SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ सम्मतितस्वसोपाने [ त्रयोदशम् द्धता । न च यथा बाह्यदेशावस्थितस्य नीलादेः सन्निधानात् ज्ञानमनीलमपि नीलाकारं संवेद्यते तथा बाह्यसुखाद्युपधानसामादसातादिरूपमपि सातादिरूपं लक्ष्यते तेन संवेदनस्य सातादिरूपत्वेऽपि न सुखादीनां संविद्रूपत्वं सिद्ध्यतीत्यनैकान्तिको हेतुरिति वा च्यम् , एकत्रैव शब्दादौ भावना दिविशेषात् प्रीत्याद्याकारप्रतिनियतगुणोपलब्धिदर्शनात्, 5 भावनावशेन हि मद्याङ्गनादिषु कामुकादीनां जातिविशेषाञ्च करभादीनां केषाश्चित् प्रतिनियताः प्रीत्यादयः सम्भवन्ति न सर्वेषाम् , एतच्च शब्दादीनां सुखादिरूपत्वान्न युक्तम् , सर्वेषामभिन्नवस्तुविषयत्वान्नीलादिविषयसंवित्तिवत् प्रत्येकं चित्रा संवित् प्रसज्येत । न च यद्यपि सुखदुःखमोहात्मकं वस्तु तथाप्यदृष्टादिलक्षणसहकारिवशात् किञ्चिदेव रूपं कस्यचिदाभाति न सर्व सर्वस्येति वाच्यम् , अनालम्बनप्रतीतिप्रसङ्गात् , तद्वस्तु व्याकारं 10 संविदश्चैकाकाराः संवेद्यन्त इति कथमनालम्बनास्ता न भवन्ति । न च प्रसादतापदैन्याधु पलम्भाच्छब्दादीनां सुखाद्यन्वितत्वं सिद्धमिति वाच्यम् , पुरुषेणानकान्तिकत्वात् । प्रकृतिव्यतिरिक्तं पुरुषं हि भावयतां योगिनां तमालम्ब्य प्रकर्षप्राप्तयोगानां प्रसादः प्रीतिश्च प्रादुर्भवति, अप्राप्तयोगानाश्च द्रुततरमपश्यतामुद्वेग आविर्भवति जडमतीनाश्च प्रकृत्याव रणं प्रादुर्भवति न च पुरुषत्रिगुणात्मकस्तवाभीष्ट इति । समन्वया दिति हेतुश्चानैकान्तिकः 15 प्रधानाख्येन कारणेन हेतोः कचिदप्यन्वयासिद्धेः, सिषाधयिषितं हि व्यापि नित्यमेकं त्रिगुणात्मकं कारणम् , न चैवम्भूतेन कारणेन हेतोः प्रतिबन्धः प्रसिद्धः । चेतनत्वादिधर्मसमन्वयिनः पुरुषा अभीष्टाः, न च ते तथाविधैककारणपूर्वका इध्यन्त इति तैरनैकान्तिकश्च । साध्यविपर्यये बाधकप्रमाणाभावाच्च परिमाणात्, शक्तितः प्रवृत्तः, कार्यकारण भावात् , वैश्वरूप्यस्याविभागादिति हेतूनां न प्रधानास्तित्वसाधकत्वम् , न हि प्रधाना20 ख्यस्य हेतोरभावेन परिणामादीनां विरोधः सिद्धः । किञ्च बुद्धिव्यतिरिक्तं चैतन्यमा स्मनो रूपम् , पुरुषश्च शुभाशुभकर्म फलस्य प्रधानोपनीतस्य भोक्ता, न तु कर्ता, सकलजगत्परिणतिरूपायाः प्रकृतेरेव कर्तृत्वात् , प्रमाणश्चात्र यत्संघातरूपं वस्तु तत्परार्थ दृष्टम् , यथा शयनासनादि, संघातरूपाश्च चक्षुरादय इति स्वभावहेतुः, यश्चासौ परः स आत्मेति तव मतं तदपि न युक्तम्, तथा हि चैतन्यं पुरुषस्य स्वरूपमिति वदता चैतन्यं नित्यै. 25 करूपमिति प्रतिज्ञातं तस्य नित्यैकरूपात् पुरुषादव्यतिरिक्तत्वात् , अध्यक्षविरुद्धञ्चेदम् , रूपादिसंविदां स्फुटं स्वसंवित्त्या भिन्नस्वरूपावगमात् , एकरूपत्वे त्वात्मनोऽनेकविधार्थस्य १भावना-अभ्यासः, आदिना जातिपरिग्रहः, जातिः स्वकीया प्रकृतिः प्रीत्यादीत्यादिना द्वेषोद्वेगादयः दैन्यावरणादयश्चेति गुण्यकार्यगणानां ग्रहणम् ॥ २ तदाकारासंवेदनस्य तद्विषयकाभावव्याप्यत्वात् शब्दाकारासंवेदनस्य चाक्षुषस्य शब्दविषयकवाभाववदिति भावः ॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy