________________
सम्मतितस्त्र सोपाने
[
}
पादकसांख्यदर्शनाश्रितः, अत एव तन्मतानुसारिणः सांख्या प्राहुः सत्वरजस्तमसां साम्यावस्थानलक्षणं प्रधानं महदादिसकलकार्यजनकशक्तियुक्तम्, तस्माद्बुद्धिर्महदभिधाना घटः पट इत्यध्यवसाय लक्षणा जायते, ततोऽहङ्कारः अहं सुभगः अहं दर्शनीय इत्याद्यभिमानस्वरूपः, तस्मात् शब्दस्पर्शरूपरसगन्धात्मकानि पच तन्मात्राणि, बुद्धीन्द्रियाणि पञ्च कर्मे5 न्द्रियाणि पञ्चमश्चेति षोडशको गणः प्रवर्तते, पञ्चतन्मात्रेभ्यश्च पञ्चभूतानि आकाशवायुतेजोजलपृथिवीरूपाणि जायन्ते तथा च महदादयः प्रधानं पुरुषश्चेति पञ्चविंशतिरेषां सत्वानि । महदादयः कार्यभेदा: प्रधानान्नात्यन्तभिन्नाः किन्तु प्रधानात्मका एव, त्रैगुण्यादिना प्रकृत्यात्मकत्वात् त्रिगुणं प्रधानम्, एवमविवेकि, इमे सत्त्वादयः इदच महदादिकमिति पृथक् कर्त्तुमशक्तेः, व्यक्तस्वरूपा महदादयोऽव्यक्तस्वरूपं प्रधानश्च विषयः, भोग्यस्वभावत्वात्, 10 सामान्यं सर्वपुरुषभोग्यत्वात् पण्यस्त्रीवत्, अचेतनं सुखदुःखमोहावेदकत्वात्, प्रसवधर्मि त्रैगुण्यादिरूपेण तद्रूपमहदादिकार्यप्रवर्तकत्वात्, तदुक्तम् ' त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि । व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान्' इति [ सांख्यका० ११] तत्र महदादयो व्यक्ताः कुतश्रिदुत्पत्तेः, उत्पत्तिधर्मकत्वात्, अव्यापित्वात् क्रियावश्वात्, . अनेकत्वात्, कारणाश्रितत्वात्, कारणे लीयमानत्वात् शब्दाद्यवयवयुक्तत्वात् सर्वदा 15 कारणाय सत्वाच्च न त्वेवं प्रधानपुरुषौ । तदुक्तम् ' हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतंत्रं व्यक्तं विपरीतमव्यक्तम् ' इति [ सांख्यका० १० ] ननु कारणे कार्याणां महदादीनां लीयमानत्वोत्त्या कारणे सत एव कार्यस्योत्पादो गम्यते तत्कथं ज्ञायते, तत्रोक्तम् ' असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ' इति [ सांख्यका० ९] उत्पत्तेः प्राक् कारणे यदि कार्यं न स्था20 तदा तत् केनचिन्न स्यात् गगनारविन्दवत्, न चैवं भवति, अतः पूर्वमपि कार्य कारणे सत्, तत्र तस्य शक्तिरूपेणाङ्गीकारात्, न तु व्यक्तरूपतयापि, तथा चासदकरणात् कार्यं कारणे सत् । कारणे च कार्यस्यासन्त्वे पुरुषाणां प्रतिनियतोपादानग्रहणं न स्यात्, शालिफलार्थिनो हि शालिबीजमेवोपाददते न कोद्रवबीजम्, कारणे कार्यस्यासत्वेऽसत्त्वाविशेषात् किमिति प्रतिनियतान्येव कारणानि गृह्णन्ति नान्यानि, तत्फलशून्यत्वान्न गृहन्तीति चेत्तर्हि शालिफलार्थिना 25 शालिबीजमपि न गृह्येत, न चैवं तस्मात्तत्र शक्तिरूपेण कार्यमस्तीति गम्यते । तथा यद्यदेव कार्यमुत्पद्यते तदा सर्वस्मात्तृणपश्वादेस्सर्वं स्वर्णरजतादिकार्यमुत्पद्येत, सर्वस्मिन्नुत्पत्तिमति भावे तृणादिषु कारणभावात्मताविरहस्याऽविशिष्टत्वात्, पूर्व कारणमुखेन प्रसङ्गः, सम्प्रति कार्यद्वारेणेति विशेषः न च सर्वं सर्वतो भवति, तस्मात्सर्वसम्भवाभावात्तत्रैव तस्य सद्भावो गम्यते । ननु कारणानि प्रतिनियतकार्येषु प्रतिनियतशक्तिमन्ति, तेन तत्र कार्यस्यासत्वेऽपि
: ९० :
"Aho Shrutgyanam"