________________
सोपानम् ]
पर्यायाधिक स्वरूपम् । तदाभासाध्यक्षस्यानुभवसिद्धत्वात् , अध्यक्षस्य भावग्रहणरूपत्वाच । भावाश्च स्वस्वरूप. व्यवस्थिताः परेण साकं नात्मानं विना कल्पनाज्ञानं योजयन्ति । परस्परासकीर्णरूपप्रतिभासेन हि भावा व्यवहाराङ्गं नान्यथा। न च पदार्थान्तररात् पदार्थस्य भेदं प्रत्यक्षं न प्रतिपादयतीति वाच्यम् , सर्वतो व्यावृत्तभावानामेवाध्यक्षे प्रतिभासनात, पुरोवस्थिते हि घटपटादिके वस्तुनि चक्षुर्व्यापारसम्भूतप्रतिनियतार्थप्रतिभासादेव सर्वस्मादन्यतो 5 भेदोऽध्यक्षेण प्रतिपन्नः, अन्यथा प्रतिनियतप्रतिभासायोगात । न ह्यघटरूपतयाऽपि प्रति. भासमानो घटः प्रतिनियतप्रतिभासो भवति, अघटरूपपदार्थाप्रतिभासने च तत्र कथं न ततो भेदप्रतिभासः स्यात्, न हि घटस्तदात्मा भवति, सर्वभावानां स्वस्वभावव्यवस्थिते:, अन्यथा सर्वत्र सर्वस्योपयोगादिप्रसङ्ग इत्यन्याप्रतिभासनमेव घटादेः प्रतिनियतरूपपरिच्छेदः । यदि प्रतिनियतरूपस्य परिच्छेदे सत्यपि अन्यरूपपरिच्छेदो न स्यात्तदा प्रतिनियतकस्व. 10 रूपस्यापि परिच्छेदो न स्यात् । घटरूपे हि यद्यध्यक्षप्रत्ययेनापि अघटरूपभेदो नाधिगतस्तदाऽघटरूपमपि घटरूपं स्यादिति न प्रतिनियतघटरूपप्रतिपत्तिः स्यात् , तथा च सति प्रतिनियतवस्तुदर्शनात् कचिदेव कस्यचित्पुरुषस्य प्राप्तिपरिहारार्थो दृष्टो व्यवहारो न स्यात्, न च तत्रासतो रूपस्य प्रतिभासो युक्तः, तदप्रतिभासने च प्रतिभासमानरूपस्य ततो विवेकप्रतिभासो युक्त एव । न च भेदः कल्पनाज्ञानविषयोऽबाधितानुभवंगो- 15 चरत्वात् । अत एव भेद इतरेतराभावरूपो न प्रत्यक्षविषय इति प्रत्युक्तम् , भावस्वरूपग्रहणे इतरेतराभावरूपस्य भेदस्य प्रतिभासनात् । अनुमानागमयोः स्वरूपस्य तु भेदनिबन्धनत्वान्न भेदबाधकत्वम् , एवं प्रमेयभेदनिश्चये प्रमाणादपि प्रमेयस्य भेदो निश्चित एव भवतीति प्रमाणनिश्चिते भेदे तस्याबाधितत्वादभेदाभ्युपगमो न युक्तः । यदपि देशकालाकारभेदै दो न प्रत्यक्षादिभिः प्रतीयत इत्युक्तं तदभेदप्रतिपत्तावपि समानम, यदि 20 पदार्थानामभेदोऽपि देशाभेदात्तदा पूर्ववदेवानवस्थादिदोषप्रसङ्गः । ननु नानादेशसम्बन्धित्वेन प्रतिभासमानाः सर्वे घटपटादयः सद्रूपतया प्रतिभासन्ते सद्रूपत्वस्य सर्वदाऽ. विच्युतेरबाधितप्रत्ययविषयत्वेन पारमार्थिकत्वम् , घटादिभेदाश्च देशान्तरेषु प्रच्युतिमन्तो बाधितप्रत्ययविषयतया न पारमार्थिका इति चेन्न, यतः अन्यतमदेशगतघटादिभेदानामध्यक्षेण प्रतिपत्तिसमये तत्सम्बन्धितया यस्वरूपं स्फुटं प्रतिभासते तदा नापरदेशस्थघटा- 25 दिभेदसम्बन्धितत्स्वरूपमवभासते, तत्र तद्भेदानामसन्निधानेन तथा प्रतिभासायोगात्, अतः कथं तत्स्वरूपस्य देशान्तरस्य घटादिभेदानुगतत्वं प्रतिभासेत, यादृशं हि रूपं तद्भेदपरिष्वक्तं प्रत्यक्षेण स्पष्टमवगतं तस्य तदेव रूपमभ्युपेयम् , अन्यदेशस्थभेदानुगतस्य स्वरूपस्य तद्दर्शनासंस्पर्शिनोऽसम्भवात् , सम्भवे वा तस्य स्वरूपस्य दृश्यस्वभावाभेदत एकत्वात् सर्वत्र
"Aho Shrutgyanam'