________________
: ९८ : सम्मतितस्वसोपाने
त्रयोदशम् र्थिकस्वरूपत्वेऽधिगतेऽविद्याविरचितत्वं स्यात् , तत्सद्भावाच्च तदधिगतिरिति । किश्चाभेदप्रतिभासस्य पारमार्थिकत्वं विद्यानिर्मितत्वादिति त्वया वक्तव्यं तत्राप्यन्योऽन्याश्रयो दुर्वार इति, तस्मान्न भेदे प्रमाणबाधा । किञ्च यद्यविद्याऽवस्तुसती तदा प्रयत्ननिवर्तनीया न स्यात् , न
ह्यवस्तुसन्तः शशशृङ्गादयो यत्ननिवर्तनीयतया दृष्टाः, अतो मुमुक्षुप्रवृत्तीनां शास्त्राणाश्च 5 वैयर्थ दुर्वारम् । न च वाच्यं तस्याः सत्त्वे कथं निवृत्तिः, तदनिवृत्तौ कथं वा मुक्तिरिति, सत एव घटादेर्निवृत्तिदर्शनात् । घटादीनामपि न परमार्थसत्वं तेषामतादवस्थ्यादिति चेत्तर्हि अतादवस्थ्यात्तेषामनित्यत्वमेवास्तु नासत्त्वमन्यथा तेषां व्यवहाराङ्गत्वं न भवेत् । न च परमार्थसत्त्वात्तेषां न व्यवहाराङ्गता, अपि तु संवृत्येति
वाच्यम् , संवृतेः स्वभावासंवेदनात् , सांवृतं ह्युपचरितं काल्पनिक रूपमभिधीयते, यच्च 10 काल्पनिक तबाधकप्रत्ययेन व्यावर्त्यत इति कथं व्यवहाराङ्गं भवेत् । तथा सर्वमेकं
सत् , अविशेषादिति यदुक्तं किमयमझव्यापारो निर्दिष्टः, उतानुमानम् , नाद्यः, अद्वैतग्राहकत्वेनाध्यक्षस्य प्रतिषिद्धत्वात् , न द्वितीयः, दृष्टान्तदा_न्तिकभेदे सत्येव तस्य प्रवृत्तः, स चेत्पारमार्थिकस्तर्हि कुतोऽद्वैतम् , अपारमार्थिकश्चेन्न ततः पारमार्थिकाद्वैतसिद्धिः, तत्सा
धको हेतुरपि भिन्नश्चेत्कथमद्वैतम् , अभिन्नश्चन्न ततः साध्यसिद्धिः, प्रतिज्ञार्थंकदेशासिद्ध15 त्वेन तस्यागमकत्वात् , नापि कल्पितभेदात्ततस्तत्सिद्धिः, कल्पनाविरचितस्य कार्य
निर्वर्तनाक्षमत्वात् , तदेवमभेदे प्रमाणाभावाद्भेदस्य चाबाधितप्रमाणविषयत्वान्न तदभ्युपगमो ज्यायानिति शुद्धद्रव्यास्तिकमतप्रतिक्षेपिपर्यायास्तिकाभिप्रायः ।।
अशुद्धद्रव्यास्तिकसांख्यमतप्रतिक्षेपकस्तु पर्यायास्तिकः प्राह-यदुक्तं प्रधानादेव महदादि कार्यविशेषाः प्रवर्तन्त इति, तत्र महदादयो यदि कार्यविशेषाः प्रधानस्वभावा एव तदा नैषां 50 कार्यतया प्रवृत्तिः कार्यकारणयोभिन्नलक्षणत्वेन तदभिन्नस्य तत्कार्यत्वेन तस्य च कारणत्वेन
व्यपदेशायोगात् , अन्यथैकस्यैव कार्यत्वे कारणत्वे च तयोरसंकीर्णव्यवस्था न स्यात्, तथा च प्रकृतिः कारणमेव भूतेन्द्रिययोः कार्यत्वमेव, महदादयः कार्यरूपाः कारणरूपाश्चेत्यभिधानमसङ्गतमेव स्यात् , सर्वेषां परस्परमभेदात् कार्यत्वं वा कारणत्वं वा स्यात्
कार्यकारणभावस्यान्योऽन्यापेक्षत्वेनापेक्षणीयान्यरूपाभावात् पुरुषवत्सर्वेषां न प्रकृतित्वं न 25 विकृतित्वञ्च स्यात् , अन्यथा पुरुषस्यापि प्रकृतिविकारव्यपदेशप्रसङ्गः । एवञ्च हेतुमत्त्वादि
धर्मवत्त्वान्महदा दिकं व्यक्तं तद्विपरीतमव्यक्तमित्यभिधानमपि न सङ्गतम् , विपरीतताया रूपान्तरलक्षणत्वान्महदाद्यव्यतिरिक्तस्य प्रधानस्य तद्विपरीतत्वासम्भवात् , अन्यथा भेदव्यवहारोच्छेदप्रसङ्गः, ततश्च सत्वरजस्तमसा चैतन्यानां च परस्परभेदाभ्युपगमो निमित्तो भवेत् , एवञ्च विश्वरूपस्यैकत्वात्सहोत्पत्तिविनाशप्रसङ्गः, अभिन्नयोगक्षेमलक्षणत्वादभेद
"Aho Shrutgyanam"