SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ सम्मतितत्त्वसोपाने [ एकादशम् ल्पकप्रत्यक्षे यत्रैव विकल्पः तत्रैव प्रवृत्त्यादिव्यवहारकर्तृत्वेन तस्य प्रामाण्यं नान्यत्र, अनु. मानविकल्पे च प्रत्यक्षाभावेऽपि प्रवृत्त्यादिव्यवहारविधायकत्वेन प्रामाण्यमित्यन्वयव्यतिरेकाभ्यां विकल्पस्यैव प्रामाण्यं तस्यैव च व्याप्तिग्राहकत्वमवश्यमभ्युपगन्तव्यम् । अन्यथा प्रत्यक्ष स्वलक्षणं विषयलक्षणं वा तत्त्वं न निश्चिनोति विकल्पस्तु साकल्येनावस्त्वेव 5 निश्चिनोति इति निश्चयक्रियाप्रतिषेधान्न किश्चित्केनचिन्निश्चेयमनिश्चितेन च स्वरूपेण न तत्त्वव्यवस्था स्यात् , तस्मात् प्रत्यक्षवच्छाब्दस्याप्युभयात्मकवस्तुनिश्चायकत्वेन प्रामाण्यमभ्युपेयम् , दृश्यन्ते हि स्वयमदृष्टेषु नदीदेशपर्वतद्वीपादिष्वाप्तप्रणीतत्वेन निश्चितात्तच्छब्दात्तत्त्वप्रतिपत्ति कुर्वाणाः । न च पुरस्थं घटादिकं चक्षुर्जन्ये प्रत्यक्षे श्रोत्रजे च शब्दस्वरूपं प्रतिभासते नान्यः कश्चिद्वाच्यवाचकभावस्तयोरिति वाच्यम् , एकान्तेन ताभ्यां मिनस्य 10 वाच्यवाचकभावस्यास्माभिरनभ्युपगमात् , यद्यभ्युपगम्यते तदा तस्य पृथक् प्रतिभासप्रसन आपाछेत, किन्तु संकेतसव्यपेक्षस्य शब्दस्य वाचकत्वं कथञ्चिदभिन्नो धर्मः, तदपेक्षया चार्थस्यापि वाच्यत्वं तथाभूत एव धर्मः, तञ्च द्वयमपि शब्दार्थप्रतिभाससमये क्षयोपशमवि शेषाविर्भूते कचिज्ज्ञाने प्रतिभासत एव | सङ्केतसमये हि इदमस्यवाच्यम्, इदमस्य वाचकमिति तद्राहिविशिष्टेन्द्रियादिसामग्रीप्रभवं ज्ञानमनुभूयत एव । अविशदस्यापि दूर. 15 स्थवृक्षाद्यर्थग्राहिणः प्रत्यक्षत्वात् तत्प्रतिभासाविशिष्टस्य शाब्दस्यापि तत्र प्रामाण्येन तदुत्था पकशब्दस्य सत्र सामर्थ्य निश्चयात् वाचकत्वस्य प्रतिपादकत्वस्वरूपपक्षे प्रदर्शितदोषाणां नावकाशः । श्रुतं पश्यामीत्यत्र दृष्टश्रुतरूपादिकल्पनानिमित्तदोषोद्भावनमपि न सम्यक् एकचित्रप्रतिभासिज्ञानेऽपि तथा प्रसङ्गात्, तथा हि तत्रापि पीताद्याकारतया नीलाद्याकार ग्रहणे पीताद्याकारापत्त्या न नीलाद्याकारः, नीलाद्याकारतया च पीताद्याकारग्रहणे नीला20 द्याकार एवासाविति कुतः चित्र एकः, तथा नीलसंवेदनेऽपि प्रतिपरमाणु एवं कल्पनया नैकं नीलप्रतिभासं ज्ञानं स्यात् , विविक्तस्य च ज्ञानपरमाणोरसंवेदनात् सर्वशून्यतापत्त्या सर्वव्यवहारोच्छेदः स्यात्, यद्येकत्वेन संवेदनादनेकनीलपरमाणुसमूहात्मकमेकं नीलझानमित्युच्यते तर्हि दृष्टश्रुतरूपमबाधितैकत्वप्रतिभासादेकं बहिर्वस्तु किं नाभ्युपगम्यते । यथा युगपद्भाव्यनेकनीलज्ञानपरमाण्यवभासानां स्वसंवेदने नैकत्वविरोधस्तथा क्रमेणापि दृष्ट25 श्रुतावभासयोरेकत्वेनाविरोधो दृष्टं शृणोमीति ज्ञानेन भविष्यतीत्येकत्वावभासिना दर्शन शब्दविषयस्यार्थस्यैकत्वं निश्चीयत इति परमार्थत एव तत्तत्वम् । शब्दार्थयोः सम्बन्धोऽपि न काल्पनिकः, प्रतिनियतसंकेतानुसारिणो नियताच्छब्दात् प्रतिनियतार्थप्रतिपत्तिदर्शनात् । न च श्रोतुः प्रतिपत्तिः संकेतानुसारिणी दृश्यते, कलिमार्यादिशब्देभ्यो द्रविडार्ययोर्यथाक्रममन्तकालबर्षोपसर्गादिप्रतिपत्तिदर्शनान्न नियतः सम्बन्ध इति वाच्यम्, "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy