SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ८८. सम्पतितस्वलोपान बोधस्यात्राप्यप्रतिभासनात् , अहं सुखी, अहं दुःखी स्थूलः कृशो वेति सुखादिशरीरा. दीनवलम्ब्यैव तस्य समुदयात , तस्मान्न स्वरूपेणाप्रतिभासमानवपुर्बोधो भावान् व्यवस्थापयितुं समर्थः । व्यतिरिक्तस्य बोधस्य प्रकाशेऽपि स्वरूपनिमग्नत्वान्न भिननीलादेाहकत्वम् , बोधकाले हि न नीलादिकं प्रतिभासते येन बोधस्तस्य प्राहको भवेत् , नीलादेर 5 पि बोधं प्रति ग्राहकतापत्तेः । न च पुरोवर्तिषु नीलादिषु प्रत्यक्षतां प्रति बोधस्य व्याप्रिय. माणतयोपलम्भाद्राहकत्वं तद्विषयत्वाच्च नीलादेर्पाह्यत्वमिति वाच्यम् , तद्वयतिरिक्तस्य व्यापारस्यानुपलम्भेनासत्त्वात् , उपलम्भे च तस्य बोधस्य तत्राप्यपरो व्यापार इत्यनवस्थाप्रसङ्गात् । स्वत एव व्यापारोपलम्भेऽङ्गीकृते स्वातनयेणोपलम्भान्न तस्य बोधव्यापारत्वम् , बोधपरतंत्रतया तव्यापारत्वमिति चेन्न समानकाले प्रतिभासिनस्तस्य पारतन्त्र्यायोगात् , 10 अन्यथा बोधस्यापि व्यापारपरतंत्रतापत्तेः । तस्माद्बोधनीलव्यापारलक्षणस्य त्रितयस्यैककाल मुपलम्मान कर्तकर्मक्रियाव्यवहारः सम्भवतीति न वस्तुतो ग्राह्यग्राहकभावः, भिन्नकालयोस्तु ज्ञानज्ञेययोः परस्परसन्निधिनिरपेक्षतया न वेद्यवेदकतासम्भब इति न बोधात्मा तुल्यकालयोर्नीलपीतयोर्भेदस्य साधकः, स्वरूपनिष्ठत्वात् । किञ्च भेदो न कापि स्वरूपेण स्थितिमासा. दयति, स्थूलावभासिनो नीलादेरनेकदिक्सम्बन्धात् परमाणुरूपतया तस्यापि नानादिकसम्ब. 15 न्धेन भेदात् , तथा चानवस्थानान्न भेदस्थितिः, एकस्य कस्याप्यसिद्ध्या तत्रान्यभेदस्यावस्था नासम्भवात् । न च नीलादेः सुखाद्यात्मनाऽननुभवाझेदस्येवाभेदस्यापि प्रत्यक्षतो न प्रसिद्धिरिति वाच्यम् , नीलादिप्रतिभासानां भेदावेदनस्यैवाभेदवेदनरूपत्वात् । न च तेषामभेदावेदनमेव भेदवेदनम् , न हि देशकालाकारैरेकत्वं जगतः प्रतीयते, परस्परोपलम्भपरिहारेण देशा दीनां प्रतिभासनादिति वक्तव्यम् , अन्योन्यपरिहारेणोपलम्भस्याद्वैतवादिनोऽप्रसिद्धत्वात् , न 20 च भेदवादिनः परस्परानुप्रवेशोपलब्धिरसिद्धति वाच्यम् , सर्वत्र सन्मात्रोपलब्धेः सद्भावात् , तस्मान्न कुत्तश्चित्प्रमाणाद्भेदसिद्धिः । ननु सल्लक्षणमेकं यदि ब्रह्म तर्हि तकि विद्यास्वभावम् , उताविद्यास्वभावम.नांद्यः निवय॑स्य प्राप्तव्यस्य वा कस्यचिदभावेन तदर्थानां शास्त्राणां प्रवृत्तीनाश्च वैयापातात् । न द्वितीयोऽसत्यताप्रसङ्गात् , मैवम् , ब्रह्मणोविद्यास्वभावत्वेऽप्यवि. द्याया व्यापारनिवर्तनीयस्वरूपायाः सद्भावेन शास्त्रादीनां साफल्यात् । न चाविद्या तत्त्वतो . 25 ह्मणो भिन्ना नास्त्येव, या प्रयत्ननिवा भवेदिति वाच्यम् , तदभेदे तात्त्विकायास्तस्याः स द्भावे तत्स्वरूपस्य केनापि निवर्तयितुमशक्यत्वात् , न चास्माकमेव मुमुक्षूणां पुरुषप्रयत्नोऽ विद्यानिवर्तकः किन्तु सर्वत्र प्रवादेषु अतात्त्विकानाद्यविद्योच्छेदार्थो मुमुक्षुयत्नः। ननु नानादे!च्छेद इति वदामः, किन्तु नित्यस्य ब्रह्मणोऽविद्या किं स्वभावः, उतार्थान्तरभूता, तत्र नायः, तस्य तद्विरुद्धविद्यास्वभावत्वात् , न द्वितीयः, तस्यास्तत्त्वतः सद्भावे उच्छेदासम्भवात् , "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy