________________
: RA :
सम्मतितवसोपाने
[ त्रयोदशम्
दृश्यते, स्वस्याक्षव्यापाराभावे च पुरुषान्तरदर्शने प्रतिभाति सः, स्वयमप्यक्षव्यापारे पुनरुपलभ्यते, तस्मान्मुद्गरव्यापारजन्यो ध्वंस इति वाच्यम्, पुनर्दर्शनस्यैवासम्भवात् तद्धि किं पूर्वदृष्टस्य उतान्यस्य । उत्तरकाले दर्शनं यदि पूर्वदृष्टस्यैव तदा स्यादभेदसिद्धिः, किन्तु तस्यैवोत्तरदर्शनमित्यत्र प्रमाणं नास्ति, अन्यस्य चेन्न तर्ह्यभेदः । नापि अनवरतमविच्छे5 देन यहणं तदेवाभेदप्रहणम्, अविच्छेद दर्शनस्यानन्यदर्शन रूपत्वासिद्धेः, परस्परासंघ - टितवर्त्तमानसमय सम्बद्धपदार्थप्रतिभासनात् न ह्यत्र वर्त्तमानदर्शने पूर्वरूपग्रहणं प्रत्यक्षेण, तस्य वर्त्तमानस्यैव ग्रहणे प्रवृत्तेः, नापि स्मृतिः तत्र पूर्वरूपतां संघटयति, तस्याः स्वग्रहणव्यापारपर्यवसितत्वेन बहिरर्थमप्रतिभासयन्त्याः पूर्वापरयोरेकत्व संघटनेऽशक्तेः । प्रत्यभिज्ञानाञ्चाभेदोऽध्यारोप्यमाणो दलित पुनरुदितनखशिखरादाविव प्रतिभासभेदेनापाक्रियमाणो न 10 area: किन्त्वविच्छिन्नदर्शनेऽपि प्रतिकलमपरापरज्ञानप्रसवैरवगतस्याप्यर्थस्य भेदः । न च दर्शनमेव भिन्नं भिन्नमनुक्षणमर्थस्त्वभिन्न एवेति वक्तव्यम्, दर्शनभेदादेव दृश्यमानार्थस्य भेदसिद्धेः, यदा ह्येकं दर्शनं स्वकालेऽर्थसत्तां वेत्ति न तदाऽपरं दर्शनं यदा च तत्स्वकालमर्थं वेत्ति न तदा पूर्वं दर्शनमिति न तत्प्रतिभासित्वम्, अतो वर्त्तमान संविदस्तीति तदुपलभ्यमानतैवार्थस्यास्तु न तु पूर्वदर्शनोपलभ्यमानता, तस्मादुपलम्भभेदादुपलभ्यमानता15 भेदः । न च पूर्वोत्तरदर्शनोपलभ्यमानतैव भिन्ना नार्थ इति वाच्यम्, पूर्वदर्शनोपलभ्यमानतायुक्तार्थप्रतिभासकाले उत्तरदर्शनोपलभ्यमानतायुक्तस्य तत्प्रतिभासवेलायाञ्च पूर्वदर्श - नोपलभ्यमानतासङ्गतस्याप्रतिभासनात् तस्मादुपलभ्यमानता भेदादपि तद्वेदः, तदतिरिक्तश्योपलभ्यमानरूपस्यापरस्य अननुभवेनाभावात्, केवलं प्रत्यभिज्ञानादभेद आरोप्यते स च न वास्तवः । न चापरापरसंविन्मात्र व्यतिरिक्तस्यैकस्यात्मनोऽभावे क्रमवत्संवेदना20 भावादर्थक्रमस्याप्यभाव इति वाच्यम्, अनेकत्वे सति पूर्वापरयोरपत्ययोरिव दर्शनस्याध्यनेकत्वे क्रमसंभवात् न चानेकत्वं न प्रतीतिविषय इति वक्तव्यम्, एकत्वप्रतिभासाभावप्रतिभासस्यानेकत्व प्रतिभासरूपत्वात् तस्य च स्वसंवेदन सिद्धत्वात् । न च काले विना न पूर्वापरभावः अतोऽनेकत्वमात्रमवशिष्यते इति कथं क्रम इति वाच्यम्, दृश्यमानस्मर्यमाणतया पौर्वापर्यसद्भावेन क्रमसङ्गतेरविरोधात् हेतुसन्निधानासन्निधानाभ्यां 25 कार्याणां क्रमत्वात् हेतुसन्निधानासन्निधाने अपि तद्धेतुसन्निधानासन्निधानाभ्यामित्यना - विर्हेतु परम्परा, अतः स्वभावविशेष एव क्रम इति न किञ्चित् कालेन, कालस्याध्यन्व
१ अविच्छेददर्शनं हि धारारूपेण वस्तुनो दर्शनं तच्च प्रतिक्षणवस्तूनां सम्बद्धानां दर्शने सति स्यात्, तदेव न सम्भवति प्रतिक्षणभाविवस्तूनां परस्परं सम्बन्धानुपपत्तेः दर्शनस्य च पूर्वोत्तरक्षणग्रहणासामभ्यचिति भावः ॥
" Aho Shrutgyanam"