________________
सोपानम्
द्रव्यार्थिकस्वरूपम् ।
1
नियत संकेत सहकृतस्य शब्दस्य नियतार्थप्रतिपत्तिदर्शनात् कार्यगम्यं हि वस्तूनां नियतत्वमन्यद्वा यदा च नियतं तत्कार्यमुपलभ्यते तदा कुतो न तस्य नियतत्वम् । तस्मादबाधित शब्दार्थ सम्बन्धप्रतिपत्तेरबाधिताकारप्रतिपत्त्या तात्त्विकार्थधर्मव्यवस्थापकत्वाद्युक्तमेवोक्तं समयपरमार्थविस्तरेति ॥ २ ॥
इति तपोगच्छनभोमणि श्रीमद्विजयानन्द सूरीश्वरपट्टालङ्कारश्रीमद्विजय कमलसूरीश्वर- 5 चरणनलिनविन्यस्तभक्तिभरण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलितस्य म्मतितत्व सोपानस्य अपोहस्य शब्दार्थतानिरसनं नाम एकादशं सोपानम् ॥
नयद्वयघटकद्रव्यार्थिकस्वरूपम् |
अथ प्रकरणस्यास्यारम्भः कुण्ठधियामप्यन्तेवासिनां योग्यतासम्पादनार्थं कृतः, सा च योग्यता विशिष्टसामान्यविशेषात्मक पदार्थतदुपायभूतनयप्रतिपादनं विनाऽस्मात् प्रकरणान सम्पद्यतेऽतो योग्यताया उपायभूतं प्रकरणाभिधेयमथं निर्द्दिशति
तित्थयरवयणसंगहविसेसपत्थारमूलवागरणी ।
दवडिओ य पजवणओ य सेसा वियप्पा सिं ॥ ३ ॥
: ८५ :
तीर्थकरवचनसङ्ग्रहविशेष प्रस्तार मूलव्याकरणी । द्रव्यार्थिकश्च पर्यवनयश्च शेषा विकल्पा एषाम् ॥ छाया ॥
" Aho Shrutgyanam"
10
15
तीर्थकरेति, संसारार्णवं येन तरन्ति तत्तीर्थं द्वादशाङ्गम्, तदाधारो वा सङ्घः, उत्पद्यमानं तत् कुर्वन्ति उत्पादयन्ति तत्स्वाभाव्यात् तीर्थकर नामकर्मोदयाद्वेति तीर्थकराः, तेषां वचनमाचारादि, तस्यार्थतस्तैरुपदिष्टत्वात् तस्य सङ्ग्रहविशेषौ सामान्यविशेषशब्दवाच्यो 20 अभिधेयभूतौ द्रव्यपर्यायौ, तयोः प्रस्तारः, सङ्ग्रहादिकेन नयराशिना येन प्रस्तीर्यते विस्तीयेते स प्रस्तारः, तत्र सामान्यप्रस्तारस्य सङ्ग्रहव्यवहार प्रस्ताररूपस्य तस्य मूलव्याकरणी मूलतो व्याकर्त्ता आद्यवक्ता ज्ञाता वा द्रव्यार्थिकः द्रव्यमेव सत्तैवार्थोऽस्येति द्रव्यार्थिकः, प
वो विशेषः तज्ज्ञाता वक्ता वा स चासौ नयनं नयः पर्यवनयः पर्यायास्तिकः, स च विशेषप्रस्तारस्य ऋजुसूत्रशब्दादेरायो वक्ता, अत्र द्रव्यार्थिक पर्यायनययोर्मूलव्याकरणीशब्दाभि- 25 धेयतया मूलव्याकरणशब्दस्य द्विवचनान्तताया औचित्येऽपि प्रत्येकं वाक्यपरिसमाप्तेरेकवचनान्ततया निर्देशः, अत एव चकारद्वयं मूले आहतम्, शेषा नैगमादयो विकल्पा भेदा