________________
सोपानम् ]
पर्यायाधिकस्वरूपम् ।
: ९७ :
कालापेक्षक्रमत्वे चानवस्था, स्वतः क्रमत्वे पदार्थानामपि स्वत एव युक्त इति । तदेवं क्रमेणो पलभ्यमानमपरापरस्वभावमिति सिद्धः स्वभावभेदोऽत एव न स्वभावाभेदादभेदः सिद्ध्यति । अथ क्षणिकेsपि संवेदने पदार्थजातं युगपद्भासतेऽतो न क्षणभेदः, मैवम्, अनेकक्षणस्थितिर्हि कालाभेदलक्षणं नित्यत्वमुच्यते, न चानेकक्षणस्थितिर्युगपदवभाति, यदा ह्येका क्षणस्थितिरवभासते तदैव यदि द्वितीयक्षणस्थितिरपि तद्भिन्ना प्रतिभाति तदा क्षणद्वयस्य परस्परविविक्तस्य 5 युगपत्प्रतिभासनात् कथं नित्यतालक्षणः कालाभेदः । ननु दर्शनमेव न क्षणिकं येन तद्भेदाब्राह्यभेदो भवेत्, किन्तु तत्कालान्तरस्थितिमत्, तस्मात्कालान्तरानुषक्तमर्थमवगमयति, असदेतत्, स्थिरं हि दर्शनं किमनेककालतां युगपदवभासयति, आहोस्वित् क्रमेण, नाद्यः, यदा हि घटिकापरिगतमर्थमनुभवति न तदैव तदवभाससम्बन्धिनं तदनुभवे च तस्य वर्त्तमानतापत्तेर्न कालान्तरता । यदि च प्रथमदर्शनमेव भाविरूपतामवगच्छति तदा ग्रहण 10 विरतौ किमिति न जानाति पदार्थस्तिष्ठतीति । तदा ग्रहणमुपरतमतो नाधिगच्छतीति चेत्, तर्हि तत्कालतायाः परिग्रहणासम्भवः, यदा तदासीत्तदैव भाविरूपताया अपि परिच्छेदो जात इति न वाच्यम, तत्कालताया एव तेन ग्रहणात्, न भाविरूपतायाः, असन्निहितत्वात्, सन्निधाने तु भाविरूपत्वानुपपत्तेः । नापि द्वितीयः, वर्त्तमानताप्रकाशसमये कालान्तरस्थिते: तत्प्रकाशसमये च पूर्वकालताया अप्रतिभासेन परस्परासंस्पर्शिक्षणपरम्परैव दर्शनविष- 15 यो भवेत् । न च निरन्तरं दर्शिनस्तदेवेदमिति अभेदप्रतिपत्तिर्भविष्यतीति वक्तव्यम्, दृश्यमानात्तद्रूपस्य भेदे तद्रूपाभेदो न स्यात्, अभेदे च पूर्वरूपतया दृश्यमानस्य प्रतिभासे पूर्वरूपानुभव एव स्यात्, न वर्त्तमानरूपात्रमास इति सर्वेषामध्यक्षज्ञानानां स्मृतिरूपताप्रसङ्गः । यदि दृश्यमानतया पूर्वरूपस्याधिगतिः तदापि तस्य स्फुटमनुभूयमानरूपमेव स्यात्, न पूर्वरूपता, न हि सा तिरोहिताऽप्रतिभासमानमूर्त्तिरस्तीति शक्यं वक्तुम्, यदेव 20 हि तत्र दृशि प्रतिभाति वर्त्तमानं रूपं तदेव सयुक्तम्, पूर्वरूपता तु तत्र न प्रतिभाति, असन्निहितत्वात्, असन्निहिताया अपि तथा दृशा प्रतिभासने साऽनृता भवेत्, पूर्वरूपतायाः सन्निधाने वा तद्दृशि प्रतिभासमाना सा वर्त्तमानैव भवेन्नातीता, तथा च न पूर्वापरपभेदः । तथापि दर्शनं यद्युभयरूपतामवगमयति तदा सन्निहितासन्निहितस्वरूपग्राहित्वात्संविदपि परस्परभिन्ना भवेत्, वर्तमानता साक्षात्कारिसंविदः पूर्वरूपग्राहिवरूपतया, पूर्व- 25 रूपतावेदिकायाश्च वर्त्तमान रूप साक्षात्का रिस्वरूपतयाऽप्रतिभासनात्, अन्यथा सर्वत्र भेदोपरतिप्रसङ्गः, तस्मान्न कापि स्थायितालक्षणोऽभेदः प्रतिभासते । यच्च भेदप्रतिभासोऽविद्याविरचितत्वादपारमार्थिक इत्युक्तं तचेतरेतराश्रयप्रसङ्गादसङ्गतम्, भेदप्रतिभासस्य ह्यपारमा
१३
"Aho Shrutgyanam"