SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] पर्यायाधिकरूपम् । गृह्यमाणो भावोऽभेदव्यपदेशभाग्भवति कालान्तरख्यापित्वमनुभवतामेव भावानां नित्यत्वेनाभेदवत्त्वेन वा व्यपदेशार्हत्वात् , न च तत्राध्यक्षप्रत्ययः प्रवर्तते, भाविभूतकालतायामनु. मानस्मृत्योरेव व्यापारदर्शनात् , दृश्ये हि वस्तुनि पूर्वमिदं दृष्टमिति स्मरन् स्थिरावस्था दर्शनाद्भाविकालस्थितिमनुगिन्वन् पूर्वोत्तरकालसम्बन्धित्वमधिगच्छति जन इति न परिस्फुटसंवेदनपरिच्छेद्यः कालभेदः, न हि भूतावस्था भाविकालता वा स्फुटदृशां विषय इति 5 कथमध्यक्षगम्योऽभेदः । अथ क्षणभेदो न संविदोल्लिख्यत इति कथं तद्बाह्यः, मैवम् , क्षणभेद. स्याभेदविपर्यासरूपत्वेन कालान्तरस्थितिविपर्यासेन मध्यक्षणसत्त्वमेव गृहृता प्रत्यक्षेण क्षणभेदस्याधिगतेः। ननु प्रत्यक्षमभेदं नाधिगच्छति, तदुत्थापितन्त्वनुमानं तमधिगच्छति, अर्थानां स्थिरावस्थामुपलभ्य वर्षादिकालस्थितिमधिगच्छन्ति व्यवहारिणः, यतो यदि ध्वंसहेतुरस्य न संनिहितो भवेत् तदा वर्षादिकमेष स्थास्यतीति, तस्माद्यस्य विनाशः सहेतुकः तस्य तद्धेतु- 10 सन्निधानमन्तरेण स्थितिसद्भाव इति कालाभेदः, यस्य तु मन्दरादे शहेतुर्न विद्यते स सर्वदा स्थितिमनुभवतीत्युभयथाऽप्यभेदोऽनुमानावसेयः, मैवम् , अध्यक्षस्याभेदे कदाप्यप्रवृत्त्याऽनुमानस्यापि तत्राप्रवृत्तेः, न हि कालान्तरस्थायी भावोऽध्यक्षगोचरः, अध्यक्षगोचरत्वे वा तदा स्पष्टहगवगत एवाभेद इति किंमनुमानेन, तस्माद्यत् प्रतिभाति तत्सकलं क्षणान्तरस्थितिविरहितमिति पदार्थानां सिद्धः क्षणभेदः । ननु यस्य ध्वंसहेतुसन्निधानं न विद्यतेऽसौ भावोऽ 15 ध्यक्षविषयतामतिक्रान्तोऽपि तिष्ठतीति कथं क्षणभेदः, यद्यपि पूर्वोत्तरकालसंस्पर्शित्वेन नाध्यक्षोदयः, तथापि स पूर्वोत्तरकालवृत्तिभावग्रहणे समर्थ एव, न हि तथा ग्रहणाभावादेवार्थी न सन्तीत्यभ्युपगन्तुं युक्तोऽतिप्रसङ्गादिति चेन्न, तस्य भावस्य स्थिरत्वे दर्शने तस्यास्थिरतया प्रतिभासायोगात् , न हि शुक्लं वस्तु पीततया परिस्फुट प्रत्ययेऽदुष्टेन्द्रियजे प्रतिभाति तयोः परस्पर विरोधात् , प्रतिभासते चास्थिरतया तस्मात् क्षणभेदोऽध्यक्षगृहीत एव भावानाम् । 20 न वा भावानां विनाशो हेतुसान्निध्यापेक्षः, येन तदभावे भावः स्थायी भवेत् , अदर्शनस्यैवाभावरूपत्वात् , नाशहेत्वसम्भवाच्च, प्रतिभासमाने हि पुरोवस्थिते वस्तुनि न पूर्वापररूपयोर्दर्शनमस्ति, यतो ध्वंसस्य मुद्रादिहेतुत्वं स्यात्, मुद्गरायन्तरेणाप्यदर्शनस्य सम्भवात् । न च तदानीमदर्शनमेव न वस्तुनोऽभावः मुद्रव्यापारानन्तरन्तु घटादेरभावो नादर्शनमात्रमिति वाच्यम् , यतः कोऽयमभावो नाम, किमस्तमयः उतार्थक्रियाविरहो वा, यद्य- 25 स्तमयः, पर्यायभेद एव तदा, अदर्शनं अभाव इति । अर्थक्रियाविरहोऽप्यभाव एव, स च परिदृश्यमानस्य नास्तीत्यदर्शनयोग्य एव विद्यते, तथा चादर्शनमेवाभावस्तस्माद्भावादर्शनस्वरूपो नाशो मुद्रादिव्यापारात् प्रागपि भावस्यास्तीति न तजन्यो ध्वंस इत्यदृश्यमानोऽप्यस्तीत्यभिधानं विरुद्धं स्यात् । न च मुद्गरपातानन्तरं न घटादिः केनचिद् "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy