________________
सम्मतितस्वसोपाने
[ জাহা अनयोः द्रव्यार्थिकपर्यायार्थिकयोः । अत्र सिं इति प्राकृतशैल्या, ' बहुवयणेण दुवयणं' इति द्विवचनस्थाने बहुवचनमित्यर्थः ॥
तथाहि द्रव्यार्थिकपर्यायार्थिकावेव नयौ, परस्परविविक्तसामान्यविशेषविषयत्वात् , न चास्त्याभ्यां भिन्नो विषयो यद्वाहकतयाऽन्यः कश्चन तृतीयो नयः स्यात् , भेदाभेदरहितस्या5 परस्य भावस्वभावस्यानुपपत्त्या तृतीयस्य विषयस्यासम्भवः । न च भेदाभेदाभ्यामन्यस्तद्वान् एकोऽर्थोऽस्तीति वाच्यम् , सोऽपि भावस्वभावो वा स्यादभावस्वभावो वेति विकल्पानतिवृत्त्या तस्य तदुभयभिन्मस्वभावत्वासम्भवात् ,तत्स्वभावातिक्रमे हि भावः खपुष्पसहशो भवेत् । ताभ्यां तद्वतोऽर्थान्तरत्वे तु सर्वथा तत्सम्बन्धप्रतिपादनोपायो नास्त्येव, समवायस्य च तस्य भेदाभेद
तद्वद्भिरसम्बन्धे तेन तद्व्यपदेशो न स्यात् , समवायान्तरस्य तैः तस्य सम्बन्धकतया कल्पने 20 चानवस्था, तथैव विशेष्यविशेषणभावसम्बन्धकल्पनेऽप्यपरापरतत्कल्पनाप्रसङ्गान सम्बन्ध
सिद्धिः,तस्मान्न नयद्वयबहि विभावस्वभावान्तरसम्भवः । किन्तु तयोरेव शुद्ध्यशुद्धिभ्यां वस्तुस्वरूपनिरूपणविकल्पाभिधानवृत्तयो व्यवतिष्ठन्ते नयाः। तत्र सङ्ग्रहनयाभिमतविषयनिरूपणपरो द्रव्यार्थिकनयः शुद्धः, तत्रेत्थं सबहनयाभिप्रायः सर्वमेकं सदविशेषात् , सर्वे हि
भावाः स्वरूपेण प्रतिभान्ति, तदेतेषां सल्लक्षणं स्वरूपं निर्विकल्पकप्रत्यक्षमाह्यम् , भेदलक्षणो 15 विशेषश्चान्यापेक्षत्वान्न तेषां स्वरूपम्, इतरानपेक्षया झटित्यप्रतीतेः, यद्धि तथा प्रतीयते
तत्तस्य स्वरूपम् , भेदश्च विकल्पविषयत्वादितरापेक्षत्वेन काल्पनिकम् , तच्चापरमार्थसदुच्यते। इदमस्मान्यावृत्तमिति हि भेदप्रतीतिः, स च नाध्यक्षस्य गोचरः, अतः सर्वावस्थासु यदनुगतं रूपं तदेव तात्त्विकम् , यथा सर्पादिविकल्पेषु बोधमात्रं सर्वेष्वनुगच्छत्तात्त्विकम् , सर्पाद्या
कारास्तु व्यावृत्ताः परस्परतो भिन्नरूपा बाधकेन बाध्यन्ते न तु बोधमात्रम् , तथा घटादिषु 20 विभिन्नेष्वपि यावद्रेण्यवस्थानं तावन्मृद्रुपतानुवृत्तेः मृद्रुपतायाः सत्त्वम् , घटादीनान्तु किश्चि.
स्कालं प्रतीयमानानामप्यर्थक्रियाञ्च कुर्वतां स्वप्नदृष्टपदार्थवन्न सत्त्वम् , एवं यथा स्वभेदे. ध्वनुगताया मृदूपतायाः सत्यं तथा मृद्रूपत्वादीनामपि सत्त्वापेक्षया भेदरूपत्वान्न तात्त्विकत्वम् , अत एवोक्तम् ' आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा । वितथैः सदृशाः सन्तोऽ
वितथा इव लक्षिताः' [गौडपा. का. ६ पृ. ७० वैतथ्य प्र० ] तथा ' सर्वमेकं सल्लक्षणं 25 ब्रह्मः' इलि । 'एकमेवाऽद्वितीयं' (छान्दोग्य, अ. ६ खं० २ मं० १) 'पुरुष एवेदं सर्व'
(ऋकूसं० मण्ड० १० सू० ९० अ. २) इत्यादिकोऽनेकोऽद्वैतप्रतिपादक आम्नायः । न चाभेदप्रतिपादक आगमः प्रत्यक्षबाधितः, प्रत्यक्षस्थानुगतरूपग्राहकत्वेनाभ्युपगमात्, न तु भेदग्राहकक्यापि, न चाभ्युपगममात्रमेवेति वक्तव्यम् , प्रत्यक्षप्रतीतिविषयतयाऽभ्युपगम्यमानो भेदः किं देशभेदात् , उत कालभेदात् , किंवाऽऽकारभेदादभ्युपगम्यते, न तावत्प्रथमः पक्षः,
"Aho Shrutgyanam"