________________
सम्मतितत्त्व सोपाने
[ त्रयोदशम्
भेदप्रतिहतेरनानैकं जगत् स्यात् । तथा च दर्शनविषयमेतद्देशभेदसंसक्तं स्वरूपं नान्यमे - दसंसक्तमिति न तदस्ति, यदि तु तत्स्वरूपमन्यभेदपरिगततया भासेत तर्हि निखिलदेशगता भेदा अपि प्रतिभासेरन् । न च प्रथमदेशस्थ भेदप्रतिभासकाले देशान्तरगतभेदसम्बन्धिसद्रूपत्वस्याप्रतिभासेऽपि देशान्तरगत भेदान्तरोपलम्भसमये तन्निष्ठसद्रूपस्य प्रतिभासनात् 5 पश्चादभेदप्रतिपत्तिर्भवतीति वाच्यम्, तदापि भेदान्तरपरिष्वक्कतयैव सद्रूपस्य भानेन पूर्व मेदसंस्पर्शितया तस्यानधिगतेः पूर्वभेदस्यासन्निहितत्वेनाप्रतिभासनात् तस्मान्नापरापरदेशभेदसमन्वयिसद्रूपताया अवगमः । नापि प्रत्यभिज्ञाप्रत्यक्षेण तद्देशभेदेष्वनेकेष्वन्वयिसद्रूपत्वं प्रतीयत इति वाच्यम्, तस्याः प्रत्यक्षत्वे तदवसेयस्य सद्रूपस्य नानाभेदेषु एकत्वासिद्धेः, तस्याः प्रत्यक्षरूपताऽसम्भवाश्ञ्च । न चाक्षव्यापारसम्भूतायास्तस्याः कथं न प्रत्य10 क्षत्वं विकल्पातिरिक्तस्य भेदग्राहिणो विशददर्शनस्याध्यक्ष व्यापारजन्यत्वादेव प्रत्यक्षत्वादिति वाच्यम्, तथा सति प्रथमभेददर्शनकाल एव अपरभेदसमासक्ततया सद्रूपताया: परिच्छेदप्रसङ्गात् । अथ तदा सहकारिण्याः स्मृतेर्विरहान्नान्वयितया सद्रूपताया अवगमः किन्तु अपरभेददर्शने सति, तदोद्बुद्धसंस्कारजन्याया: स्मृतेः सत्वादिति चेन्न, तत्सहकृतस्यापि लोचनस्य सन्निहित एव घटादिभेदे तत्परिष्वक्तसद्रूपत्वे च प्रतिपत्तिजननसामर्थ्यात्, 15 न पूर्वदर्शनाधिगतभेदान्तरे, तस्यासन्निहितत्वेनातद्विषयत्वात्, न हि गन्धस्मरण सहकृतं
भुर्गन्धद्रव्ये सुरभि द्रव्यमिति प्रतिपत्तिं जनयितुमीष्टे, तस्मान देशभेदादभेदः सन्माstr केनचित्प्रमाणेनावगन्तुं शक्यः । नापि पूर्वापरकालसम्बन्धित्वं सन्मात्रस्याभेदः प्रत्यक्षविषयः, पूर्वापरविविक्तवर्त्तमानमात्रपरिच्छेदस्वभावस्य प्रत्यक्षस्य कालान्तरपरिगतपदार्थप्रकाशनासामर्थ्यात् । उपलम्भो हि सत्ता, उपलब्धिश्चाक्षान्वया वर्त्तमानमेव रूप20 मुद्भासयति, अक्षम्य वर्त्तमान एव व्यापारोपलम्भात्, तदनुसारिणी चाध्यक्ष प्रतीतिर - क्षगोचरमेव पदार्थस्वरूपमुद्भासयितुं प्रभुरिति दर्शनविषयो वर्त्तमानमात्रं सदिति स्थितम् । न चाक्षप्रभवे दर्शने साम्प्रतिकरूपप्रतिभासेऽपि कथं पूर्वापरक्षणभेदोऽध्यक्षावसेयः, मध्यमक्षणस्य परमाणोरण्वन्तररात्ययकालतुलितमूर्तिः क्षणभेदः, स चाध्यक्षस्य मध्यक्षणदर्शित्वेऽपि न तद्गम्यः सिद्ध्यतीति वाच्यम्, यस्य पूर्वापरकालसम्बन्धौ न स्तः परिहृत25] पूर्वापरकालविभागस्य तस्य क्षणभेदव्यवहारविषयत्वात् न हि पूर्वापरकालस्थायित्वेना
: ९४ :
१ प्रत्यक्षेण सताऽवश्यं स्वलक्षणविषयत्वात् कल्पनापोढेन भवितव्यम्, प्रमाणत्वाच्च भ्रान्तेन । न च प्रत्यभिज्ञानं कल्पानापोढम् स एवायमित्येवं अभिजल्पाकारतया संवेद्यमानत्वात् । नाप्यभ्रान्तं भिन्नेष्वभेदाध्यबसायेन प्रवृत्तेरिति भावः ॥ २ यदि हि पूर्वोपलव्धार्थविषया सा तर्हि पूर्वमेव भवेत्, अविकलकारणत्वात् पूर्वज्ञानवत्, अत्राविकलकारणत्वमसिद्धमित्याह अथ तदेति ॥
"Aho Shrutgyanam"