________________
: १०० सम्मतितस्वसोपाने
[ त्रयोदशम् धर्मिणोऽनन्यत्वाद्धर्मस्वरूपचदपूर्वस्य चोत्पादः पूर्वस्य च विनाश इति नैकस्य कस्यचित् परिणतिः सिद्धयेदिति न परिणामवशादपि सांख्यानां कार्यकारणव्यवहारः सङ्गच्छते । एवं कार्य न सत् , सदकरणात् , यदि हि दुग्धादिषु दध्यादीनि मध्यमावस्थायामिव सन्ति तदा तेषां किमपरमुत्पाद्यमस्ति, यत्तर्जन्यं स्यादतः सत्कार्यवादे कार्यत्वाभिमतानामकार्यत्वापत्तिः। 5 ननु न वयमभिव्यक्तादिरूपेण कारणे सत्त्वमभ्युपगच्छामः किन्तु शक्तिरूपेणातो न दोष
इति चेन्न, यतः सोऽयमभिव्यक्त्यादिलक्षणोऽतिशयो यं हेतवः कुर्वन्ति किमभिव्यक्त्याद्यवस्थातः प्रागासीत् किं वा नासीत् , नाद्यः, अकार्यत्वप्रसङ्गात् , न द्वितीयः, असतो हेतुभ्यः प्रादुर्भावासम्भवात् , तस्मात्सदकरणान्न सत् कार्यम् । एवञ्च साध्यस्य कस्यचिदभावादुपा
दानग्रहणादित्यादिहेतवोऽप्यनुपपन्नाः । किञ्च प्रवर्तमानं हि सर्वमेव साधनं स्वप्रमेयार्थ10 विषये उत्पद्यमानौ संशयविपर्ययौ निवर्तयति, स्वसाध्यविषयं निश्चयश्वोपजनयति, न चैत
सत्कार्यवादे सङ्गच्छते, तथाहि संदेहविपर्ययौ किं चैतन्यस्वभावौ, उत बुद्धिमनःसङ्कल्परूपौ, न प्रथमः, चैतन्यरूपतया तयोरनभ्युपगमास् , अभ्युपगमे वा मुक्त्यवस्थायामपि चैतन्यसद्भावेन तयोरुत्पत्यनिवृत्तेरनिर्मोक्षताप्रसङ्गात् , साधनव्यापारात्तयोरनिवृत्तिश्च चैतन्यवन्नित्य
त्वात् । न द्वितीयः, बुद्धिमनसोर्नित्यत्वेन तयोरपि नित्यत्वानिवृत्त्ययोगात् । न वा निश्चयो15 त्पत्तिः साधनासम्भवति, तस्या अपि सर्वदाऽवस्थितेः, अन्यथा सत्कार्यवादो विशीर्यतेति
साधनोपन्यास प्रयासो विफलः कापिलानाम् । तथा निश्चयोत्पादनार्थ हि साधनं ब्रुवताऽसतो निश्चयस्योत्पत्तिरङ्गीकृता भवेत् , सा च सत् कार्यमिति प्रतिज्ञया निषिद्धेति स्ववचनविरोधः स्पष्ट एव । यदि च साधनप्रयोगसार्थक्याय निश्चयोऽसन्नेवोत्पद्यत इत्यङ्गीक्रियते तर्हि
असदकरणादित्यादिहेतवो व्यभिचरिता भवेयुः । न च साधनप्रयोगात् पूर्व निश्चयोऽनभि20 व्यक्तः साधनप्रयोगाचाभिव्यक्ततामासादयतीति वाच्यम् , विकल्पानुपपत्त्याऽभिव्यक्तेरसि.
द्धत्वात् , तथाहि किं स्वभावातिशयोत्पत्तिरभिव्यक्तिः, आहोस्वित् तद्विषयं ज्ञानम् , किं वा तदुपलम्भावारकापगमः, तत्र प्रथमपक्षेऽपि स्वभावातिशयो निश्चयस्वभावादव्यतिरिक्तो व्यतिरिक्तो का, नायः, निश्चयस्वरूपवत् तस्य सर्वदैवावस्थितेरुत्पादायोगात्, न द्वितीयः,
तस्थासाविति सम्बन्धानुपपत्तेः, तयोः परस्परमनुपकार्योपकारकत्वेनाधाराधेयलक्षणसम्ब25 न्धासम्भवात् , उपकाराभ्युपगमे तस्य भिन्नत्वे सम्बन्धानुपपत्तिः, अपरोपकारकल्पनायां
१ तथा च प्रयोगः, यत्सर्वाकारेण सन्न तत्केनचिजन्यम् , यथा प्रकृतिश्चतन्यं वा, सदेव च कार्य प्रथमावस्थायाम् , सच सर्वात्मना तव मतेन दध्यादि क्षीरादाविति व्यापकविरुद्धोपलब्धिः, अत्र प्रतिषेध्य केनचिजन्यत्वं तझ्यापकं सर्वात्मनाऽसत्त्वं तेन विरुद्ध सर्वात्मना कारणे सत्त्वं तच्चोपलभ्यमानं केनचिजन्यत्वं निवर्तयति इति व्यापकविरुद्धोपलब्धिः । अनुत्पन्नातिशयस्यापि दध्यादेर्जन्यत्वे सर्वेषां जन्यत्यप्रसङ्गोऽनवस्थाप्रसङ्गो वा विपक्ष बाधकं प्रमाणम् ॥
"Aho Shrutgyanam"