________________
सोपानम्
पर्यायार्थिकस्वरूपम् । व्यवस्थितेः । व्यक्तस्वरूपाव्यतिरेकाचाव्यक्तमपि हेतुमदादिधर्मासङ्गि स्यात् , अहेतुमस्वादिधर्मवद्वा व्यक्तं भवेत् । किञ्च कार्यकारणभावस्यान्वयव्यतिरेकनिमित्तकत्वेन तदभावान्न महदादिकारणं प्रधानम् , नित्यस्य च प्रधानस्य क्रमयोगपद्याभ्यामर्थक्रियाविरोधान्न महदाधुत्पादकत्वम् । ननु सर्पः कुण्डलादिरूपेणेव प्रधानं महदादिरूपेण परिणमति, तावतैव तन्महदादिकारणमुच्यते, महदादयश्च तत्परिणामरूपाः तत्कार्य- 5 व्यपदेशभाजः, न चाभेदे परिणामो विरुद्धः, एकवस्त्वधिष्ठानत्वात्तस्य, अपूर्वस्वभावोत्पत्त्या कार्यकारणभावाभ्युपगमे हि स्वरूपाभेदात्तयोः कार्यकारणभावो विरुद्धो भवेदिति चेन्मैवम , परिणामासिद्धेः, पूर्वावस्थापरित्यागमन्तरेणावस्थान्तरप्रादुर्भावेऽवस्थासाङ्कर्येण वृद्धावस्थायामपि युवत्वाद्यवस्थोपलब्धिप्रसङ्गात् , तत्परित्यागे च स्वरूपहानिप्रसङ्गात् , पूर्वस्वभावस्य निरुद्धत्वादपरस्य चोत्पन्नत्वात्, अतो न कस्यचित् परिणामः सिद्धयेत् । 10 किञ्च तस्यैवान्यथाभावो भवद्भिः परिणाम उच्यते, स किमेकदेशेन, सर्वात्मना वा, नाद्यः, एकस्यैकदेशासम्भवात् , न द्वितीयः, पूर्वपदार्थविनाशेन पदार्थान्तरोत्पादप्रसङ्गात् , ततो न तस्यैवान्यथात्वं तस्य स्वभावान्तरोत्पादनिबन्धनत्वात् । न च धर्मिणो व्यव. स्थितत्वेऽपि धर्मान्तरनिवृत्त्या धर्मान्तरप्रादुर्भावलक्षणः परिणामोऽभ्युपगम्यते न तु स्वभावान्यथात्वमिति वाच्यम् , निवर्तमानप्रादुर्भवद्धर्मयोधर्मिभिन्नत्वापत्तेः, अन्यथा धर्मी 15 व्यवस्थितो धर्मयोरेव प्रच्युतिरुत्पादश्चेत्यभिधानमनर्थकं भवेत् , धर्मिभिन्नत्वे च तयोः कथं धर्मी परिणतः स्यात्, न ह्यर्थान्तरभूतयोः कटपटयोरुत्पादविनाशेऽविचलितस्वरूपस्य घटादेः परिणामो भवति, अन्यथा चैतन्यमपि परिणामि स्यात् । तत्सम्बद्धधर्मयोरुत्पादविनाशात्तस्यासावभ्युपगम्यते नान्यस्येति चेन्न, सदसतोः सम्बन्धाभावेन तत्सम्बन्धित्वायोगात्, न हि सतः सम्बन्धो युक्तः समधिगताशेषस्वभावस्यान्यान- 20 पेक्षतया कचिदपि पारतन्त्र्यासम्भवात् , न वाऽसतः सम्बन्धः, तस्य निरुपाख्यत्वेन कचिदाश्रितत्वानुपपत्तेः, न हि शशविषाणादिः कचिदप्याश्रितः । न वा व्यतिरिक्तधर्मान्तरोत्पादविनाशयोः सत्योः परिणामो भवद्भिर्व्यवस्थापितः, यत्रात्मभूतैकस्वभावानुवृत्तिरवस्थाभेदश्च तत्रैव तद्व्यवस्थापनात् । धर्मयोर्व्यतिरेके च नैकस्वभावानु. वृत्तिरस्ति, धर्येव हि तयोरेक आत्मा स च व्यतिरिक्त इति नात्मभूतैकस्वभावानु- 25 वृत्तिः, न च धर्मद्वयव्यतिरिक्तो धर्मी उपलब्धिलक्षणप्राप्तो दृग्गोचरमवतरतीति ताहशोऽसद्वयवहारविषय एव । अभेदे चैकस्माद्धर्मिस्वरूपाव्यतिरिक्तत्वात्तिरोभावाविर्भाववतोधर्मयोरप्येकत्वं धर्मिस्वरूपवदिति केन रूपेण धर्मी परिणतः स्याद्धर्मों वा, अवस्थातुश्च धर्मिणः सकाशादव्यतिरेकाद्धर्मयोरवस्थातृस्वरूपवन निवृत्तिर्नापि प्रादुर्भावः, धर्माभ्याश्च
"Aho Shrutgyanam"