________________
सोपानम् ।
ब्याधिकस्वरूपम् द्वैतप्रसङ्गाच्च । न च अग्रहणमविद्या, सा कथमर्थान्तरम् , न चानिवा , सर्वप्रमाणव्यापाराणामग्रहणनिवृत्त्यर्थत्वादिति वाच्यम् , यतः तत्त्वाग्रहणस्वभावाऽविद्या तत्वग्रह्णस्वभावया विद्यया निवय॑ते सा च विद्या ब्रह्मणि नित्या, न चास्ति ब्रह्मणोऽन्यो यस्य तत्त्वतोऽग्रहणं ब्रह्मणि प्रयत्नलभ्यया विद्यया निवर्येत, ब्रह्मणि तु युगपद्रहण ग्रहणे विरोधेन विप्रतिषिद्धे, अविरोधे वा न विद्यया तत्त्वाग्रहणव्यावृत्तिर्भवेत् , यस्य तु मते अन्यथाग्रहणरूपाऽविद्या. तन्म. 5 तेऽपि तस्या ब्रह्मस्वभावत्वेऽनिवृत्तिः, अर्थान्तरत्वे च द्वैतापत्तिः, नित्यप्रबुद्धत्वे च ब्रह्मणः कस्यान्यथात्वग्रह इति वक्तव्यम् , तद्व्यतिरिक्तस्यान्यस्यासत्त्वात् , तस्य च विद्यास्वभावत्वान्न तद्विपरीताऽविद्यास्वभावता, विरुद्धधर्मसमावेशायोगात् , अविरोधे विद्यया नाविद्याव्यावृत्तिरिति चेत् , अत्राहुः अविद्या न तावद्ब्रह्मणोऽनन्या, न वा तवान्तरं नाप्येकान्तेनासती, एवमेवेयमविद्या माया मिथ्याभास इत्युच्यते, वस्तुत्वे हि तत्त्वान्यत्वविकल्पावसरः, अत्य- 10 न्तासत्त्वे च खपुष्पवयवहारानङ्गम् , अतोऽनिर्वचनीया सा । तस्मानाविद्या सती, नाप्यसती, नाप्युभयरूपा, अत एवास्या अदृढस्वभावत्वेन निवृत्तिायामात्रत्वात् । कस्यासावविद्येति चेजीवानामिति ब्रूमः, ननु तेऽपि न ब्रह्मणोऽर्थान्तरभूता इति चेत्सत्यं, न परमार्थतः, किन्तु काल्पनिकस्तेषां ततो भेदः, । ननु कस्य कल्पना भेदिका, न हि ब्रह्मणः, तस्य विद्यास्वभावत्वेन सकलविकल्पातीतत्वात् , नापि जीवानाम् , कल्पनायाः प्राक् तेषामसत्त्वात् , 15 इतरेतराश्रयप्रसङ्गाच्च, कल्पनातो जीवविभागः तद्विभागे सति कल्पनेति, अत्र केचि. ब्रह्मवादिनः, वस्तुत्वे सति हि ' असिद्धं वस्तु वस्त्वन्तरसिद्धये सामर्थ्य नासादयती 'ति दोषः स्यात , मायामात्रे तु नेतरेतराश्रयदोषप्रसङ्गः, न हि मायायाः कथञ्चिदनुपपत्तिः, अनुपपद्यमानार्थैव हि माया लोके प्रसिद्धा, उपपद्यमानार्थत्वे तु यथार्थभावान मायेति वदन्ति । अन्ये तु मायाया जीवविभागस्य चानादित्वाद् वीजाश्रसन्तानयोरिव नेत- 20 रेतराश्रयदोषप्रसङ्गः । न च कल्पनया जीवविभागेऽपि तेषां तत्त्वतो ब्रह्माभिन्नतया विशुद्धस्वभावत्वान्न तत्राविद्याऽवकाशं लभत इति वाच्यम् , विशुद्धस्वभावाद्विम्यात् कृपाणादिषु यत्कल्पनाप्रदर्शितं प्रतिबिम्धं तत्र श्यामताद्यशुद्धेरिव जीवेषु अविद्याया अवकाशसम्भवात् । न च कृपाणादीनां मुखाद्भिन्नत्वेन भ्रान्तिहेतुता युक्ता, अत्र तु ब्रह्मव्यतिरिक्तस्याभावात्कथं विभ्रम इति वाच्यम् , जीवविभागस्यानादित्वेन परिहारात् , अनादित्वेऽपि 26 चोच्छेदः शक्यत एव विधातुं यथा भूमेरूपरस्येति वदन्ति । तदेवं सर्वमेकं सदविशेषादिति शुद्धद्रव्यास्तिकाभिप्रायः॥
अशुद्धस्तु द्रव्याथिको व्यवहारनयमतार्थावलम्बी एकान्तनित्यचेतनाचेतनवस्तुद्वयप्रति१२
"Aho Shrutgyanam"