक्षे साधनोपन्यास वैयर्थ्यम् । यदपि भेदानामन्वयदर्शनात् प्रधानस्यास्तित्वमुक्तं तत्र हेतुरसिद्धः, न हि शब्दादिलक्षणं व्यक्तं सुखाद्यन्वितं सिद्धम्, सुखादीनां ज्ञानरूपत्वात्, शब्दादीनाञ्च तद्रूपविकलत्वात्, शब्दादयो ज्ञानरूपचिकलत्वान्न सुखाद्यात्मकाः, यथा परोपगत आत्मेति व्यापकानुपलब्धेः । 15 ननु सुखादिरूपत्वं यदि ज्ञानमयत्वेन व्याप्तं सिद्धं तदा तन्निवर्त्तमानं सुखादिमयत्वमादाय निवर्त्तेत, व्याप्तिश्च न सिद्धा, पुरुषस्यैव संविद्रूपतयेष्टत्वादिति मैवम्, सुखादीनां स्वसंवेदनरूपतया स्पष्टमनुभूयमानत्वात् शब्दादिविषयसन्निधानेऽसन्निधाने च प्रीतिपरितापादिरूपेण प्रकाशान्तरनिरपेक्षा प्रकाशात्मिका सुखादीनां हि स्वसंवित्तिः स्पष्टा । यदेव हि प्रकाशान्तरनिरपेक्षं सातादिरूपतया स्वयं सिद्धिमवतरति तज्ज्ञानं संवेदनं चैतन्यं सुखमित्यादिभि: 20 पर्यायैरभिधीयते, न च सुखादीनामन्येन संवेदनेनानुभवादनुभवरूपता प्रथत इति वाच्यम, तत्संवेदनस्यासातादिरूपताप्रसक्तेः, स्वयमतदात्मकत्वात् । तथाहि योगिनोऽनुमानवतो वा परकीयं सुखादिकं संवेदयतो न सावादिरूपता, अन्यथा योग्यादयोऽपि साक्षात् सुखाद्यनुभाविन इवातुरादयः स्युः, योग्यादिवद्वा अन्येषामप्यनुग्रहोपघातौ न स्यातामविशेषात् । संवेदनस्य च सातादिरूपत्वाभ्युपगमे संविद्रूपत्वं सुस्वादेः सिद्धम् । इदमेव हि नः सुखं दुःख 25 यत्सातमसातञ्च संवेदनमिति नानैकान्तिकता हेतोः । बाह्यार्थवादिनां सर्वेषां शब्दादिषु संविद्रूपरहिततायाः सिद्धत्वान्न व्यापकानुपलब्धेरसिद्धता | सपक्षे हेतोरसद्भावादेव न विरु
J
: १०१ :
१ अत्र हि प्रतिषेध्यं सुखाद्यात्मकत्वं तद्व्यापकं संविपत्वं तस्य शब्दादावनुपलब्धेः सुखाद्यात्मकत्वं
निषिध्यत इति भावः ॥
"Aho Shrutgyanam"