SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ सोपानम् द्रष्यार्थिकस्वरूपम् । स्वतोऽभिन्नस्यान्यभेदेन भेदानुपपत्तेः न ह्यन्यभेदोऽन्यत्र संक्रामति । देशस्यापि भेदकान्तरोपेक्षायामपरदेशभेदादिकल्पनेऽनवस्था, स्वतो भेदे च भावभेदोऽपि तथा स्यादिति देशभेदाद्भेदकल्पनाऽन्याय्या । देशभेदस्य च ज्ञानाभावे न तद्भेदाढ़ेदोऽपि ज्ञातुं शक्यः स्वतोऽव्यवस्थितस्यापरव्यवस्थापकत्वायोगात्, न द्वितीयः, प्रत्यक्षस्य सन्निहितमात्रवृत्तित्वेन ततः कालभेदाद्वस्तुभेदस्य प्रतीत्ययोगात , मृत्पिण्डोपलम्भक्षणे हि घटस्य भावित्वेनाप्रतीत्या प्रतियोगि- 5 ग्रहणाभावेन ततो भिन्नमिदमिति न प्रतीतिः मृत्पिण्डमात्रस्य प्रतीयमानत्वात् , घटकालेऽपि प्रत्यक्षस्य पूर्वदृष्टार्थग्रहणाक्षमत्वात् पुरः प्रतिभासमाने वस्तुनि मृत्पिण्डभेदो न ततो ग्रहीतुं शक्यः, तस्मान्न कालभेदादपि भेदावगमः । न च पूर्वदृष्टार्थस्मरणसहकृतेन दर्शनेन भेदोऽवगम्यत इति वाच्यम् , स्मृत्या पूर्वदृष्टार्थावगमेऽपि भेदस्य पूर्वमदृष्टत्वात् , भिन्नस्य प्रतियोगिनोऽवगमने तस्या असामर्थ्यात् । किश्च स्मृत्तिः स्वरूपनिमग्ना कथं भेदमादर्शयितुं क्षमा भवेत् , 10 तथाहि स्मृतौ किं स्मर्यमाणरूपेणार्थ आरूढः, दृश्यमानरूपेण वा, नाद्यः, स्मर्यमाणरूपस्य तत्राभावात् , पूर्व हि तस्य दर्शनारूढं परिस्फुटं रूपमधिगतं न च तत्स्मृतौ प्रतिभाति, न द्वितीयः, दृश्यमानरूपेणार्थस्य स्मृतावप्रतिभासनात् । न चोत्तरदर्शने स्मृतौ वा पूर्वरूपाप्रतिभासनमेव भेदवेदनमिति वाच्यम् , प्रत्यक्षे स्मृतौ च पूर्वरूपविविक्तताप्रतिभासकस्य कस्याप्यभावात्, न हि पूर्वरूपस्यैव प्रतिभासकं किञ्चिदस्ति तदनवगमाच्च न- तद्विविक्तताया 15 अवगमश्शक्यः । न च भावस्वरूपमेव भेदः तत्प्रतिभासे सोऽप्यवगत इति वाच्यम् , भावरूपमेव भेद इत्यसङ्गतेः, प्रतियोग्यपेक्षया ततो भिन्नमेतदिति भेदव्यवस्थापनात् । भावस्वरूपस्यैव भेदरूपत्वे च परापेक्षया भेद इव स्वापेक्षयापि भेदः स्यात् , परापेक्षयैव भेदो न स्वात्मापेक्षयेति चेन्न पररूपस्यैवाप्रतिपत्तेरिति न पूर्वापरकालभेदात्पदार्थभेदः । नाप्याकारभेदाढ़ेदः, समानकालयोर्नीलपीतयोरिवेति वक्तुं शक्यं विकल्पानुपपत्तेः, सोऽयं हि स्व- 20 रूपभेदः किं स्वत एव प्रतिभाति, उत व्यतिरिक्तप्रतिभासावसे यः, नाधः, नीलादेः स्वतः प्रकाशने स्वप्रकाशत्वप्रसङ्गात् , तथात्वे च नीलस्वरूपं स्वात्मनि निमग्नं न पीतस्वरूपसंस्पर्शि, पीतस्वरूपमपि स्वस्वरूपावभासं न नीलस्वरूपसंस्पर्शीति परस्परासंवेदनात् स्वरूपतोऽपि न भेदसंवेदनम् , भेदस्य द्विष्ठत्वेन द्वयासंवेदने तद्वेदनासम्भवात् । न चैकस्वरूपप्रतिभासेऽपरस्वरूपाप्रतिभासनमेव भेदवेदनम् , नीलस्वरूपप्रतिभासे नीलस्यैव विदितत्वेन पीतादेरनवभासनात्तत्र पीतादिकं नास्तीति नास्तित्वावेदनात्स्वरूपमात्रप्रतिभासेन भेदासिद्धेः । न द्वितीयः, व्यतिरिक्तो हि बोधः स च न भेदमवगमयितुं समर्थः, अपरोक्षनीलसुखाचाकारव्यतिरिक्तस्य तस्याप्रतिभासमानत्वेनासत्त्वात् , बहिर्नीलादेरन्तश्च सुखादेरेव प्रतिभासमानतया तदुभयव्य. तिरिक्तस्य बोधात्मनः स्वप्नेऽप्यनुपलम्भात् , । न चाहंप्रत्ययेन बोधात्माऽवसीयते, बिशुद्ध "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy